________________
२१२ महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहमलघु__ इति । ननु चैत्रो ग्रामं गच्छतीत्यत्र ग्रामस्येव चैत्रस्यापि क्रियाजन्यग्रामसंयोगरूपफलाश्रयत्वात्कर्मतापत्तौ, चैत्रश्चैत्रं गच्छतीत्यापत्तिः, प्रयागतः काशीं गच्छति चैत्रे प्रयागं गच्छतीत्यापत्तिश्च । क्रियाजन्यसंयोगस्य काश्यामिव विभागस्य प्रयागेऽपि सत्त्वात् इति चेत् ? न । ग्रामस्येव चैत्रस्यापि फलाश्रयत्वेऽपि तदीयकर्तृसंज्ञया कर्मसंज्ञाया बाधेन चैत्रश्चैत्रमिति प्रयोगासम्भयात् , द्वितीयोत्पत्तौ संज्ञाया एव निया५मकत्वादन्यथा गमयति कृष्णं गोकुलमित्यत्रेव पाचयति कृष्णेनेत्यत्रापि कृष्णपदात् द्वितीयापत्तेः। शाब्दबोधश्चैत्रश्चैत्रमित्यत्र स्यादिति चेत् ? न-तथा व्युत्पन्नानामिष्टापत्तेः । उच्यतां वा प्रकारतासम्बन्धेन धात्वर्थफलविशेष्यकबोधं प्रति धात्वर्थव्यापारानधिकरणाश्रयोपस्थितिर्हेतुरिति कार्यकारणभावान्तरम् । प्रकृते चैत्रस्य व्यापारानधिकरणत्वाभावान्न दोषः । प्रयागस्य कर्मत्वं तु सम्भावितमपि न । समभिव्याहृतधात्वर्थफलशालित्वस्यैव क्रियाजन्येत्यनेन विवक्षणस्य उक्तप्रायत्वात् । नैयायिकास्त्वाद्यदोषवार१० णाय परसमवेतत्वं द्वितीयवारणाय धात्वर्थतावच्छेदकत्वं फले विशेषणं द्वितीयावाच्यमित्युपाददते ।
परसमवेतत्वं धात्वर्थक्रियायामन्वेति, तथैव कार्यकारणभावान्तरकल्पनात् । परत्वं च द्वितीयया स्वप्रकृत्यर्थापेक्षया बोध्यते । तथा च, चैत्रस्तण्डुलं पचतीत्यादौ तण्डुलान्यसमवेतव्यापारजन्यधात्वर्थतावच्छेदकविक्लित्तिशालित्वात्तण्डुलस्य कर्मता, शाब्दबोधस्तु तण्डुलसमवेतधात्वर्थतावच्छेदकविक्लित्यनुकूलतण्डुलान्यसमवेतक्रियाजनककृतिमांश्चैत्र इत्याहुः [ तन्न रोचयामहे, परसमवेतत्वादेगौरवेणा१५ वाच्यत्वात् । अतिप्रसङ्गः किं द्वितीयायाः, शाब्दबोधस्य वा ? नाद्यः-तावद्वाच्यकथनेऽपि तत्तादवस्थ्यात् । गमयति कृष्णं गोप इति द्वितीयापत्तेः । तण्डुलं पचति चैत्र इतिवत्, तण्डुलं पच्यते स्वयमेवेत्यापत्तेश्च । विक्लित्त्यनुकूलतण्डुलान्यसमवेताग्मिसंयोगरूपधात्वर्थाश्रयत्वात् । शाब्दबोधातिप्रसङ्गोऽप्युक्तरीत्यैव निरस्तः। परसमवेतत्वस्य शक्यत्वेऽपि परत्वस्य परसमवेतत्वस्य च इष्टान्वयलाभायानेकशः कार्यकारणभावाभ्युपगमे गौरवान्तरत्वादिति स्पष्टं भूपणे”] २० तत्कारकमित्यादि । ननु व्याप्यशब्दस्य संज्ञात्वेनानुपात्तात् कथं "व्याप्ते क्तेनः" ( २।२।९९)
इत्यादौ व्याप्यशब्देन व्यवहारः ? उच्यते । कस्यचिद्व्याप्यं प्रसिद्धम् , कस्यचित्कर्मेति । तत्र यद्यस्य प्रसिद्धं तस्य तदनुवादेनाप्रसिद्ध लक्षणेन विधीयते । 'प्रसिद्धस्यानुवादेनाप्रसिद्धस्य विधानं हि लक्षणार्थः', तेन यत्कर्म का क्रियते तद्व्याप्यसंज्ञं भवतीत्यपि सूत्रार्थः ।
एवं च कर्मणो लक्षणमुत्त्वा भेदान्निरूपयितुमाह२५ तत्रेधेति-यदिति केचिदसत उत्पत्तिनिवृत्तिमाचक्षते, सत एवाभिव्यक्तिमन्ये, व्याकरणस्य चार्थव्य
वस्थायामव्यापारात् शब्दव्युत्पादन एव प्रवृत्तत्वादुभयमप्याह-तत्र असज्जायते इति प्रथमः पक्षःसतो भवनायोगादसदेव कार्यं भवतीत्यर्थः । जन्मना प्रकाश्यते इति द्वितीयः पक्ष:-असतः शशविषाणस्येव सतो गगनस्येव निवर्त्तनायोगात् प्रकाश एव जन्मेत्यर्थः । एतनिर्णयश्च ग्रन्थान्तरादवसेयः ।
अत्रोदाहरणम्-कटं करोति, पुत्रं प्रसूते इति । कटगतां निष्पत्तिमनुतिष्ठन् कटं निवर्तयतीत्यर्थः । तथोक्तं३० "सती वाऽविद्यमाना वा प्रकृतिः परिणामिनी । यस्य नाश्रीयते तस्य निर्वय॑त्वं प्रचक्षते ॥"
अस्यायमर्थः-अविद्यमाना प्रकृतिर्यस्य निर्वय॑त्वं यथा संयोगविभागौ जनय इति संयोगविभागौ न कस्याश्चित्प्रकृतेर्विकारावित्यविद्यमानप्रकृतिकत्वान्निर्वय॑त्वन्तयोः सती वा प्रकृतिः परिणामिनी यस्य नाश्रीयते तस्य निर्वय॑त्वम् , यथा कटं करोति-कटस्य यद्यपि काशाः प्रकृतिभूताः सन्ति तथापि यदा
न विवक्ष्यन्ते तदा कटस्य निर्वय॑त्वम् , यदा तु विवक्ष्यन्ते तदा विकार्यकर्मता कटस्येति तु कारक३५परीक्षायाम् । यत्रेति प्रकृत्युच्छेदेन गुणान्तराधानेन वा विद्यमानमेव यदवस्थान्तरं नीयते तद्विकार्य
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org