SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ २०८ महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघुनुकार्यस्य पदानुपस्थितत्वात् तत्सिद्धये शक्तिरुपेया । अभेदे प्रत्यक्षे विषयस्य हेतुत्वात् । स्वप्रत्यक्षरूपां पदजन्योपस्थितिमादाय शाब्दविषयतोपपत्तिरिति । यद्यप्यतिप्रसङ्गवारणाय वृत्तिजन्यपदोपस्थितिरेव हेतुस्तथाप्यत्राश्रयतया वृत्तिमत्त्वस्य सत्त्वान्नानुपपत्तिः । निरूपकताश्रयान्यतरसंबन्धेन वृत्तिमत एव शाब्दबोधविषयत्वं कल्प्यते इत्यनवद्यम् । संबन्धस्योभयनिरूप्यत्वात्, पदार्थस्येव तद्बोधकत्वेन स्वस्यापि ५ज्ञानसंभवाचेति । उक्तं च वाक्यपदीये "प्रात्यत्वं ग्राहकत्वं च द्वे शक्ती तेजसो यथा । तथैव सर्वशब्दानामेते पृथगवस्थिते" ॥१॥ इत्यादि । कारकपरीक्षायां तु "प्रातिपदिकार्थ-लिङ्गपरिमाणवचनमात्रे प्रथमा” इति, मात्रशब्दः प्रत्येकमभिसंबद्ध्यते । तत्र प्रातिपदिकार्थसत्ता अद्वैतवादिनामेतदर्शनम् तथा चाहुः-"सत्ता नाम काचिद नादिनिधनरूपा नित्यतया व्यवस्थिता सर्वशब्दैरभिधीयते” इति तदुक्तम्१० "संबन्धिभेदात्सत्तैव मिद्यमाना गवादिषु । जातिरित्युच्यते तस्यां, सर्वे शब्दा व्यवस्थिताः” ॥ १॥ "प्राप्तकर्मविशेषेषु, क्रिया सैवाभिधीयते । क्रमरूपस्य संहारे सा सत्त्वमिति चेष्यते" ॥ २ ॥ "अतस्तां प्रातिपदिकार्थ, धात्वर्थ संप्रचक्षते । सा नित्या सा महानात्मा, तामाहुस्त्वतलादयः ॥ ३ ॥" यद्येवमभावशशविषाणादिशब्देभ्यः प्रथमा न प्राप्नोति तेषामभाववाचकत्वेन सत्ताया अभावात् , नष्टो घटो भविष्यति, घट इत्यादौ तु प्रथमा न स्यात् नष्टानुत्पन्नयोः सत्ताया अभावात् , तथाङ्करो १५ जायते इत्यादौ प्रथमा न स्यात्ततो जन्माभावात् ? अत्रोच्यते-नेह वस्तुसत्ताभिहिता, किं तर्हि ? अभिधेयसत्ता, अभिधेयभूतस्यार्थस्य विद्यमानता सा चाभावशशविषाणादीनामपि विद्यते। तथा चोक्तं न्यासकारेण अभावोऽप्यभिधेयो भवत्येव, अन्यथा अभावादिवचनमनुच्चारणीयं स्यात् । नयनर्थक वचः प्रयोगमर्हति,अस्ति चाभावशब्दानां प्रयोगस्ततो निश्चीयतेऽभावोऽप्यभिधीयत इति । यतो भूतभविष्य दत्यन्तासद्वाचाभिधेयसत्ता न व्यभिचरति । भाष्यकारेणाप्युक्तम्-सत्तापदार्थो न व्यभिचरतीति । २० ननु जातिगुणक्रियाशब्दानां गोशुक्लपाचकादीनां जात्याद्यपेक्षा द्रव्ये वृत्तिरर्थान्तरसापेक्षतया तद्वाचि शब्देभ्यः प्रथमा न प्राप्नोतीत्यत्रोच्यते-जात्यादिविशिष्ट एवार्थो जात्यादिशब्दरभिधीयत इति जात्यादिविशिष्ट एव तेषामर्थो नार्थान्तरं जात्यादय इति तदर्थापरित्यागात् प्रथमप्रवृत्तौ यन्निमित्तमपेक्षते तत्तस्यार्थ एव नार्थान्तरम्, यत्पुनः क्वचिदर्थे वर्त्तित्वा पुनरर्थान्तरे वर्तितुं निमित्तेनोपादीयते तदर्थान्तरमिह द्रष्टव्यम् । यद्येवं गौर्वाहीकः सिंहो माणवक इत्यत्र गोसिंहशब्दौ स्वार्थे वर्तित्वा पुनरर्थान्तरे वर्तेते २५इत्यस्यार्थान्तरापेक्षातः प्रथमया न भवितव्यम् , किश्च स्थाणुर्वा पुरुषो वेति विकल्पातिरिक्तः प्रातिपदिकार्थः गौरिव गवय इत्यनुमानातिरिक्तः, वृक्षश्च वृक्षश्चेति समुच्चयातिरिक्तः, नीलमुत्पलं, कष्टं श्रितः, शंकुलया खण्डः, कुबेराय बलिः, वृकाद्भयं, राज्ञः पुरुषः, अक्षेषु शौण्ड इत्यादिषु विशेषणविशेष्यभावातिरिक्तः प्रातिपदिकार्थ इति प्रथमा न प्राप्नोति । किञ्च वाक्यमेव समासवृत्तीति सर्वत्र समासेन विशिष्ट एवा र्थोऽभिधीयते इति समासात्प्रथमा न प्राप्नोति । किञ्च कृदन्ततद्धितयोः संबन्धाभिधानमिति संबन्धातिरिक्त ३० इति कृदन्तात्तद्धितान्ताच्च प्रथमा च प्राप्नोति । किश्च देवदत्तः पचति, ओदनः पच्यते इति कर्तृकर्मातिरिक्तः प्रतिपदिकार्थ इति प्रथमा न प्राप्नोतीत्यत्रोच्यते-यत्रार्थेऽन्वयव्यतिरेकाभ्यां यस्य शक्तिरवधारिता स तस्यार्थस्तत्र वृक्षः वृक्षं वृक्षणेत्यादिषु सर्वेषु विभत्त्यर्थेषु फलमूलस्कन्धरूपोऽर्थ उपात्तसङ्ख्याकर्मादिविशेषितः सर्वविभक्त्यर्थान्वयी प्रातिपदिकार्थोऽन्वयव्यतिरेकाभ्यां सिद्धस्तन्मात्रं गृहीत्वा प्रथमं प्रथमा कर्तव्या, अत उत्तरकालं सिद्धं पदं पदान्तरेण संबन्धमुपैति पदान्तरसंबन्धाद्यदन्यदाधिक्यमुपजायते ३५ नासौ पदार्थः किन्तु नामपदाद्यवस्थायां पूर्वमप्रतीतोऽर्थः पदान्तरसन्निधानादुत्तरकालमवगम्यमानत्वाद्वा Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004040
Book TitleHaim Prakash Maha Vyakaranam Purvarddham
Original Sutra AuthorN/A
AuthorKshamavijay
PublisherHiralal Somchand Kot Mumbai
Publication Year1937
Total Pages560
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy