________________
२१४ महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघु
इति वाक्यपदीयात् । "यदसज्जायते सद्वा जन्मना यत्प्रकाश्यते । तन्निर्वर्त्य विकार्य तु द्वेधा कर्म व्यवस्थितम्" ॥ ३ ॥ "प्रकृत्युच्छेदसम्भूतं किश्चित्काष्ठादिभस्मवत् । किश्चिद्गुणान्तरोत्पत्त्या सुवर्णादिविकारवत्" ॥४॥ "क्रियाकृतविशेषाणां सिद्धिर्यत्र न गम्यते । दर्शनादनुमानाद्वा तत्प्राप्यमिति कथ्यते” ॥ ५॥ इति च तत्रैवोक्तम् ।
अनुमानादिति यथा चैत्रं रोषयतीत्यत्र रोषलक्षणस्य विकारस्यादर्शनेऽपि मुखवैवादिकार्यानुमेयत्वाद्विकार्यत्वमिति । क्रमेणोदाहरणानि-“घटं करोतीत्याद्यम् । काष्ठं भस्म करोतीति सुवर्णं कुण्डलं करोतीति च द्वितीयम् । घटं पश्यतीति तृतीयम् । ग्रामं गच्छन् तृणं स्पृशतीत्युदासीनम् । विषं भुते
इति द्वेष्यम् । गां दोग्धीति संज्ञान्तरैरनाख्यातम् । क्रूरमभिक्रुद्ध्यतीत्यन्यपूर्वकमिति ।” १० मुख्यगौणभेदादिति-तत्कर्म प्रधानेतरभेदाहिभेदम् , तञ्च द्विकर्मकेषु धातुषु दुहि-भिक्षि-रुधि-प्रच्छिचिंग-ब्रूगक्-शास्वर्थेषु, याचि-जयतिप्रभृतिषु च भवति । तत्र 'दुहीक क्षरणे' 'गतौ' 'क्षर संचलने' इति दुह्यर्थाः । यथा गां दोग्धि पयः, गां स्रावयति पयः, गां क्षारयति पयः, दुहेरन्तभूतण्यर्थत्वेन द्विकर्मकत्वम्-गौः की, पयः कर्म मुञ्चति, तां मोचयतीत्यर्थः । नुक्षरयोस्तु साक्षाण्ण्यन्तत्वादेव द्विकर्मकत्वम् । वक्ष्यमाण "गतिबोधा०” (२।२।५) इत्यत्र बहुवचनादन्येषामपि अणिक्कर्तुः १५ कर्मत्वं युक्तम् । नात्र नियमः प्रवर्त्तते इति । एवमप्रेऽपि यथायोगं भाव्यम् । 'भिक्षि याच्यायाम्'
'डुयाचूग याच्वायाम्' 'मृगणि अन्वेषणे' अदन्तः प्रपूर्वः 'अर्थणि उपयाचने' इति याच्यार्थाः-यथा पौरवं गां भिक्षते, याचनापूर्वं गां दापयति वियोजयति वेत्यर्थः । याच्यमानश्चायं हृष्टो म्लानो वा भवतीति, इदं विकार्य कर्म । एवं पौरवं गां याचते, चैत्रं शतं मृगयते, चैत्रं शतं प्रार्थयते । रुधुम्पी
आवरणे' रुध्यर्थः, गामवरुणद्धि व्रजम् । व्रज सेवमानां सेवयतीत्यर्थः । 'प्रच्छंत् ज्ञीप्सायाम्' 'चुदण् २० सञ्चोदने' इति प्रच्छार्थों-छात्रं पन्थानं पृच्छति; छात्रं वाक्यं चोदयति । अवपूर्वः 'चिंग्ट चयने' वृक्षमवचिनोति फलानि । 'बॅग्क व्यक्तायां वाचि' शिष्यं धर्मं ब्रूते । अनुपूर्वः 'शासूक् अनुशिष्टौ' शिष्यं धर्ममनुशास्ति । याचिः प्रागुक्तः, किन्त्वनुनयार्थोऽयमत्र ज्ञेयः-क्रुद्धं याचते शमावस्थाम्' अविनीतं याचते विनयम् । ननु भिक्षियाच्योरेकार्थत्वात्कथं द्वयोरुपादानमित्यत्रोच्यते-याचिहि याच्यायामनुनये च वर्तते, भिक्षिस्तु याच्यायामेवेत्यनयोर्भेदः । नन्वेवमपि याचेरेवोपादानं व्यस्तेनैव याच्या२५ नुनययोरभिधानात् । अत्येतत्, किन्त्वेवं यथा याच्यार्था धातवो गृह्यन्ते, एवमनुनयार्था अपि गृोरन्,
अत्र पुनर्भिक्षिग्रहणात् याच्यार्थानां सर्वेषां ग्रहणम् , याचिग्रहणात्तु तस्यैवानुनयार्थस्येति । 'जिं जये' 'दण्डण् दण्डनिपातने' 'कृषीत् विलेखने' 'डुकंग करणे' “मन्थश् विलोडने' 'णींग प्रांपणे' 'हृग् हरणे' 'मुषश स्तेये' 'वहीं प्रापणे' 'ग्रहीश् उपादाने' 'डुपचींष् पाके' इत्येकादश जयतिप्रभृतयः-यथा गर्गान्
शतं जयति, गर्गान् शतं दण्डयति, मोचयतीत्यर्थः । ग्रामं शाखां कर्षति, योजयतीत्यर्थः । काशान् कटं ३० करोति, काशान् विपरिणमनयन् कटं करोतीत्यर्थः । अमृतमम्बुनिधि मनाति; वियोजयतीत्यर्थः । अजां
ग्रामं नयति, प्रापयतीत्यर्थः । ग्रामं भारं हरति, वियोजयति प्रापयति वा । उपसरजमश्वं मुष्णाति, उपसरः पुरुषो देशविशेषो वा, तत्र जातस्तं मुष्णाति त्याजयतीत्यर्थः । ग्रामं भारं वहति, प्रापयतीत्यर्थः, शतानीकं शतं गृह्णाति, त्याजयतीत्यर्थः । तण्डुलानोदनं पचति, तण्डुलान् विक्लेदयन् विकुर्वन् ओदनं करोतीत्यर्थः । एतच्च सर्वं धातूनामनेकार्थत्वादुपपद्यते । एवं च ण्यन्तानामन्तर्भूतण्यर्थानां च धातूनां ३५ द्विकर्मकत्वं स्यादिति तत्त्वम् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org