________________
२९६ महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघु"सर्वा"। सर्वशब्दादश एकदेशस्तद्वाचिभ्यः सङ्ख्यावाचिभ्योऽव्ययेभ्यश्च परो योऽहनशब्दस्तदन्तात्तत्पुरुषादट् स्यात्तस्य चाहनशब्दस्याहादेशः । अंश. पूर्वमहः पूर्वाहः । एवं मध्याह्नः सायाह्नः । "अर्द्धसुदर्शनदेवनमहा" इति पुंस्त्वम् । सङ्ख्या. व्यह्नः पट इति । अव्यय. अतिक्रान्ताऽहः अत्यही कथा । "सत्या" । सल्याता रात्रिः सयातरात्रः । एवमेकरात्रः पुण्यरात्रः । वर्षाणां रात्रिर्वर्षारात्रः ५दीर्घरात्रः । चकारात् सर्वाशसङ्ख्याव्ययेभ्योऽपि-सर्वरात्रः । अंश. पूर्वरात्रः अपररात्रः अर्द्धरात्रः द्वितीयरात्रः । सङ्ख्या. द्वयो राज्योः समाहारो द्विरात्रः "सिचयनिकाय्यरात्रवृत्रा" इति पुंस्त्वम् परवल्लिङ्गत्वापवादः । द्वयो राज्योर्भवो द्विरात्रः पटः, द्विरात्रा कथा, द्विरात्रप्रियः, द्विरात्रजातः। अव्यय. अतिरात्रः अतिरात्रा कथा । पूर्वसूत्रात् सङ्ख्यानुवृत्तावपि इह सूत्रे एकग्रहणं ज्ञापयति यत्
"सर्वांशसङ्ख्याव्यये" त्यत्र सङ्ख्याशब्देनैकस्य ग्रहणं नास्ति । तत एकमहः एकाहम् इत्येव भवति । अटि १० प्रकृतेऽद्विधानं स्त्रियां ड्यभावार्थम् ॥ ५९॥
पुरुषायुषद्विस्तावत्रिस्तावम् ॥ ६॥ [सि०७।३।१२०] एतेऽदन्तास्तत्पुरुषाः साधवः ॥ ६०॥
"पुरु०"। पुरुषस्यायुः पुरुषायुषम् , द्विस्तावती द्विस्तावा, त्रिस्तावती त्रिस्तावा वेदिः । वेद्यामनयोः प्रयोगः । अतीशब्दलोपो निपातनात् । प्रकृतौ यावती वेदिस्तावती द्विगुणा त्रिगुणा वा विकृतौ । १५ प्रकृतिविकृती यागविशेषौ । अन्यत्रापि दृश्यते द्विस्तावनिस्तावोऽग्निः । श्वसो वसीयसः"
(७।३।१२१)। श्वसः परो यो वसीयसूशब्दस्तदन्तात्तत्पुरुषादत् स्यात् । वसुमच्छब्दादीयसौ, मतोरन्त्यस्वरादिलोपे, वसीयस् । शोभनं वसीयः श्वोवसीयसं कल्याणम् । “निसश्च श्रेयस" (७।३।१२२) । निश्चितं श्रेयो निःश्रेयसं निर्वाणम् , शोभनं श्रेयः श्वश्रेयसम् ।
अथ डसमासान्तं सझेपत आह२० कचित्तत्पुरुषात् डः। न दश अदशाः । कचिन्न-किंराजा, सुसखा ॥ इति तत्पुरुषः। ___ क्वचिदित्यादि । अत्रैवं सूत्रपद्धतिः । "नाऽव्ययात्सायाया डः" (७।३।१२३) । न दश अदशाः । अनवाः । न्यूना दश न्यूना नवेत्यर्थः, नपूर्वोऽयम् वैकल्ये दृश्यते । अव्यय. निर्गतस्त्रिंशतोऽङ्गुलेभ्यो निस्त्रिंशः खगः । निस्त्रिंश इव क्रूरकर्मा निस्त्रिंशः खलः । त्रिंशतो निर्गतानि निस्त्रिं
शान्यहानि । एवं निश्चत्वारिंशानि निष्पश्चाशानि । नत्रव्ययादिति किम् ? गोत्रिंशत् । नग्रहणं २५ "नब्तत्पुरुषात्" इति निषेधे प्राप्ते प्रतिप्रसवार्थम् । सङ्ख्याया इति किम् ? निःशकृत् । तत्पुरुषादित्येव
न विद्यन्ते त्रयो यस्य स अत्रिः । सुत्रिः । निर्गतात्रिंशदस्य निस्त्रिंशत् डित्वमन्यस्वरादिलोपार्थम् । "सङ्ख्याव्ययादङ्गुले” (७३।१२४)। द्वयोरगुल्योः समाहारो व्यङ्गुलम् , व्यङ्गुलम् । द्वे अङ्गुली प्रमाणमस्य 'मात्रट् तस्य लुप् ततः समासान्तः, व्यङ्गुलम् व्यङ्गुलम् । व्यङ्गुलप्रियः व्यङ्गुलप्रियः ।
अव्यय निरङ्गुलम् अत्यङ्गुलम् । तत्पुरुषादित्येव-उपाङ्गुलि, पञ्चाङ्गुलिहस्तः । कथं आत्माङ्गुलमित्यादि ? ३० अङ्गुलशब्दः प्रमाणवाची प्रकृत्यन्तरम् । हस्ताङ्गुलैः षड्गुणितैश्चतुर्भिरित्यादिप्रयोगात् ।
अथ समासान्तनिषेधमाह । कचिन्नेत्यादि-किंराजेति "न किमः क्षेपे" (७३।७०)। निन्दायां यः किम्शब्दस्तस्मात्परे ये ऋगादयो यानुपादाय समासान्तो विहितस्तदन्तात्समासाद्यथोक्तः
समासान्तो न भवति । किंधूर्या न तथा गुर्वी । किंराजा यो न रक्षति । किंसखा योऽभिद्रुह्यति । ३४ किङ्गौर्यो न वहति । का कुत्सिता धूरस्य किन्धूः शकटः । के कुत्सिते अक्षिणी अस्य किमक्षिाह्मणः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org