________________
२९४ ___महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघुअनुगतं रहोऽनुगत रहसा वाऽनुरहसम् । अनुगतं रहोऽस्त्यनुरहसः । अवहीनं रहोऽवहीनं रहसा वाऽवरहसम् । अवहीन रहोऽस्येत्यवरहसः । “प्रत्यन्ववात्सामलोनः" (७३।८२)। प्रतिगतं साम प्रतिसामम् । प्रतिगतं सामास्य प्रतिसामः । एवमनुसामम् , अनुसामः । अवसामम् , अवसामः। प्रतिलोमम् , प्रतिलोमः । अनुलोमम् , अनुलोमः । अवलोमम् , अवलोमः । ५ कतिचित्प्रसिद्धप्रयोगान् साक्षानिर्देष्टुमाह
ब्रह्महस्तिराजपल्यावर्चसः (७३।८३)। ब्रह्मवर्चसम् ।
"ब्रह्मः" । ब्रह्मणो वर्चः ब्रह्मवर्चसम् , वर्चस्तेजो बलं वा । पल्यं कटकृतं पलालवर्ति कृतं वा धान्यभाजनम् हस्तिविधा वा । कथं त्विषिमान राजवर्चसीति ? समासान्तविधेरनित्यत्वात् । एतञ्च
"ऋक्तः पथ्यपोऽदिति” निर्देशात्सिद्धम् । “प्रतेरुरसः सप्तम्या:" (७।३।८४ ) । प्रतेः परो य १० उराशब्दः सप्तम्यन्तस्तदन्तात्समासादत् समासान्तः स्यात् । उरसि वर्त्तते प्रत्युरसम् , विभक्त्यर्थेsव्ययीभावः । उरसि प्रतिष्ठितं प्रत्युरसम् "प्रात्यव०" ( ३३११४७) इत्यादिना तत्पुरुषः। (सप्तम्या इति किम् ? प्रतिगतमुरः, उरः प्रति वा प्रत्युरः)। “अक्षणोऽप्राण्यङ्ग" (७३।८५)। लवणस्याक्षि लवणमक्षीवेति वा लवणाक्षम् , पुष्कराक्षम्, गवाक्षः, रुद्राक्षम् । महिषाक्षो गुग्गुलः । *कबराक्षमश्वानां मुखप्रच्छादनं बहुच्छिद्रकम् । अप्राण्यङ्ग इति किम् ? अजाक्षि उपाक्षि वामाक्षि । “सङ्कटाभ्याम्" १५(७३।८६)। सङ्गतमक्ष्णा समीपमक्ष्णो वा समक्षम् । 'कटे वर्षावरणयोः' कटति वर्षति मदजलं स्रवति कटः, करिगण्डः । कटस्याक्षि कटाक्षः, प्राण्यङ्गार्थं वचनम् । इत्यत्समासान्तप्रकरणम् ॥५७॥ अथ अट्समासान्तं निर्देष्टुमाह
गोस्तत्पुरुषात् ॥ ५८॥ [सि०७३।१०५] गवान्तात्तत्पुरुषादट् स्यात् । सुरगवी । “राजन्सखेः” (७३।१०६)। देवराजः राज२० सखः॥ ५८॥
"गो" गोशब्दान्तात्तत्पुरुषादलुकोऽद् समासान्तः स्यात् । सुराणां गौः सुरगवी, टित्वात् स्त्रियां ङीः । कर्मधारयद्विगुसमासयोरपि तत्पुरुषसंज्ञत्वात् पुमांश्चासौ गौश्च पुङ्गवः, स्त्रीगवी, पश्चगवम् । तत्पुरुषादिति किम् ? चित्रगुः । अलुक इत्येव । पञ्चभिर्गोभिः क्रीतः पञ्चगुः । "राज" । अलुक
इति निवृत्तम् । देवानां राजा देवराजः । एवं महांश्चासौ राजा च महाराजः । अतिक्रान्तो राजानम२५ तिराजः, अतिराजी । पञ्चानां राज्ञां समाहारः पञ्चराजी । पञ्चभी राजभिः क्रीतः पञ्चराजः । सखि.
राज्ञः सखा राजसखः । एवं महांश्वासौ सखा च महासखः, अतिसखः अतिसखी । राजनिति नान्तनिर्देशादनकारान्ते न भवति । मद्राणां राज्ञी मद्रराज्ञी । संखीशब्दात्त्वटि सत्यसति वा न रूपभेदः । एवं "राष्ट्राख्याब्रह्मणः” (७।३।१०७) । सुराष्ट्रेषु ब्रह्मा सुराष्ट्रब्रह्मः, सौराष्ट्रको ब्राह्मणः इत्यर्थः । एवमवन्तिब्रह्मः काशिब्रह्मः । राष्ट्राख्यादिति किम् ? देवब्रह्मा नारदः। कुमहद्भयां वा” (७।३।१०८)। पापो ब्रह्मा कुब्रह्मा कुब्रह्मः । महाब्रह्मो महाब्रह्मा । पापो महांश्च ब्राह्मण एवमुच्यते । “ग्रामकोटा३१त्तक्ष्णः ” (७।३।१०९)। ग्रामस्य तक्षा ग्रामतक्षः ग्रामसाधारण इत्यर्थः । कुटी शाला तस्यां भवः
१ नामग्रहण इति न्यायादटि सति जातिश्च णि'-इति पुंवद्भावे मराजीति प्राप्नोतीत्याशङ्का । २ सखीशब्दस्य ईकारातस्यापि पञ्चाना सखीनां समाहार इति 'क्लीबे' इति ह्रखले इदन्तादेवाट् भवति, तथा च पञ्चसखमिति, तथा सखीमतिक्रान्त इति कृते सखीशब्दादडभावेऽपि 'गोश्चान्त'-इति कृते सखिद्वारेणाट प्राप्नोत्येव, तथा पञ्चानां सखी इत्यपि कृते अटि अड. भावेऽपि तत्पुरुषस्योत्तरपदप्रधानलात् पञ्चसखीयेव रूपम् , एवमन्यदपि रूपमेदाहेतुकमभ्यूह्यम् । * ( कचराक्षम् ?)
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org