________________
३१८
महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघु"असत्त्वे."। अद्रव्ये विहितो यो सिस्तस्योत्तरपदे परे लुब् न भवति । स्तोकान्मुक्त इति । "स्तोकाल्पकृच्छ्रकतिपयादसत्त्वे करणे" (२।२।७९) इति पञ्चमी। एवमल्पान्मुक्तः, कृच्छ्रान्मुक्तः, कतिपयान्मुक्तः, अन्तिकादागतः, अभ्यासादागतः, दूरादागतः, विदूरादागतः, विप्रकृष्टादागतः । "आरादर्थैः” (२।२।७८) इति पञ्चमी । "क्तेनासत्त्वे” (३।१।७४) इति समासः, सर्वत्रानेनालुप् । असत्त्व ५इति किम् ? स्तोकभयम् । एवं "ब्राह्मणाच्छंसी" (३।२।११) अयमेवं निपात्यते । ब्रह्मणा प्रोक्तो अन्थो ब्राह्मणं 'ब्राह्मणं श्रुताविति नपुंसकम्' ब्राह्मणाद्न्थादादाय शंसति ब्राह्मणाच्छंसी, ब्राह्मणाच्छंसिनौ, ब्राह्मणाच्छंसिनः । रूढिवशाद् ऋत्विग्विशेषः उच्यते । आदानाङ्गे शंसने शंसिरित्युपात्तविषयमेतदपादानम्, यथा कुसूलात्पचति । निपातनस्येष्टविषयत्वात्विग्विशेषादन्यत्र लुब् भवति-ब्राह्मणशंसिनी
स्त्री । इति पञ्चमी । “षष्ठया:" । क्षेप इति किम् ? चौरकुलम् तत्त्वाख्यानमेतन्न क्षेपः । १०"पुत्रे"। पुत्रशब्दे उत्तरपदे इति ॥ “पश्य.” । पश्यतो हर इति-अनादरे षष्ठीयम् । पश्यन्त
मनादृत्य हरते इत्यर्थः । एवं वाचोयुक्तिः दिशोदण्डः; सम्बन्धषष्ठयौ । “अद०” । अकबूप्रत्ययविषये उत्तरपदे आयनणप्रत्यये च इति भावः । आमुष्यपुत्रिकेति-चौरात् "चौरादेः” (७१११७३ ) इत्यकम् । “चौराधमनोज्ञाद्यकम्” इति स्त्रीलीबत्वात् आमुष्यपुत्रकमित्यपि । “देव." । देवप्रिय इति
तु एकत्वद्वित्वयोर्बहुव्रीही वा भवति । १५ इत्यादिशब्दाच "शेपपुच्छलाङ्गलेषु नानि शुनः” (३।२।३५) शुनः शेपमिव शेपमस्य
शुनःशेपः । एवं शुनःपुच्छः । शुनो लाङ्गुलः । “मेहनं शेपशेपसी" इति वचनात् शेपःशब्दः सकारान्तोऽप्यस्ति, इह त्वकारान्तो ग्राह्यः । अन्ये तु सिंहस्य शेपं इत्यादावपीच्छन्ति । तन्मतसङ्ग्रहार्थं बहुवचनम् अनान्यपि विध्यर्थम् । "ऋतां विद्यायोनिसम्बन्धे” ( ३।२।३७) । ऋकारान्तानां
शब्दानां विद्याकृते योनिकृते च सम्बन्धे निमित्ते सति प्रवर्त्तमानानां सम्बन्धिन्याः षष्ठ्या विद्यायोनि२० सम्बन्ध एव निमित्ते सति प्रवर्त्तमाने उत्तरपदे परे लुग् न भवति । होतुः पुत्रः । होतुरन्तेवासी । पितुः पुत्रः । पितुरन्तेवासी । ऋतामिति किम् ? आचार्यपुत्रः । मातुलान्तेवासी । “स्वसृपत्योर्वा" (३।२।३८)। होतुः स्वसा होतृस्वसा । पितुःष्वसा, पितुः वसा, पितृष्वसा । मातुः स्वसा, मातुः ध्वसा, मातृष्वसा । अनेनालुब्विकल्पे "मातृपितुः वसुः” (२।३।१८)। आभ्यां परस्य स्वसूस
म्बन्धिनः सकारस्य षो वा भवति "अलपि वा” (२।३।१९) । अलुपि समासे षो वा भवति इति २५पत्वविकल्पे त्रैरूप्यम् । दुहितुः पतिः दुहितृपतिः । स्वसुः पतिः स्वसृपतिः। ननान्दुः पतिः ननान्हपतिः ।
इति षष्ठी । “अय.” युधिष्ठिरेति-एवं गविष्ठिरः । “गवियुधेः स्थिरस्य" (२।३।२५) इति षत्वम् । अत एव निर्देशादलुप् । “अमूर्द्ध" । कण्ठेकालः । एवमुदरेमणिः । वहेगडुः । पुतेवलिः उरसिलोमा । शिरसिशिखः । अमूर्द्धमस्तकादिति किम् ? मूर्द्धशिखः मस्तकशिखः । (स्वाङ्गादिति किम् ? अक्षशौण्डः । मुखपुरुषा शाला)। अकाम इति किम् ? मुखकामः । अध्यञ्जनादित्येव-अङ्गुलिव्रणः । ३० पूर्वोक्त इत्यादिशब्दोऽत्रापि सम्बध्यते ततश्च "बन्धे पनि नवा" (३।२।२३)। घबन्ते बन्ध
शब्दे उत्तरपदेऽव्यञ्जनात्सप्तम्या वा अलुप् । स्वाङ्गादस्वाङ्गाचायं विकल्पः । हस्तेबन्धः हस्तबन्धः । चक्रेबन्धः चक्रबन्धः । घनीति किम् ? अजन्ते मा भूत् । बध्नातीति बन्धः । अध्यञ्जनादित्येव-गुप्ति
बन्धः काराबन्धः । “कालात्तनतरतमकाले (३।२।२४) । अव्यञ्जनान्तात्कालवाचिनः सप्तम्या३४ स्तनतरतमप्रत्ययेषु कालशब्दे चोत्तरपदे परे वाऽलुप् । पूर्वाद्धेतनः पूर्वाह्वतनः । अपराह्नेतनः अपराह
१ प्रकृतेरन्यतोऽपि च इति शेषो ज्ञेयः । शेपशब्दस्य लिङ्गानुशासने पुंल्लिङ्गलमुक्तं पान्तलात , अत्र तु नपुंसकलं चिन्त्यम् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org