________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे कारकप्रक्रिया । कारकखरूपम् , नामार्थे प्रथमा २०५ च विवक्षितम् , तयोश्च स्वातव्यपारतश्ययोः पर्यायेण वचनम् , वचनाश्रया च संज्ञा भवति, यथा-बलाहकाद्विद्योतते बलाहके विद्योतते बलाहको विद्योतते विद्युत् । तथाहि बलाहकादिति निस्सरणाद्विद्योतने द्युतिर्वर्त्तते पृथग्भावश्च विवक्षित इत्यपादानत्वम् । बलाहके इत्यत्र तु द्योतने द्युतिर्वर्त्तते बलाहके स्थित्वा ज्योतीरूपा विद्युद्विद्योतत इत्यर्थः । बलाहक इति च विद्युतो बलाहकस्याभेदविवक्षायां प्रयोगः । ग्राम आगच्छतीत्यर्थान्तरावगमादपादानव्यापारानवगमात्प्रयोगाभावः । एवं ब्राह्मणाय५ ददातीत्यर्थे ब्राह्मणो ददातीति प्रयोगाभावः । शब्दशक्तिस्वाभाव्याचापादानसम्प्रदानव्यापारे धातुर्न वर्त्तते । वस्तुतस्त्वपादानस्यावधिभावेनावस्थानं व्यापारोऽस्ति संप्रदानस्याप्यनुमननादिलक्षणः । प्रतीयमानोऽपि च व्यापारः कारकव्यपदेशनिबन्धनं यथा-प्रविश पिण्डीमिति । स्वव्यापारमन्तरेण प्रधानक्रियायामुपयोगाभावात् । ननु सर्वत्रात्र स्वातव्यं पारतत्र्यं चास्ति, तत्र प्रधानत्वात्कर्तृसंज्ञैव प्राप्नोति । अथ परत्वादपादानादयः, तथाह्यपादानादीनामवकाशो यदा स्वातव्यं नास्ति कर्तृसंज्ञाया १० अवकाशः । देवदत्तः पचतीत्युभयप्राप्तौ चापादानादयः । तन्न । सर्वत्र स्वातव्यस्य सद्भावान्नास्ति कर्तृ. संज्ञाविनिर्मुक्तोऽपादानादि संज्ञानामवकाशः । अत्रोच्यते-उद्भूतस्वातत्र्यविवक्षायां कर्तृसंज्ञा, उद्भूतपारतव्यविवक्षायां तु न्यग्भावात्सदपि स्वातव्यं स्वयं न प्रयुक्ते, यथा राजसन्निधौ तदनुपयोगि स्वकार्यममात्या नारभन्ते, तस्मात्सर्वत्र स्वातत्र्यपारतक्ष्यसद्भावेऽपि पर्यायेणैध वचनम् , तदाश्रया च संज्ञेत्यदोषः। ननु संभवनक्रियां धारणाक्रियां च कुर्वती स्थाली स्वतत्रेत्युक्तम् , केदानी परतत्रा, न चाप्रक्षालने १५ परिवर्त्तने च पारतव्यमिति वाच्यम्, न हि प्रक्षालनपरिवर्त्तने करिष्यतीति स्थाल्युपादीयते, किन्तु संभवनधारणक्रिये करिष्यतीति प्रक्षालनाद्यभावेऽपि पाकनिष्पादात्तेषां तत्रानङ्गत्वात् । एवं तर्हि स्थालीस्थे यत्ने कथ्यमाने स्थाली स्वतश्रा, कर्तृस्थे यत्ने परतत्रेति । ननु च भोः कर्तृस्थेऽपि यत्ने कथ्यमाने स्थाली संभवनधारणक्रिये करोति तत्र स्वतत्रा, केदानी परतत्रेति ? एवं तर्हि प्रधानेन समवाये स्थाली परतत्रा, व्यवाये स्वतत्रा, यथामात्यानां राज्ञा सह समवाये पारतत्र्यं व्यवाये खातव्यमिति । कारकेषु २० हि कर्तुः प्राधान्यं कर्ता च तिबादिनाभिहितशक्तिकः प्रथमामर्हतीति प्रथमं प्रथमां निरूपयति॥१॥
नाम्नः प्रथमैकद्विबहौ ॥ २॥ [सि० २।२।३१ ] स्वार्थद्रव्यलिङ्गसङ्ख्याशक्तिलक्षणोऽसमग्रः समग्रो वा पश्चको नामार्थस्तसिनेकद्विवहौ वर्तमानान्नानो यथासङ्ख्यं स्यौजस्लक्षणा प्रथमा स्यात् । डित्थागौः शुक्ला कारका दण्डी इति प्रथमा ॥२॥ __ कर्मादिशक्तिषु द्वितीयादिविभक्तीनां विधास्यमानत्वादिह विशेषानभिधानाच परिशिष्टेऽर्थमात्रे प्रथ-२५ मेति विज्ञायते । ततश्चं द्वितीयादिविनिर्मुक्तं स्वार्थादिपञ्चकमर्थमात्रं नामार्थ इत्यभिप्रेत्याह-स्वार्थेत्यादिस्वार्थादिपञ्चकस्य क्रमेण स्वरूपमेवाहुः । स्वार्थ इति-स्वस्यैवार्थः स्वार्थों यतः शब्दस्यार्थे प्रवृत्तिः, शब्दप्रवृत्तिनिमित्तं इति यावत् । स च स्वरूप-जाति-गुण-क्रिया-द्रव्य-संबन्धादिरूपत्वतलादिप्रत्ययाभिधेयो भावो विशेषणं गुणोऽसाधारणोर्थ इति व्याख्यायते । यदाहि स्वरूपान्तरानुपादानः शब्दः स्वाभिधेये प्रवर्त्तते, तदा सोऽयमित्यभिसंबन्धेन शब्दरूप-३० विशिष्टस्यैवार्थस्य प्रतीतेः शब्दस्वरूपमेव स्वार्थों विशेष्यं तु द्रव्यं यथा डित्थ इत्यादि । जातिरनुवृत्तिप्रत्ययहेतुः यथा गौरित्यादि । अत्र जातिविशिष्टस्य द्रव्यस्य प्रतीतेर्जातिः स्वार्थः । गुणः शुक्लादिः, शुक्ल: पट इत्यादौ गुणविशिष्टस्य द्रव्यस्य प्रतीतेर्गुणः स्वार्थः । कारक इत्यादौ तु क्रियाविशिष्टद्रव्यावभासना क्रिया स्वार्थः, क्रियाविशिष्टः संबन्धो वा । द्रव्यमपि यदा द्रव्यान्तरस्य विशेषणभूतं भवति-यष्टीः प्रवेशय, कुन्तान् प्रवेशयेति, तदा यट्याविद्रव्यं विशेषणभावापन्नं स्वार्थो द्रव्यान्तरं ३५
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org