________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे समासप्रक्रिया । तत्पुरुषः
२९५
1
कौटः कौटस्तक्षा कौटतक्षः स्वतन्त्रः स्वापणे शालायां यः कर्म करोति । "गोष्ठातेः शुनः" (७।३।११०)। गोष्ठे श्वा गोष्ठश्वः, अतिक्रान्तः श्वानं अतिश्वो वराहः अतिजवन इत्यर्थः । अतिश्वः सेवकः सुष्ठु स्वामिभक्त इत्यर्थः । अतिश्वी सेवा अतिनीचेत्यर्थः । " प्राणिन उपमानात् ” ( ७|३|१११ ) । प्राणिवाचिन उपमानात्परो यः श्वन् शब्दस्तदन्तात्तत्पुरुषादट् स्यात् । व्याघ्र इव व्याघ्रः सचासौ श्वा च व्याघ्रश्वः । “उपमेयं व्याघ्राद्यैः साम्यानुक्तौ” ( ३|१|१०२ ) इति समासः । अत एव वचनात् ५ श्वन्शब्दस्य परनिपातः । मयूरव्यंसकादित्वाद्वा समासः । प्राणिन उपमानादिति पूर्वपदविज्ञानादिह न भवति । वानरः श्वेव वानरश्वा । प्राणिन इति किम् ? फलकमिव श्वा फलकश्वा । उपमानग्रहणं किम् ? देवदत्तश्वा । प्राणी उपमानभूतो यः श्वशुब्दस्तदन्तात्तत्पुरुषादिच्छन्त्येके व्याघ्रः श्वेव व्याघ्रश्वः । तन्मते वानरश्वेत्यत्र समासान्तविधेरनित्यत्वान्न न भवति । "अप्राणिनि ” ( ७|३|११२ ) । अप्राणिनि वर्त्तते य उपमानवाची वन्शब्दस्तदन्तात्तत्पुरुषादट् स्यात् । श्वेव वा आकर्षश्वासौ श्वा च १० आकर्षश्वः । एवं फलकश्धः शकटश्वः । पूर्वसूत्रे उपमानादिति पूर्वपदस्य विशेषणं इह तु शुनः । अप्राणिनि वर्त्तते य उपमानवाची वन्शब्दस्तदन्तादिति । अप्राणिनीति किम् ? वानरः श्वेव वानरश्वा । उपमानादित्येव - आकर्षे वा आकर्षश्वा । कुर्कुरवच्छारेऽपि श्वन्शब्दो रूढो नोपमानम् । तत्राप्युपमानादेव वर्त्तत इत्येके । तन्मते आकर्षश्व इत्येव भवति । केचित्तूपमानादिति नापेक्षन्ते तन्मते आकर्षश्व इत्येव भवति । अन्ये तूपमानादप्राणिनीत्येकमेव योगमारभन्ते तन्मते व्याघ्रश्व इत्यादि न भवति । " पूर्वो- १५ तरमृगाच्च सक्नः” ( ७३|११३) । पूर्वं सक्थि सक्भः पूर्वं वा पूर्वसक्थम्, एवमुत्तरसक्थम् । मृगस्य सक्थि मृगसक्थम् । चशब्दादुपमानात् फलकमिव फलकम् । फलकं च तत् सक्थि च फलकसक्थम् व्याघ्नाश्वादिवत्समासः । पूर्वशब्दान्नेच्छन्त्येके । कुक्कुटादपि इच्छन्त्यन्ये । कुक्कुटसक्थम् । "उरसोऽग्रे” ( ७।३।११४ ) । अनं मुखं प्रधानं वा तत्र वर्त्तमानो य उरसूशब्दस्तदन्तात्तत्पुरुषादट् स्यात् । अश्वाश्च ते उरश्च अश्वोरसं दृश्यते, सेनाया अश्वा मुखमित्यर्थः । एवं हस्त्युरसम् रथोरसम् | २० "सरोsais माsयसो जातिनाम्नोः” ( ७।३।११५ ) । एतच्चतुरन्तात्तत्पुरुषादट् स्यात् । यथासम्भवं जातावभिधेयायाम्, नाम्नि च विषये । जातसरसम् मण्डूकसरसम् एवं नाम्नी सरसी । महानसम् । स्थूलाश्मः अमृताश्मः कनकाश्मः; अश्मजातिविशेषा एते । पिण्डाश्मः संज्ञा जातिर्वा । कालायसम् लोहितायसम् तीक्ष्णायसम्; अयोजातिविशेषा एते । लोहितायसमिति नामेत्येके ।। ५८ ।। कांश्चित् प्रयोगान् साक्षाद्दर्शयितुमाह
1
अह्नः ॥ ५९ ॥ [ सि० ७७३।११६ ]
अस्मादद् । देवाहः । पुण्याहम् । “सङ्ख्यातादहृश्च वा” (७|३।११७) । सङ्ख्यातमहः सङ्ख्यातहः । “सर्वांशसङ्ख्याव्ययात्” (७|३ | ११८) । सर्वमहः सर्वाह्नः । पूर्वाह्नः । द्वयोरह्वोर्भवो व्यह्नः पटः | अत्यही कथा । सङ्ख्यातैकपुण्यवर्षादीर्घाच्च रात्रेरत्” (७|३|११९) । सङ्ख्यातरात्रः । सर्वरात्रः । अर्धरात्रः ॥ ५९ ॥
1
२५
३०
“अह्नः” । अस्मादिति अहनशब्दान्तात्तत्पुरुषादट् समासान्तः स्यादित्यर्थः । देवानामहः देवाहः । परवल्लिङ्गत्वे प्राप्ते “अहनिर्यूहकलहा ” इति पुंस्त्वम् । पुण्यं च तदहश्च पुण्याहम् । “पुण्याहदेहो " इति पुन्नपुंसकत्वम् । “सङ्ख्या ०" । अह्नादेशार्थं वचनम् । अट् तु पूर्वेणैव सिद्धः । चकार उत्तरत्राह्रादेशस्याट्सन्नियोगशिष्टत्वार्थः । अन्यथा ह्यटोपवादोऽहादेशो विज्ञायेत, तथा च स्त्रियां ङीर्न स्यात् । ३४
१ 'अतोsहस्य' इति 'सङ्ख्यासायवे ०' इति च ज्ञापकान प्रत्ययशङ्का ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org