________________
प्रक्रियावृत्तिरूपे श्रीहेमप्रकाशे कारकप्रक्रिया । नामाथे प्रथमा २०९ क्यार्थ इत्यवधार्यते । न च तत्रार्थे प्रथमा-पूर्वमेवान्वयिनि प्रातिपदिकार्थे प्रथमाया उत्पन्नत्वात् कुनोद्यसङ्कर एकप्रहारेणैव निरस्तस्तथा चोक्तम्
"केवलेन पदेनार्थो यावानेवाभिधीयते । व्यवस्था तावतोऽर्थस्य तदाहुरभिधायकम्" ॥ १ ॥
"सम्बन्धे सति यत्त्वन्यदाधिक्यमुपजायते । वाक्यार्थमेव तं प्राहुरनेकपदसंश्रयम्" ॥२॥ समासकृत्तद्धितान्तेषु यद्यपि पदान्तरप्रयोगो नास्ति तथापि तत्र विशेषविशिष्ट एवार्थो विभक्त्यर्था-५ न्वयी तस्य तावानेवार्थः प्रातिपदिकार्थो नातिरिक्तः, यो यमर्थं न व्यभिचरति स तस्य प्रातिपदिकार्थः । तथा चोक्तं भाष्यकृता-'अन्वयी प्रातिपदिकार्थ इति' । नन्वेवं यद्यन्वयी प्रातिपदिकार्थस्तदासौ सर्वेषु विभक्त्यर्थेषु विद्यते इत्यङ्गीकर्त्तव्यम् , कथं नामान्यथान्वयी स्यात् , एवं चान्वयिनो वस्तुमात्रस्य प्रातिपदिकार्थस्य प्रत्यासन्नत्वात्तन्मात्राश्रयाऽन्तरङ्गा प्रथमा, द्वितीयादयस्तु कारकविभक्तयः क्रियापदापेक्षत्वेन बहिरङ्गाः, कटं करोति-कटेन कृतमित्यादौ यावदेव करोत्यादिपदं न प्रयुज्यते तावदेव कटशब्दा-१० दन्तरङ्गत्वात्प्रथमयैव भवितव्यमित्यन्तरङ्गत्वात्प्रथमया सकलो विषयो व्याप्तः, केदानी द्वितीयादिभिभर्भाव्यमित्यत्रोच्यते-लोकप्रयुक्तानां शब्दानामिदमन्वाख्यानम् , लोके च वाक्यमेव प्रयुज्यते, तस्य सम्पूार्थप्रतिपादकत्वेन निराकास तयाऽर्थक्रियार्थिनां प्रवृत्तिहेतुत्वात् ; वाक्याचापोद्धृत्य पदमन्वाख्यायते, तेन कर्मादिषु कारकेष्वनभिहितेषु द्वितीयादयः कर्त्तव्याः, अभिहितेषु कर्मादिषु प्रथमेति । एवं विभक्तीनां विषयविभागः । अत एवोक्तं भाष्यकृता-अभिहितो योऽर्थः स सम्पन्नः प्रातिपदिकार्थ इति । १५
एवं च नानः प्रथमेति सूत्रावयवो व्याख्यातः। किंविशिष्टान्नान्न इत्याह-एकद्विबहाविति-एकत्वद्वित्वबहुत्वविशिष्टेऽर्थे वर्तमानादित्यर्थः । मर्यादाभिविधावितिवदेकद्विबहाविति कर्मधारयात् सप्तमी । अर्थवच्छब्दरूपं नाम, अर्थश्च द्विविधःजातिव्यं च । तत्र जाते मार्थत्वे तस्या एकत्वद्वित्वबहुत्वासम्भवात्तत्सहचरितद्रव्यगतं द्वित्वं बहुत्वं वाश्रयणीयम् , ततश्च वृक्ष इत्यत्रापि अवयवगतबहुत्वसद्भावाद्बहुवचनप्रसङ्गः । अस्तु तर्हि द्रव्यं २० नामार्थस्तत्राधेयगतमेव बहुत्वमाश्रीयते, वृक्षशब्दस्य त्ववयवी वाच्यो नत्ववयवा इति बहुत्वाप्रसङ्गः; आकृतिपक्षेऽप्यदोषः-प्रत्यासत्त्या तदाधारद्रव्यगतं द्वित्वं बहुत्वं वाश्रीयते नत्ववयवगतम् , जातेरवयवेष्वनाश्रितत्वात् ; दारा इत्यादौ त्ववयवावयविनोरभेदविवक्षया बहुत्वमाकृत्याधारगतमेवेति बहुवचनं वाच्यम् । ननु-द्रव्येऽपि नामार्थे विशेषाभावादर्थशब्दस्य वस्तुपर्यायस्यापि सम्भवावृक्षः प्लक्ष इत्यत्रापि बहुवचनप्रसङ्गः-बहवस्तेऽर्था मूलस्कन्धपत्रादिरूपत्वात्तस्येति चेत् ? नैवम् । स्कन्धशाखाफलपलाशादि-२५ रूपेणानेकत्वेऽपि न वृक्षादिस्वरूपं तथाचष्टे इति न तस्य सा सङ्ख्या इति बहुवचनं न भवतीति सूक्तं एकत्वद्वित्वबहुत्वविशिष्टेऽर्थे वर्तमानादिति । यद्येवमेकद्विबहाविति प्रकृत्यर्थविशेषणत्वात्कः प्रत्ययार्थस्त एवेति ब्रूमः । अनिर्दिष्टार्थाः प्रत्ययाः स्वार्थे न भवन्तीति, तथाहि-पञ्चको नामार्थः दधि दधि पश्य पयः पयो रजति वासो वासश्छादयतीत्यादौ विभक्तिश्रवणमन्तरेणापि पञ्चाप्यर्थाः स्वार्थादयः प्रतीयन्ते । विभक्तयस्तु क्वचिद् द्योतकत्वेनापेक्षन्ते, तत्सिद्धमेतत्कर्माद्येकार्थसमवेत एवैकत्यादौ एकद्विबहु-३० वचनानि भवन्ति नत्ववयवगते । यद्येवं स तर्हि तथा निर्देशः कर्त्तव्यः, नह्यन्तरेण भावप्रत्ययं गुणप्रधानो निर्देशो भवति, ततश्चेत्येके मन्यन्ते तदेके मन्यन्ते इत्येकवचनं प्राप्नोति, यतो नामार्थ एकत्वमप्यत्रास्ति बहुत्वं, न च एकद्विबहावित्यत्र च विशेषानुपादानाद्यावान् कश्चिदेकशब्दवाच्योऽर्थस्तस्य ग्रहणेन वाच्यं तत्रैकवचनप्रसङ्गः । अथात्र परत्वाद्बहुवचनमेवेति, एवं तर्हि बहुरोदनो बहुः सूप इति विशेषानुपादानाद्वैपुल्यरूपस्यापि बहुत्वस्य ग्रहणाद्वहुवचनप्रसङ्गः । नैष दोषः । अन्तरेणापि भावपत्ययं गुणस्य ३५
_है. प्रका० पूर्वा० २७
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org