________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे कारकप्रक्रिया । नामार्थे प्रथमा २०७ योगात्-रक्तः कम्बलः । साधनात्-अन्नं प्राणाः, आयुर्घतम् । आधिपत्यात्-प्रामाधिपतिमिः । अलिङ्गमप्यर्थमात्रम्-त्वम् अहम् पञ्च कति, एषामलिङ्गत्वं च नन्ता सङ्ख्या डतिर्युष्मदस्मच्च स्युरलिङ्गका इत्यनुशासनात् । अलिङ्गसङ्ख्यमप्यर्थमात्रम्-उच्चैः नीचैः स्वः प्रातः, सर्वलिङ्गसङ्ख्यास्वेकरूपत्वादुचैःप्रभृतीनामर्थमात्रं विशिष्टलिङ्गसङ्ख्याभ्यामयोगादलिङ्गसङ्ख्यमित्यर्थः । शक्तिप्रधानमपि-यतः यत्र यथा यदा, तसादिभ्योऽपादानादिशक्तीनां प्रतीयमानत्वाद्यत इत्यादेरर्थमात्रं५ शक्तिप्रधान भवति । द्योत्यमपि-प्रपचति प्रतिष्ठते प्रतीक्षते प्रतिपालयति, प्राद्युपसर्गाणां क्रियार्थद्योतकत्वादन्यथोपसर्गत्वाभावात्तदर्थमात्रं द्योत्यमेवेति । स्वरूपमात्रमपि-अध्यागच्छति पर्यागच्छति प्रलम्बते निषिञ्चति-सोपसर्गानुपसर्गधात्वर्थस्याध्यादिभिर्वैशिष्ट्याप्रतीतेः, आगच्छतीत्यादि क्रियापदार्थ एव तदर्थ इत्यर्थः । तदयं वस्तुसङ्केप:-त्याद्यन्तपदसामानाधिकरण्ये प्रथमेति । यत्रापि त्याद्यन्तं पदं न श्रूयते वृक्षः प्लक्ष इति, तत्रापि गम्यते यदाह “यत्रान्यक्रियापदं न श्रूयते तत्रास्तिर्भवन्तीपरः१० प्रयुज्यते, भवन्तीशब्देन पूर्वाचार्यप्रसिद्ध्या वर्तमानाऽभिधीयते। नन्वर्थमात्रे प्रथमेत्युक्तम् , मात्रग्रहणस्य चाधिकार्थव्यवच्छेदकत्वाद्वीरपुरुष इत्यादौ सामानाधिकरण्यात्पदार्थमात्राद्विशेषणविशेष्यभावस्याधिकस्य प्रतीतेः प्रथमा न प्राप्नोति, समासविधानमपि प्रथमोत्पत्तेर्लिङ्गं न भवति वीरपुरुषमानयेति द्वितीयाधन्तानामपि समाससम्भवात् इति प्रथमा विधेया। नैष दोषः-आधिक्यस्य वाक्यार्थत्वाद्वीरनाम्नोऽनपेक्षितशब्दान्तरार्थसंसर्गोपहितविशेषणभावात् स्वार्थमात्रनिष्ठात् प्रथमा विधीयते, एवं पुरुषशब्दादपि, १५ पश्चात्त्वाकांक्षादिवशेन विशेषणविशेष्यभावावगतिरुपजायमाना बहिरङ्गत्वादन्तरङ्गपदसंस्कारं पूर्वप्रवृत्तं बाधितुं न शक्नोतीति सिद्धा प्रथमेति । अथवा त्यादिकृत्तद्धितसमासैरभिहितायां कादिशक्तौ प्रथमेत्युक्तम् , ततश्च वीरपुरुष इत्यत्रार्थाधिक्येऽप्यभिहितत्वमात्राश्रयात्प्रथमेति ।
कश्चित्सङ्ख्याकर्मादीन्विभक्तिवाच्यानभ्युपगच्छति त्रिको नामार्थ इति । कश्चित्सङ्ख्यैव विभक्तिवाच्या चतुष्को नामार्थ इति । कश्चित्पुनः पञ्चाप्यर्थी नामवाच्या, विभक्तयस्तु द्योतिकाः सङ्ख्याकर्मादीनां, स्त्री २० प्रत्ययाश्च लिङ्गस्येति प्रतिपन्नः । तत्र वार्तिककारश्लोकवार्तिककारयोः पञ्चक एव नामार्थ इति दर्शनमुभाभ्यां नियमार्थस्यापगमात् । भाष्यकारोऽप्यनेकदर्शनोपन्यासेऽपि पञ्चकेनैव नामार्थेन व्यवहरति-यदाह-"पञ्चक एव नामार्थोऽनेनाश्रित" इति युक्तिरप्यस्यामेव कल्पनायां दृश्यते । सङ्ख्याकर्मादयो हि नामवाच्यस्य द्रव्यस्य धर्मः स्वार्थोपसर्जनश्च शब्दो द्रव्य एव वर्तते द्रव्येणैवानयननयनादिव्यवहारस्तत्र द्रव्यवाचिना शब्देन द्रव्यधर्माणामभ्यन्तरीकरणमिति । नायुक्तमेतन्नामार्थत्वेन पश्चानामभिसन्धानं २५ विभक्तयः स्त्रीप्रत्ययाश्च द्योतका विशेष्यवृत्तित्वस्येति सर्वोऽप्ययं हैमबृहन्यासस्याभिप्रायः।
वैयाकरणभूषणसारेऽप्युक्तम्"एक द्विकं त्रिकं चाथ चतुष्कं पञ्चकं तथा। नामार्थ इति सर्वेऽमी पक्षाः शास्त्रे निरूपिताः” ॥१॥
एकम् जातिः, लाघवेन तस्या एव वाच्यत्वौचित्यात् , अनेकव्यक्तीनां वाच्यत्वे गौरवात्। द्विकमितिजातिव्यक्ती इत्यर्थः । त्रिकमिति-जातिव्यक्तिलिङ्गानीत्यर्थः । चतुर्थम्-सङ्ख्यासहितं त्रिकमित्यर्थः । पञ्च-३० कम्-कारकसहितं चतुष्कमित्यर्थः । विष्णुमुच्चाये(यें ?)त्यादावर्थोच्चारणासम्भवेन विना शब्दविषयं शाब्दबोधासङ्गतिश्चेति सोऽपि प्रातिपदिकार्थ इति षोढापि कचित् प्रातिपदिकार्थ इत्याह
"शब्दोऽपि यदि भेदेन विवक्षा स्यात्तदा तथा । नोचेच्छ्रोत्रादिभिः सिद्धोऽप्यसावर्थेऽवभासते" ॥१॥ ___ यद्यनुकार्यानुकरणयोर्भेदविवक्षा तदा शब्दोऽपि प्रातिपदिकार्थः, यदि न भेदविवक्षा तदा श्रोत्रादिभिरुपस्थितोऽप्यर्थवद्भासते । अपिहेती, उपस्थितत्वाद्भासते इत्यर्थः । अयं भावः-अनुकार्यानुकरणयोर्भेदेऽ-३५
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org