SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ २१५ प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे कारकप्रक्रिया । कर्मभेदलक्षणम् ननु मुख्यगौणभेदात् कर्मणो द्वैविध्यमुक्तम् , तत्र मुख्यगौणयोः किं लक्षणमित्यत्रोच्यते--अत्र यदर्थं क्रिया आरभ्यते, तत्पयःप्रभृति मुख्यं कर्म; तत्सिद्धये तु यदन्यत् क्रियया व्याप्यते गवादि, तद्गौणम् । यदा तु पयोऽर्था प्रवृत्तिर्न विवक्ष्यते, तदा मुख्यासान्निध्याद्वादेरेव मुख्यता-यथाश्चर्यो गवां दोह इति । नन्वेवं गवादेः परार्थत्वात् क्रियायोगाभावादव्याप्यत्वात् कर्मसंज्ञा न सिद्ध्यति, किन्तु गां दोग्धि क्षारयति पयः इत्यत्र गोः पय आदत्ते इत्यर्थादपादानत्वं प्राप्नोति । एवं पौरवं गां भिक्षते इत्यत्र ५ पौरवाद्गां जिघृक्षते इत्यर्थादपादानत्वम् , गामवरुणद्धि व्रजमिति बजे गां स्थापयतीत्यर्थाद्रजस्य स्थानक्रियापेक्षया आधारत्वं प्रतीयते, छात्रं पन्थानं पृच्छतीत्यत्रापि छात्रान्मार्गोपदेशं जिघृक्षते इत्यर्थादपादानत्वम्, वृक्षमवचिनोति फलानीत्यत्रापि वृक्षात्फलान्यादत्ते इत्यपादानत्वं प्राप्नोति, शिष्यं धर्म ब्रूत इत्यादौ तु धर्मेण वचनानुशासनकर्मणा शिष्यस्याभिप्रेयमाणत्वात्सम्प्रदानत्वं प्राप्नोति, एवं गर्गान् शतं जयतीत्यादावपि गर्गेभ्यः शतम् , ग्रामाच्च शाखां गृहातीत्यपादानत्वं प्राप्नोतीत्यत्रोच्यते-अवधित्वाद्यविव-१० क्षायां क्रियानिमित्तभावमात्रेण तव्याप्यत्वस्य विवक्षितत्वात् “कर्तुर्व्याप्यं कर्म" ( २।२।३) इति कर्मसंज्ञा सुखेन सिद्ध्यति । अवधित्वादिविवक्षायां तु भवत्येवापादानादित्वम् , गोदोंग्धि पयः इत्यादि । ननु गां दोग्धि पयः इत्यस्यायमर्थः-गौः पयस्त्यजति, चैत्रो गवा पयस्त्याजयति, तत्र प्रयोक्तृव्यापारेणाप्यमानत्वाद्गोः कर्मत्वम् , न तु दोहादिनेति । नैतदस्ति । यथा ण्यन्तेषु धातुषु क्रियाविष्टः प्रयुज्यते इति प्रतीतिः-यथा पचन्तं प्रयुङ्क्ते पाचयति, नैवमिह, निष्क्रियस्यापि गवादेर्दोहनयनादिषु विनियोगात् ।१५ ननु ओदनं पचतीति लोके शास्त्रे च प्रयुज्यते, तत्रौदनः पच्येतेति द्रव्यान्तरमभिनिवर्त्ततेत्यर्थः स्यात्, ओदनशब्दस्य तण्डुलविकारविशेषवचनत्वात् , पचेश्च विक्लित्त्युपसर्जनविक्लेदवचनत्वात् , निवृत्तस्यौदनस्य विक्लेदान्तरकरणं स्यात् , नत्थं लोके प्रतीतिरस्ति । नैष दोषः । तादात्ताच्छब्द्यं भविष्यति, ओदनार्थास्तण्डुला ओदन इति गौणार्थाश्रयेणैव सर्वलोकस्य प्रयोगदर्शनादिदं न नोदनीयम् , मुख्यस्यैवोदनस्य पुनर्विक्लित्तिकारके कस्मादयं प्रयोगो न भवतीति । ओदनविकारविशेषप्रतिपादनाय च गौणार्थ-२० परिग्रहः । तण्डुलान् पचतीत्युक्ते विकारान्तरमपि प्रतीयते इति । अथ कथं भविष्यति ?-तण्डुलानोदनं पचति, आहोस्वित्तण्डुलानामोदनं पचति इत्युभयथा प्रयोगदर्शनात् प्रकृतिविकृत्योः साक्षादुपादानात्तादर्थ्यात्ताच्छब्द्यानुपपत्त्या विक्लेदनवचने पचौ तण्डुलानामोदनं पचतीति प्रयोगाभावप्रसङ्गात् । उच्यते । उभयथापि भवितव्यमिह तावत्तण्डुलानोदनं पचतीति व्यर्थः पचिस्तण्डुलान्पचति ओदनं निवर्त्तयति । अत्र हि विक्लेदनोपसर्जने निर्वर्त्तने पचिर्वर्त्तते । तण्डुलान् विक्लेदन्नोदनं निर्वर्त्तयति । तत्रोपसर्जनविक्ले-२५ दनक्रियापेक्षं तण्डुलानां कर्मत्वम् , प्रधानभूतनिर्वर्त्तनापेक्षं त्वोदनस्य । तण्डुलानामोदनं पचतीत्यत्रापि द्व्यर्थः पचिः, विकारयोगे षष्ठी । तण्डुलविकारमोदनं निवर्त्तयतीति । अत्र तण्डुलानां सम्बन्धिनं विकारमोदनं विक्लित्त्या निर्वर्त्तयतीत्यर्थः । सा च विक्लित्तिः सामर्थ्यात्तण्डुलानामेव विज्ञायते इत्युभयमपि समञ्जसम् । अथ द्विकर्मकेषु दुहादिधातुषु कर्मणि तिवादय उत्पद्यमानाः प्रधानाप्रधानाभ्यां भिन्नकक्षमनेकं कर्म युगपदभिधातुमसमर्थाः, किं प्रधाने कर्मण्युत्पद्यन्ते, अथ गुणकर्मणीति ? तत्र ३० प्रधानाप्रधानसन्निधौ प्रधानाभिधानस्यैव न्याय्यत्वमिति केचित् , तदयुक्तम्-दुहादीनां अप्रधानकर्मण्येव त्यादिकृत्यखला इति, गौर्दुह्यते दुग्धा दोह्या वा पय इति । अयमर्थः-यतः पयोऽर्थी प्रथमं गवि प्रवर्तते ततोऽन्तरङ्गत्वाइह्यादिषु गुणकर्मणि तिवादयो भवन्ति । उक्तं च "गुणकर्मणि त्यादिविधिः” पूर्व गुणकर्मणा भवति योगात् । मुख्यं कर्मप्रेप्सुर्यस्माद्व्ये च यतते प्राक् ॥ १॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004040
Book TitleHaim Prakash Maha Vyakaranam Purvarddham
Original Sutra AuthorN/A
AuthorKshamavijay
PublisherHiralal Somchand Kot Mumbai
Publication Year1937
Total Pages560
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy