________________
२९८
महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघु
भावात् न तन्निमित्ताः शब्दा द्रव्यशब्दा इति नीलोत्पलमित्याद्येव भवति, नतूत्पलनीलादीति ॥ यस्तु गुणादिशब्दानामेव समासस्तत्रोभयोरपि पदयोरप्रधानत्वात्कामचारेण पूर्वापरनिपातः । खञ्जकुण्ट: कुण्टखञ्जः शुकृकृष्णः कृष्णशुकु इति । एवं क्रियाशब्दद्रव्यशब्दयोरपि - याचकपाचकः पाचकयाचकः, धन्विदण्डी दण्डधन्वीत्यादि । पूर्वा चासावुत्तरा च पूर्वोत्तरा उत्तरपूर्वेत्यादि । वृद्धोति -अत्र कर्मधारये ५ तु समासान्तः स्यात् । चकारस्तत्पुरुषकर्मधारयसंज्ञासमावेशार्थः । कर्मधारयप्रदेशाः “कडारादयः कर्मधारये” ( ३|१|१५८ ) इत्यादयः ॥ ६१ ॥
पूर्वकालैक सर्वजरत्पुराणनवकेवलम् ॥ ६२ ॥ [ सि० ३ १ ९७ ]
पूर्वः कालो यस्य तद्वाचि एकादीनि चैकार्थानि नाम्ना समस्यन्ते । पूर्वं स्नातः पश्चादनुलिप्तः स्नातानुलिप्तः । एकशाटीत्यादि ॥ ६२ ॥
१०
“पूर्व०” पूर्वः कालो यस्येति स पूर्वकालः । पदार्थसम्बन्धिशब्दत्वादपरकालेन पदार्थेन समस्यते । स्नातानुलिप्त इति । एवं लिप्तवासितः पूर्वं कृष्टा पश्चान्मतीकृता कृष्टमतीकृता भूमिः । मतं लोष्टमर्द्दनकाष्ठम्, मतमस्या अस्तीति मतिनी क्षेत्रभूमिः, अमतिनी मतिनीकृतेति च्वौ पुंवद्भावे दीर्घत्वे च मतीकृता । च्छिन्नप्ररूढो वृक्षः । एकशाटीति - एका शाटी एकशाटी, एवं एकपर्यः, एकचौरः, एकधनुर्धरः । एकशब्दः सङ्ख्याऽन्याऽसैहाया द्वितीयेषु वर्त्तते इति । सर्वशब्दो द्रव्यावयवप्रकारगुणानां कात्न्यै वर्त्तते । १५ सर्वशैलाः, सर्वरात्रः, सर्वान्नम्, सर्वशुक्लः, जरद्भवः, पुराणवैयाकरणः, नवोदकम्, नवोक्तिः, केवलमसहायं ज्ञानं केवलज्ञानम्, केवलजरत्, केवलपुराणम् । पूर्वेणैव सिद्धे पुनर्वचनं "स्पर्द्धे” ( ७|४|११९) परम् इति पूर्वनिपातस्य विषयदर्शनार्थम्, पूर्वापरकालवाचिनोरद्रव्यशब्दत्वादनियमे प्राप्ते पूर्वकालवाचिन एव पूर्वनिपातार्थं च ।
इत्यादिकरणाच्च “दिगधिकं संज्ञातद्वितोत्तरपदे” (३|१|९८ ) । दिग्वाचि अधिकमित्येतच्च २० नामैकार्थं परेण नान्ना सह समस्यते, संज्ञायां तद्धिते च प्रत्यये विषयभूते उत्तरपदे च परतः । दक्षिणाः कोशला दक्षिणकोशलाः, उत्तरकोशलाः, एवन्नामानो जनपदाः । संज्ञायां नित्यसमासः, नह वाक्येन संज्ञा गम्यते । पूर्वोत्तर विभागप्रदर्शनार्थं तु विग्रहवाक्यम् । तद्धिते - दक्षिणस्यां शालायां भवो दक्षिणशालः, उत्तरशालः । अधिकं खल्वपि - अधिकया षष्ट्या क्रीतोऽधिकां षष्टिं भूतो भावी वा अधिकषष्टिकः । अयमपि नित्यसमासः, नहि तद्धिते वाक्यमस्ति । उत्तरपदे - दक्षिणे ( णो ?) गौर्धनमस्य दक्षि२५ णगवधनः, पूर्वगवीप्रियः । अत्र तत्पुरुषलक्षणः समासान्तः । उत्तरपदेऽपि नित्यसमासः । त्रयाणामेकार्थीभावे एवोत्तरपदसम्भवात्तत्र च द्वयोर्व्यपेक्षाभावात् । “विशेषणं विशेष्येण” इत्येव सिद्धे नियमार्थं वचनम् । दिगधिकं संज्ञादिष्वेव समस्यते, नान्यत्रेति । दक्षिणा गावोऽस्य सन्ति दक्षिणगुः इत्यादौ सन्तीत्येतदनपेक्षयान्तरङ्गत्वेन बहुव्रीहिभावादुक्तार्थत्वेन मत्वर्थीयतद्धितीयविषयभाव एव नास्तीत्यनेन समासो न भवति । "पूर्वापरप्रथमचरमजघन्यसमानमध्य मध्यमवीरम् ” ( ३।१।१०३) । ३० पूर्वादीनि नव परेण नाम्ना समस्यन्ते । पूर्वपुरुषः वीरपुरुषः । “विशेषणं विशेष्येण ० " ( ३।१।९६ ) इत्यादिनैव सिद्धे "स्पर्धे" परमिति सूत्रनिर्देशे परस्य पूर्वनिपातार्थम् । अद्रव्यवाचिनोरनियमे पूर्वनिपातनियमार्थं वचनम् । एकवीर इत्यादि तु बहुलाधिकारात् । सुधाकरस्त्वाह । यद्यप्येकवीर इति शिष्टप्रयुक्तस्तथापि शिष्टप्रयोगात् साक्षात् स्मृतिरेव बलीयसीत्यसाधुरेवायमिति । "श्रेण्यादि कृतायैव्यर्थे” ( ३|१|१०४) । श्रेण्यादि नामैकार्थं कृतायैः समस्यते, च्व्यर्थे गम्य३५ माने। अश्रेणयः श्रेणयः कृताः श्रेणिकृताः श्रेणिमताः श्रेणिमिताः श्रेणिभूताः । कव्यर्थे समासेनाऽभिधेयेऽयं
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org