SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ २१६ महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघु तस्मात् शुद्धस्स दुहेर्भवति गवा पूर्वमेव सम्बन्धः । गोदुहिना पयसस्तु प्रोक्तस्तस्माल्लादयस्तस्मिन्निति ॥ २॥" गोद॑यते-दुहेः "तत्साप्यानाप्यात्कर्मभावे कृत्यक्तखलाञ्च" (३।३२१) इति कर्मण्यात्मनेपदेन 'क्यः शिति' (३।४।७०) इति क्यसहितेन गुणकर्मणाऽभिहितत्वम् ; एवं याच्यते पौरवः कम्बलम् , ५अवरुध्यते गां ब्रजः, पृच्छयते धर्ममाचार्यः, भिक्षते गां चैत्रः, अवचीयते वृक्षः फलानि, उच्यते शिष्यो धर्मम् , शिष्यते शिष्यो धर्मम् , जीयते शतं चैत्रः, गर्गाः शतं दण्डयन्ताम् , "येनापविद्धसलिलः स्फुटनागसद्मा, देवासुरैरमृतमम्बुनिधिर्ममन्ये । व्यावर्तनैरहिपतेरयमाहिताङ्कः, खं व्यालिखन्निव विभाति स मन्दराद्रिः" ॥ १॥ इति किरातपञ्चमसर्गे त्रिंशत्तमं पयमित्यादि । . नीवहिहरतिप्रभृतीनां तु प्रधाने कर्मणि कर्मजः प्रत्ययो भवति । नीयते नेता नेतठया ग्राममजा, १० अजादेः प्राधान्यानेतुश्च तत्रैव पूर्व क्रियाप्रवर्त्तनादन्तरङ्गत्वाच तत्रैव प्रधाने कर्मजः प्रत्यय इति । अत्र केचिदाहुः-नामी नयत्यादयो द्विकर्मका अन्यकर्मकत्वात् । अजां नयति ग्रामम्-अजां गृहीत्वा ग्रामं यातीति छत्रार्थः, नयतिस्तु प्राप्तिमात्रवाची; गम्यमानक्रियापेक्षयापि कर्मत्वं दृश्यते यथा प्रविश पिण्डीमिति भक्षणक्रियापेक्षयेति । एतच्चायुक्तम्-अजा नीयते ग्राममित्यत्र कर्मण्युत्पद्यमानेनात्मनेपदेनाजा कर्मणोऽभिधानं न प्राप्नोति; गृहातेरजा कर्म न नयतेरिति, तस्मादन्यकर्मत्वमजाया नैष्टव्यम् । एवं १५ उह्यते भारो ग्राम, ह्रियते कुम्भो प्राम, कृष्यते ग्राम शाखा इति गत्यर्थानामकर्मकाणां च णिगन्तानां प्रधान एव कर्मणि अणिगवस्थायां कर्तृभूते कर्मणीति यावत् कर्मजः प्रत्ययो भवति, प्राधान्यं च तस्य "गतिबोधाहारार्थ." ( २।२।५) इति कर्मसंज्ञाया विधीयमानत्वेन कृत्रिमत्वात् कर्तुः प्रथमप्रवृत्तिविषयत्वाच्च-यथा गमयति मैत्रं प्रामम् , गम्यते गमितो गम्यो वा मैत्रो ग्रामम् चैत्रेण, आसयति मासं मैत्रम्, आस्यते मासं मैत्रश्चैत्रेण, । अन्यस्त्वप्रधानेऽपीच्छति-गम्यते मैत्रं ग्रामश्चैत्रेण, आस्यते मासो २० मैत्रं चैत्रेण । बोधाहारार्थशब्दकर्मकाणां तु णिगन्तानामुभयत्र-बोधयति शिष्यं धर्म, बोध्यते शिष्यो धर्म, बोध्यते शिष्यं धर्म इति वा, भोजयत्यतिथिमोदनं भोज्यतेऽतिथिरोदनं भोज्यतेऽतिथिमोदन इति वा, पाठयति शिष्यं ग्रन्थं, पाठ्यते शिष्यो प्रन्थं, पाठ्यते शिष्यं ग्रन्थ इति वा । अत्रायमाशयःबोधयति शिष्यं धर्ममित्यादावनियतो गुणप्रधानभावः; तथाहि-वाक्यस्य धर्मप्रतिपादनपरत्वे धर्मस्य प्राधान्यम् , शिष्यादेर्गुणभावः; शिष्यादिसंस्कारपरायां तु प्रवृत्तौ, शिष्यादेः प्राधान्यम् , धर्मस्य गुण२५भावः, तथा अर्थस्य शब्देन प्रतिपाद्यत्वाच्छब्दस्य प्राधान्यं प्रमाणयन्तोऽभिधाव्यापारेण प्रयोक्तव्यापा रस्य प्राधान्यात्प्रयोज्यस्यैव कर्मणः प्राधान्यम् , गुणभूतप्रयोज्यव्यापारकर्मणस्तु गुणभावः, शब्दस्यार्थपरत्वादर्थस्यैव प्राधान्यमाचार्याः समर्थयन्त, आर्थेन तुं न्यायेन प्रयोज्यव्यापारस्य प्राधान्यम् , तदर्थत्वात्प्रयोजकव्यापारस्य, तत्प्राधान्याञ्च तत्कर्मणोऽपि प्राधान्यमिति विवदन्ते आचार्याः । स्मृतिरियम, न स्वमतिपरिकल्पनात्र ज्यायसीत्युभयत्र पर्यायेण सिद्धः कर्मजः प्रत्यय इति कर्मजप्रत्ययेनैव ३० कर्मणोऽभिहितत्वात्सर्वत्र कर्मणि द्वितीया न भवति । यत्र हि तिवादिभिः कर्मादय उच्यन्ते, तत्र गवादिशब्दः स्वार्थाव्यतिरिक्तेऽर्थमात्र एवेति प्रथमैव ततो युक्ता, न द्वितीयादयः, कर्मादौ वृत्त्यभावादिति । अथ कर्तुर्व्याप्यं कर्मेत्यत्र कर्तुरिति किम् ?। माषेष्वश्वं बनातीत्यत्र बध्नातिक्रियया अश्वः कर्म यथा विशेषेणा३३मिष्यते तथा भक्षणादिक्रियया प्रतीयमानयाश्वेन माषा इत्यसति कर्तृग्रहणे कर्मणाश्वेन व्याप्यमाणाना १वस्वन्तर विशेषेणाप्तुं कतैवेच्छति, नान्यत्तदधीनकरणादिकमिति मन्यमानस्य प्रश्नमिदं पृच्छति कर्मणोऽपि निमित्तं यदा मिष्यते तस्यापि कर्मसंज्ञा स्यादिति मन्यमानः प्रत्याचष्टे माषेविति । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004040
Book TitleHaim Prakash Maha Vyakaranam Purvarddham
Original Sutra AuthorN/A
AuthorKshamavijay
PublisherHiralal Somchand Kot Mumbai
Publication Year1937
Total Pages560
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy