________________
२१० महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघुगुणविशेषकत्वेनोपादानाद्गुणगुणिनोरभेदोपचारात्सामानाधिकरण्याद्गुणप्रधाननिर्देशस्य सम्भवाद्यथा पटः शुक्ल इति । यदा गुणिनां गुणो व्यपदिश्यते पटस्य शुक्ल इति, तदा स्वप्रधानो गुणो भवतीति द्रव्ये व्यतिरेकविभक्तिः षष्ठी; आधारविवक्षायां तु सप्तम्यपि । यथा कर्मणि या सयेति-कर्मादिभिरेकत्वादीनां विशेषणाद्विनापि भावप्रत्ययं गुणं प्रधाननिर्देशप्रतीतिरिति । यद्येवं बहुत्वस्यैकत्वात्सर्वदा बहाविति ५भाव्यं, कथं बहुषु बहुवचनमिति प्रयोगः ? उच्यते । आश्रयगतं बहुत्वं गुणे आरोप्य निर्देशाददोषः । तथा इत्येके मन्यन्ते इत्यत्रान्यार्थवृत्तिग्रहणादेकवचनप्रसङ्गोऽपि न वाच्यः, एकशब्दस्यान्यासहायसङ्ख्याप्रथमाल्पप्रधानसाधारणार्थवृत्तित्वेनानेकार्थवृत्तित्वात् , बहुशब्दश्च विपुलार्थवृत्तिरपि, तत एकद्विबहावित्यत्र सङ्ख्यावृत्तिना द्विशब्देन साहचर्यादेकबहुशब्दावपि तदर्थवृत्ती । प्रसिद्ध्या त्वसङ्खयेयार्थत्वमप्ये
कादीनामष्टादशान्तानामुच्यते "आदशभ्यः सङ्ख्या सङ्ख्येये वर्त्तते” इति, अन्यथा ह्येकयोर्द्विवचनैकवचने १० इति समुदायस्य व्यर्थत्वाद्बहुवचनप्रसङ्गः । द्वित्वैकत्ववृत्तित्वे त्वेकद्विशब्दयोर्द्विवचनमुपपन्नं भवति ।
ननु लौकिकादेव प्रयोगादेकत्वादिषु एकवचनादीनां व्यवस्था भविष्यति किमर्थमेकद्विबहाविति ? उच्यते । सामान्येन विधानादृष्टविरुद्धप्रयोगाञ्च नियमार्थमिदम् , तथाहि-सङ्ख्या निर्देशमन्तरेण सामान्ये नाममात्रात् स्यादयो विधीयन्ते, धातुमात्राच्च त्यादयः । अथ शास्त्रेऽनुपात्तोऽप्यर्थः प्रयोगादेव व्यवस्थाप्यते, यतः स्यादयस्तावत्स्वार्थे विधीयमानाः पञ्चको नामार्थ इति द्वित्वे दर्शने सङ्ख्यायां सिद्धाः; १५ सङ्ख्याविशेषावगतिस्तु लोकात्सिद्धा, त्यादयोऽपि कर्तृकर्मणोर्विधीयमानाः स्वभावतः सङ्ख्याप्रयुक्तयोरेव
तयोर्वाचका भविष्यन्ति, सङ्ख्याविशेषश्च प्रयोगदर्शनावगम्यते; एतदप्यसाधीयः, दृश्यते खल्वपि लोके विप्रयोगः-तद्यथा अक्षीणि दर्शनीयानि, पादा मे सुकुमारतरा इति; द्वित्वेऽपि लोके बहुवचनं दृश्यते इति व्यतिकरः प्राप्नोति, अव्यतिकरश्चेष्यते, तच्चान्तरेण यत्नं न सिद्ध्यतीति नियमार्थमिदम् , तथोक्तं
सरिभिः “एकद्विबहाविति च सङ्करनिवृत्त्यर्थमिति । न चैवं ब्राह्मणाः सङ्घ इत्यत्र ब्राह्मणसङ्घरूप२० स्यार्थस्य ब्राह्मणरूपेण बहुत्वात्सङ्घरूपेण चैकत्वात्सङ्ख्याद्वययोगाद्वचनव्यतिकरप्रसङ्ग इति वाच्यम् , भिन्नपदवाच्यत्वेन भिन्नार्थत्वात्तयोः । नहि ब्राह्मणरूपेण सङ्घपदं तमर्थमाचष्टे, सङ्घरूपेण ब्राह्मणपदं भिन्न एव पदार्थस्तदेकत्वं पदद्वयगम्यं वाक्यार्थ इति शब्दार्थभेदान्नेतरसङ्ख्या नेतरस्येति न वचनव्यतिकरः । नाम्न इति किम् ? निरर्थकाद्वर्णाद्धातुवाक्याभ्यां च मा भूत् । ननु चाव्ययेभ्य एकत्वाद्यभावादनेन
प्रथमा न प्राप्नोति । सत्यम् । लुब्विधानात्तु विभक्तीनां विधिप्रयते, तदन्तर्गतत्वाच्च प्रथमाया अपि, २५ तस्य फलम्-अथो स्वस्ते गृहम् , अथो स्वस्तव गृहमित्यादिषु "सपूर्वात्प्रथमान्ताद्वा” ( २।१।३२) इति
विभाषया ते मे आदेशौ पदसंज्ञा च, "अव्ययस्य” ( ३।२१७) इत्यत्र वक्ष्यते एकद्विबहावित्यादि अर्थे वर्त्तमानान्नान एकद्विबहौ यथासङ्ख्यं विभक्तिविधानादिति ॥ २ ॥
आमच्ये ॥ ३॥ [सि० २।२।३२] सम्बोधनाहनाम्नः प्रथमा स्यात् । हे देव ॥३॥ ३० आम० । प्रसिद्धतत्सम्बन्धस्य किमप्याख्यातुमभिमुखीकरणमामत्रणम् , तद्विषय आमव्यस्तस्मिन्
अर्थे वर्तमानान्नान एकद्विवहौ यथासङ्ख्यं प्रथमाविभक्तिर्भवति । अत्र प्रसिद्धतत्सम्बन्धस्येति-प्रसिद्ध. स्तेन आमन्त्रणशब्देन सह वाच्यवाचकभावलक्षणः सम्बन्धो यस्य तत्तथा तस्येत्यर्थः; शेषं स्पष्टम् । नन्वामन्त्रणविषयस्य देवदत्तादेः सत्त्वभूतस्यामध्यस्यैकत्वादिसङ्ख्यायोगात्तद्वाचिनो नाम्नः प्रथमा भवि
प्यति किमर्थमिदमारभ्यते इति । अत्रोच्यते आमक्यपदं हि क्रियाया विशेषणं भवति-हे देवदत्त ब्रजा३५ म्यहमिति, अत्राभिमुखीकृतदेवदत्तविशिष्टा व्रज्या प्रतीयते । यदाह हरि:-आमन्त्रितं पदं यञ्च तत्
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org