________________
महामहोपाध्याय श्रीविनयविजयगणिविरचिते खोपज्ञहैमलघु
विशेष्यभावापनं पुरुषादि तु द्रव्यम् । कचित्संबन्धोऽपि स्वार्थः, यत्र संबन्धनिमित्तः प्रत्ययो यथा दण्डी विषाणी अत्र हि दण्डविषाणयोः संबन्धः स्वार्थः । आदिशब्दाद्राजपुरुषादावप्युन्नेयमित्युदाहरतिगर्गाः पश्चाला इति । एतावानत्र विशेषो यष्ट्यादावुपचाराद्द्रव्यान्तरप्रतीतिरत्र तु प्रत्ययति इति स्वार्थलक्षणम् । अथ द्रव्यलक्षणमुच्यते-यत्पुनरिदंतदित्यादिना वस्तूपलक्षणेन सर्वनाम्ना व्यप५ दिश्यते, स्वार्थेन स्वरूपादिलक्षणेन विशेषणीभूतेन व्यवच्छिद्यते इति । स्वार्थस्य व्यवच्छेद्यं वक्ष्यमाणलक्षणानां लिङ्गसङ्खयाशक्तीनां प्रागुक्तानां च स्वरूपादीनामाश्रयः सत्त्वभूतं तद्रव्यं विशेष्यमिति व्याख्यायतेयथा इयं जातिः, अयं गुणः, इदं कर्मेति । अथ लिङ्गस्य लक्षणमुच्यते - यदर्थे शब्दाभिधेये घटादौ सदसद्वा शब्दत एवावसीयते, येन च हेतुभूतेन ङयाबादिना शब्दस्य संस्कारः क्रियते, तत्स्त्री पुमान् नपुंसकमिति लिङ्गम् - यथा खड्डा नदी युवतिरिति । अथ सङ्ख्याया लक्षणमुच्यते-यस्यामेकवचन१० द्विवचनबहुवचनानि भवन्ति, सा भेदप्रतिपत्तिहेतुरेकत्वादिका सङ्ख्या, तया हि पदार्थानां भेदः प्रतीयते; भेदपरिगणनलक्षणत्वात्तस्याः । ननु एक इत्यादौ नामार्थव्यतिरेकेणान्येषामेकत्वादीनां विशेषणभूतानाभावादेक इत्यादौ प्रथमाया अभावः प्राप्नोति ? अत्रोच्यते- एकत्वादिष्वपि व्यतिरिक्ता एकत्वादयः सन्ति, यथा शतमित्यत्र प्रवृत्तिनिमित्तं शतसङ्ख्यान्याऽन्या च विभक्तिवाच्या नामार्थशतैकत्वसङ्ख्या । तथैक इत्यत्रापि निमित्तविभक्तिवाच्ये द्वे एकत्वे, तत्र तदभिधानाय प्रथमा भविष्यति । तथाहु:१५ “निमित्तमेकमित्यत्र विभक्त्या नाभिधीयते । तद्वतस्तु यदेकत्वं विभक्तिस्तत्र वर्त्तते ॥ १ ॥ एवं शक्त्या -
२०६
श्रयेणैकत्वादिभेदेन प्रथमोक्ता । अभेदेऽपि दोषाभावः - यत उभयवचना एते द्रव्यं चाहुगुणं च । तत्र गुणोपसर्जनं द्रव्यमभिधीयते नाम्ना, द्रव्योपसर्जनस्तु गुणो विभक्त्या, यथा शौक्ल्यमिति गुणोपसर्जनद्रव्याभिधायिनः, शुक्लशब्दाद्रव्योपसर्जने तस्मिन्नेव गुणे भावप्रत्ययः । तदेवं यस्मिन् द्रव्ये स्थित एकत्वादिगुणस्तस्य द्रव्यस्यानुक्ता एकत्वादयः, प्राधान्येन तदभिधानाय प्रथमा भविष्यति । अथवा सङ्ख्या२० नामपर प्रधाना सङ्ख्येयमनया विशेष्यम् । यदि च प्रथमा न स्यात्, सङ्घयेयमविशेषितं स्यात् । केवलस्य नाम्नः प्रयोगाभावात्प्रथमाया अभावे एकादिशब्दानुश्चारणात्; अथवा प्रत्ययपरैव प्रकृतिः प्रयोज्या न केवला इत्येवंरूपात्समयाद्भविष्यति । अन्या अपि कस्मान्न भवन्ति इति न वाच्यम् कर्मादीनामभावात्, कर्मादिष्वेव द्वितीयादीनां नियतत्वात् । तर्हि षष्ठी प्राप्नोति, कर्माद्यभावो हि शेषः ? अशेषत्वान्न भवि - ध्यति, उपयुक्तादन्यो हि शेषो नामार्थस्य च प्रथमाविधावुपयोगान्तस्य चाव्यतिरिक्तस्येह सद्भावात् वच२५ नव्यतिकरप्रसङ्गो नास्ति, सामर्थ्याद्व्यवस्थासिद्धेः | एक इत्यत्रैकमेवैकत्वं तच्च नामार्थेनाभिहितमित्यप्राप्ता प्रथमा समयवशेन प्राप्यते तत्र, तथा समयश्च पालितो भवति, एकत्वानुगुणश्चान्यत्राभिधाने दृष्टसामर्थ्य वचनं भवति तथा कर्तव्यम् इति सङ्ख्यालक्षणम् । अथ शक्तिलक्षमुणच्यते-आख्यातकृत्तद्धितप्रत्ययसमासैरनुक्तायां यस्यां द्वितीयाद्या विभक्तयः षष्ठी च भवन्ति सा स्वपराश्रयाश्रितक्रियोत्पत्तिहेतुः कारकरूपा क्रिया कारकपूर्वसंबन्धादिरूपा च शक्तिः । तत्र कर्तृकर्मशक्ती स्वाश्रयगतक्रियोत्पत्ति३० हेतुभूते अपि, अन्यास्तु करणादिशक्तयः पराश्रयगतक्रियोत्पत्तिहेतुभूता एव । सा चाख्यातादिभिरुक्ता शक्तिरर्थमात्रमिति वक्ष्यते, अर्थमात्रं चोपचरितमपि अध्यारोपितमित्यर्थः, अध्यारोपश्चात स्मिंस्तदिति प्रत्ययः, स च सहचरणादिभिर्निमित्तादनेकधा भिद्यते - 'सहचरणस्थानतादर्थ्यवृत्तमान धरणसामीप्ययोगसाधनाधिपत्येभ्यः कुन्तादिष्वतद्भावेऽपि तद्वदुपचारः' । क्रमेणोदाहरणानि यथा साहचर्यात्-कुन्ताः प्रविशन्ति, छत्रिणो गच्छन्ति । स्थानात् मनाः क्रोशन्ति, गिरिर्दह्यते । तादर्थ्यात्-इन्द्रः स्थूणा, प्रदीपो मल्लिका । वृत्तात् - यमोऽयं राजा, कुबेरोऽयं राजा । ३६ मानात्-प्रस्थो व्रीहिः, खारी मुद्गाः । धरणात् - तुला चन्दनम् । सामीप्यात् गङ्गातटं गङ्गा ।
For Personal & Private Use Only
Jain Education International
www.jainelibrary.org