________________
प्रक्रियावृत्तिसपे श्रीहैमप्रकाशे समासप्रक्रिया । तत्पुरुषः । तत्पुरुषः कर्मधारयश्च २९७ किम इति किम् ? कुराजः । क्षेप इति किम् ? केषां राजा किंराजः। "नस्तत्पुरुषात्" (७३१७१)। न यथाविहितः समासान्तः । न ऋक अनृक् । अराजा असखा अपन्थाः । अपथमिति तु पथशब्दस्ययथा कुपथम् । तत्पुरुषादिति किम् ? न विद्यते धूरस्य अधुरं शकटम् । सुसखेति-"पूजाखते प्राक्टात्” (७।३।७२) पूजायां यौ स्वती ताभ्यां परे ये ऋगादयस्तदन्तात्समासात् "बहुव्रीहे. काष्ठे टः” (७३।१२५) इति टप्रत्ययात्प्राग् यः समासान्तः स न स्यात् । शोभना धूः सुधूः ।५ अतिधूः । सुराजा । अतिराजा । सुधू अतिधूः शकटम् । सुसखा अतिसखा । सुगौः अतिगौः। पूजाग्रहणं किम् ? अतिक्रान्तो राजानमतिराजः । प्राक्टादिति किम् ? स्वकुलम् अत्यलम् काष्ठम् । "बहोर्ड:" (७३।७३) डप्रसङ्गो यत्र ततो बहन्तात्समासान्तो डः कच्च न स्यात् । आसन्ना बहवो येषां ते आसन्नबहवः उपबहवः । "प्रमाणीसङ्ख्या:" (७३।१२८) इति डः समासान्तो न भवति । बहोरिति किम् ? द्वित्राः, उपदशाः । ड इति किम् ? प्रिया बहवोऽस्य प्रियवसकः ॥ ६० ॥ १०
इति तत्पुरुषः । विशेषणं विशेष्येणैकार्थ कर्मधारयश्च ॥ ६१॥ [सि० ३१९६] एकार्थ विशेषणवाचि विशेष्यवाचिना समस्यते स तत्पुरुषः कर्मधारयश्च स्यात् । नीलं च तदुत्पलं च नीलोत्पलम् । श्वेतगवी । एकार्थमिति किम् ? वृद्धस्सोक्षा वृद्धोक्षा ॥ ६१॥
"विशे०" एकार्थमिति-भिन्नप्रवृत्तिनिमित्तयोः शब्दयोरेकस्मिन्नर्थे वृत्तिरैकार्थ्यम् , सामानाधिकर-१५ ण्यमिति यावत् । तद्वदेकार्थम् । विशेषणवाचीति-विशिष्यतेऽनेकप्रकार वस्तु प्रकारान्तरेभ्यो व्यवच्छिद्यतेऽनेनेति विशेषणम् , विशेष्यवाचिनेति-व्यवच्छेद्यम् विशेष्यमिति । श्वेतगवीति-श्वेता चासौ गौश्च अस्य तत्पुरुषसंज्ञत्वात् “गोस्तत्पुरुषात्” (७।३।१०५) इत्यद् समासान्तः॥ विशेषणविशेष्ययोः सम्बन्धिशब्दत्वादेकतरोपादानेनैव द्वये लब्धे द्वयोरुपादानं परस्परमुभयोर्व्यवच्छेद्यव्यवच्छेदकत्वे समासो यथा स्यादित्येवमर्थम् । यथा नीलोत्पलमित्यत्र नीलशब्देन रक्कोत्पलादिकं व्यवच्छिद्यते । उत्पलशब्देन २० नीलपटादिकं व्यवच्छिद्यते इति । ततश्च तक्षकः सर्पः लोहितस्तक्षक इत्यादौ समासो न भवति । नासर्पोऽन्यवर्णो वा तक्षकोऽस्ति ॥ कथं तर्हि आम्रवृक्ष इति ? आम्रशब्दस्य वटादिवृक्षव्यवच्छेदकत्वेऽपि वृक्षशब्दस्य व्यवच्छेद्याभावात् , नावृक्षः आम्रः कश्चिदस्ति ? अत्रोच्यते-नाम्रादयो वृक्षविशेषवचना एव किन्तु तत्फलादिवचना अपि । तत आम्रफलादिव्यवच्छेदकत्वेन वृक्षशब्दस्यापि व्यवच्छेदकत्वम् । एवं तक्षकाहिः शेषाहिः इत्यादयोऽपि भवन्ति । यदि वाऽऽम्राणां फलानां सम्बन्धी वृक्षः२५ आम्रवृक्ष इति षष्ठीसमासः ॥ नन्वेवमुभयोमिथो व्यवच्छेदकत्वे उत्पलस्यापि विशेषणत्वेन उत्पलनील इत्यपि स्यात् । नैवम् । व्यवच्छेदकत्वाविशेषेऽपि अप्रधानस्यैव प्रधानेन समासः । प्राधान्यं च द्रव्यशब्दानामेव-द्रव्यस्यैव साक्षाक्रियाभिसम्बन्धात् । यद्यप्युत्पलादिशब्दा जातिशब्दास्तथाप्युत्पत्तेः प्रभृत्याविनाशात् द्रव्येण जातेरभिसम्बन्धात् द्रव्यशब्दा उच्यन्ते । गुणक्रिययोस्तु तथा द्रव्येण सम्बन्धाऽ-२९
१'आसन्मादूर', इति सः, 'बहुगणं मेदे' इति संख्यावद्भावात् 'प्रमाणीसंख्याड्डः' इति उप्रत्ययः प्राप्नोति, तस्मिनिषिद्धे 'शेषाद्वा' इति कश्च प्राप्नोति, उभयस्यापि सामान्यनायं प्रतिषेध इत्युभयमपि न भवति । २ 'अव्ययम्' इसि समासः । ३ 'एकार्थ चाने च' इति सामान्यसमासः, ततः 'प्रमाणीसंख्याड्डः' इत्यत्र प्रतिपदोक्तबहुव्रीहेर्ग्रहणात् बहोवपुल्यार्थखेन वा संख्याखाभावे डः समासान्तो न भवति किन्तु कच् । ४ एकः साधारणोऽर्थों द्रव्यलक्षणस्तदतदात्मको यस्य तदेकार्थ तस्य भावः। ५ नीलादि अन्याश्रितलादप्रधानमुत्पलं तु तस्याश्रयत्वात् प्रधानम्, उत्पलं हि द्रव्यरूपलात् क्रियासिद्धये साक्षादुप. युज्यमानं प्राधान्येन विवक्ष्यते, नीलस्तु गुणखात् द्रव्यव्यवधानेन क्रियायामुपयोगादुत्पलस्य विशेषणं संपद्यते इति । ६ ननु प्राधान्यं च द्रव्यशब्दानामित्युक्तमुत्पलादयस्तु जातिशब्दातत्कथमित्याह-यद्यपीति ।
है. प्रका० पूर्वा० ३८ Jain Education International For Personal & Private Use Only
www.jainelibrary.org