________________
प्रक्रियावृत्तिरूपे श्रीहेमप्रकाशे कारकप्रक्रिया । आमध्ये प्रथमा । कर्मलक्षणम् २११ क्रियाया विशेषकम् । व्रजामि देवदत्तेति निघातोऽत्र प्रतीयते ॥ १॥ ततश्च देवदत्तादेः क्रियाविशेषणात् कर्माद्यतिरिक्तामश्रणसम्बन्धे शेषरूपे वर्तमानाद्गौणात्प्रथमापवादः षष्ठी प्राप्नोति, तद्वाधनार्थमिदमिति भावः । आमव्य इति किम् ? राजा भव-अत्र राजा न आमयः किन्तु स एव विधीयते इति पूर्वेणैव प्रथमा ॥ ३ ॥ अथ कर्तृकारकस्य तृतीयाप्रकरणे वक्ष्यमाणस्वरूपत्वेन क्रमप्राप्तस्य कर्मकारकस्य स्वरूपं निरूपयितुं प्रथमं तस्य लक्षणमाह
___ कर्तुाप्यं कर्म ॥ ४ ॥[सि० ॥२॥३] __ का क्रियया यद्विशेषेणाप्सुमिष्यते तस्कारकं व्याप्यं कर्म च स्यात् । तत्रेधा-निर्वय विकार्य प्राप्यं च । यदसजायते तभिर्वर्त्यम् । यत्रावस्थान्तरं क्रियते तद्विकार्यम् । यत्सदेव प्राप्यते तत्प्राप्यम् । पुनरेकैकं त्रिधा-इष्टमनिष्टसुदासीनं च । मुख्यगौणभेदाचद्विधा ॥४॥ ___ कर्तुः । कर्तुरिति "कृत्यस्य वा” (२।२।८८) "कर्तरि” (२।२।८६) इति वा षष्टी सा च सम्बन्धि-१० शब्दत्वादनुपात्तामपि कर्तृसम्बन्धिनी क्रियामुपस्थापयतीत्याह-का क्रिययेत्यादि । कर्त्ता च क्रियां विना न किञ्चिदाप्तुं शक्नोति इति सामर्थ्यात् क्रिया करणभावेनावतिष्ठते, ततोऽयमर्थः-पच्यादिकया क्रियया यद्विशेषेणाप्सुमिष्यते क; तत्कारकं कर्मेति । एषणाङ्गे च प्रापणे आप्नोतिर्वर्त्तते इति प्रकृतिप्रत्ययार्थों वितत्य व्याचष्टे-आप्नुमिष्यते इति । किमर्थं क्रियया तदाप्नुमिष्यते ? निर्वर्त्तयितुं गुणान्तराण्यापादयितुं विषयीकर्तुं वा; अत एव निर्वत्त्वं विकार्य प्राप्यं चेति त्रेधा तदुच्यते।
करणादिकारकाणां प्राप्तीच्छाविषयत्वेऽपि न विशिष्टेच्छाविषयत्वं कर्मसिद्धयै तेषामुपादानात्ततः साधूक्तं विशेषेणाप्तुमिष्यत इति ।
पाणिनेरप्ययमेवाभिप्रायः-तथाहि "कर्तुरीप्सिततमं कर्म" [पा० १।४।४९] कर्तुः क्रियया आप्तुमिष्टतमं कारकं कर्मसंज्ञं स्यात् । कर्तुः किम् ? माषेष्वश्वं बध्नाति-कर्मण ईप्सिता माषा, न कर्तुः । तमपग्रहणं किम् ? पयसा ओदनं भुङ्क्ते अत्र सत्यपि पयसो भुजिक्रियायां प्रकृष्टोपकारकत्वे ईप्सायां २० प्रकर्षाभावः । “तथायुक्तं चानीप्सितम्" [पा० ११४५० ] ईप्सिततमवत् क्रियया युक्तमनीप्सितमपि कारकं कर्मसंज्ञं स्यात् । प्रामं गच्छंस्तृणं स्पृशति । ओदनं भुञ्जानो विषमत्ति ।” _ अत्र वैयाकरणभूषणसारकारः प्राह-"तच्च कर्तुरीप्सिततमम्, क्रियाजन्यफलाश्रय इत्यर्थः, क्रियाजन्यफलवत्त्वेन कर्मण एव कर्तुरीप्सिततमत्वात् , तथा युक्तं चानीप्सितमित्यादिसङ्ग्रहाचैवमेव युक्तम्ईप्सितानीप्सितत्वयोः शाब्दबोधे भानाभावेन संज्ञायामेव तदुपयोगः, न तु वाच्यकोटौ तत्प्रवेशः ।२५ तथा च क्रियायाः फलस्य च धातुनैव लाभादनन्यलभ्य आश्रय एवार्थः । तत्त्वं चाखण्डशक्तिरूपमवच्छेदकम् । ओदनं पचतीत्यत्र विक्लित्त्याश्रयत्वात्कर्मता, घटं करोतीत्यत्रोत्पत्त्याश्रयत्वात् उत्पत्तेर्धात्वर्थत्वात् । जानातीत्यावरणभङ्गरूपज्ञानधात्वर्थफलाश्रयत्वात् । अतीतानागतादिपरोक्षस्थलेऽपि ज्ञानजन्यस्य तस्यावश्यकत्वात् , अन्यथा यथापूर्व न जानामीत्यापत्तेः । अतीतादेराश्रयता च विषयतपा ज्ञानाश्रयताया नैयायिकानामिव सत्कार्यत्वादसिद्धान्ताद्वोपपद्यत इति । उक्तं च
"तिरोभावाभ्युपगमे भावानां सैव नास्तिता । लब्धक्रमे तिरोभावे नश्यतीति प्रतीयते” ॥ १॥ ३१
१ क रित्यत्र प्रथमव्याख्याने व्याप्येत्यस्य कृत्प्रत्ययान्तस्य योगे "कृत्यस्य वा" इति कर्तरि षष्ठी । ननु यदा द्वैतीयिक व्याख्यानं कर्तुं कर्म व्याप्यमिति क्रियते, तदा कर्मणा योगे कर्तृशब्दात् केन सूत्रेण षष्ठी प्रावर्तिष्ट ? उच्यते । कृच्छेषा उणादय इति कृत्वा कर्मशब्द' औणादिकप्रत्ययान्तोऽपि कृदन्तः, तद्योगे "कर्तरि" इति षष्ठी।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org