________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे कारकप्रक्रिया । कर्मलक्षणं मैदाश्च २१३ विकार्यते विकृति नीयते इति व्युत्पत्तेः । तहिविधम्-तत्र प्रकृत्युच्छेदेन यथा-काष्ठं दहति; नात्र काष्ठमसदेव जन्यते, तस्य कारणान्तरेभ्यः प्रागेवोत्पन्नत्वादुत्पन्नं तु केवलं भस्माख्यामवस्थामापद्यत इति । प्रकृत्युच्छेदमन्तरेणापि गुणान्तराधानेन यथा काण्डं लुनाति-अत्र काण्डशब्देन तत्कारणीभूता वीरणा उच्यन्ते । वीरणशब्दप्रवृत्तिनिमित्तस्य वीरणस्वरूपस्य काण्डलक्षणविकारावस्थायामपि भावात् । काण्डलक्षणविकारोत्पादनेन वीरणान् विकरोतीत्यर्थः । यत्सदेवेति-यत्र क्रियाकृतो विशेषो निर्वृत्तिविकारलक्षणो५ नास्ति तत्प्राप्यम्-यथा आदित्यं पश्यति, ग्रामं गच्छति । नहि दृशिगमिक्रियाभ्यां व्याप्यमानयोरादित्यप्रामयोः प्राप्तेरन्यः कश्चिद्विशेषो लभ्यत इति प्राप्यमेतत् । नन्ववान्तरव्यापारशालिन एव कारकत्वं यथा कर्तृश्छिदिक्रियायां दृढमुष्टिनिःपीडनादिरवास्तरव्यापारः, नानपेक्षितदृढमुष्टिनि:पीडनो जाल्मकरस्थः कुठारः काष्ठच्छिदायै प्रभवति । तत्रास्य कर्मणः कीदृशोऽवान्तरव्यापार इत्यत्रोच्यते-अस्य तु त्रिविधस्यापीत्यादि-नानिवर्तमानं शशविषाणमिव निवर्तयितुं शक्यं तस्मानिर्वय॑स्य निर्वृत्त्यनुकूलत्वमवान्तर-१० व्यापारः । एवं विकृतिमनुपगच्छतो वञस्येव विकार्यत्वायोगाद्विकार्यस्य विकृत्यभिमुखत्वं व्यापारः । तथा आभासायोग्यस्य परमाण्यादेरिवाभास्यत्व विरहाद्वपाप्यस्याभासगमनं व्यापार इति ।
एतेन निर्वादिकर्मणां क्रियाजन्यत्वे क्रियाहेतुत्वलक्षणं कारकत्वं न घटते; नहि जन्यो जनकस्य हेतुतामर्हति पुत्रः पितुरिव । तथोक्तम्“निर्वर्त्य कारकं नैव क्रिया तस्य हि साधिका । विकार्यमप्यभावेन विरुद्धं नैव कारकम्” ॥ १ ॥१५
प्राप्यत्वात्पूर्विकाऽवस्था न सा कर्म बुधैर्मता ।
प्राप्यावस्था क्रिया साध्या साधनत्वात्साधनं नहि" ॥ २ ॥ न च क्रियातः समुत्पद्य पश्चाक्रियां प्रति कारकं भवति । यथोक्तम्"आत्मलाभे हि भावानां कारणापेक्षिता भवेत् । लब्धात्मनां स्वकार्येषु प्रवृत्तिः स्वयमेव हि ॥३॥ इति वाच्यम् , यद्विकाराणान्तरादुत्पद्य कार्यान्तरमारभते तत्रेदं वक्तुं शक्यम् , अत्र तु क्रियया २० आत्मतां लभमानं क्रियाया एव कारकमित्येकविषयत्वे न तथा वक्तुं शक्यम् । किश्च क्रियाधीनं कर्म कर्माधीना क्रियेति कर्माभावे क्रियाभावः क्रियाभावे कर्माभाव इति द्वयोरप्यभाव इतरेतराश्रयत्वं च । कर्म क्रियामपेक्षते क्रिया च कर्मेति इत्यादि यदुच्यते तन्निरस्तम्, क्रियाजन्यत्वेऽपि निर्वादीनां यथोक्तस्वस्वव्यापारापेक्षया कारकत्वाव्याहतेः । तथोक्तम्__"स्वव्यापारेषु कर्तृत्वं सर्वत्रैवास्ति कारके । व्यापारभेदापेक्षायां करणत्वादिसम्भवः ॥ १॥ २५ यदुत्पद्यते तदुत्पाद्यते इत्युत्पत्तिक्रियाकर्तृभूतस्य कर्मत्वमिति दिक् ।
पुनरेकै त्रिधेति-यदवाप्तुं क्रियाऽऽरभ्यते तदिष्टं कटादि, यद्दिष्टं प्राप्यते तदनिष्टं, यथा विषमत्ति । यत्र नेच्छा नच द्वेषस्तदनुभयमुदासीनमिति यावत् , यथा ग्रामं गच्छंस्तृणं स्पृशति । नन्वनिष्टोदासीनयोः कर्मणोः, की यद्विशेषेणाप्तुमिष्यते इति लक्षणमव्याप्तम् , यदपि युक्तं चानीप्सितमपीति परेणोक्तं तदपि मिथोऽव्याप्तमननुगमात् । अत्रोच्यते । कर्तृाप्यमित्यस्य क्रियाजन्यफलाश्रयत्वे तात्पर्यम् , ३० ततश्च क्रियाजन्यफलाश्रयत्वं कर्मणो लक्षणं सर्वत्रानुगतमिति न कोऽपि दोष इति ।
एवं चात्र नवधा कर्मोक्तम् । भूषणसारे तु सप्तविधमुक्तम्"निर्वयं च विकार्य च प्राप्यं चेति त्रिधा मतम् । तच्चेप्सिततमं कर्म चतुर्धन्यत्तु कल्पितम्" ॥१॥ "औदासीन्येन यत्प्राप्यं यच्च कर्तुरनीप्सितम् । संज्ञान्तरैरनाख्यातं यद्यच्चाप्यन्यपूर्वकम्" ॥ २॥ ३४
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org