________________
२०४
महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघु
ख्यानेन प्रकाश्यते यथाऽकारादीनां वर्णत्वमिति । किश्च अनाकृतिः संज्ञा आकृतिमन्तः संज्ञिन इति लोकेऽपि ह्याकृतिमतो मांसपिण्डस्य देवदत्त इति संज्ञा क्रियते, आकृत्या हि साहचर्यभावो लक्ष्यते, तेनायमर्थ:- कारकशब्द एकत्वात्संज्ञा, क्रियाहेतुशब्देन प्रत्यायितानां बहुत्वात् संज्ञित्वम्, लाघवार्थत्वात्संज्ञाकरणस्य; तथा आवर्त्तिन्यः संज्ञा भवन्ति, कारकशब्दश्चावर्त्तते न क्रियाहेतुशब्दस्तद्यथा - देवदत्तशब्द आवर्त्तते ५न मांसपिण्ड इति; अथवा सतः कार्यिणः कार्येण भाव्यमिति पूर्वोच्चारितः संज्ञी, पञ्चादुच्चारिता संज्ञेति । अथ क्रियाहेतुरिति संज्ञिनिर्देशः किमर्थः ? इत्यत्रोच्यते - अकारकस्य कारकसंज्ञा माभूदित्येवमर्थः, अन्यथा ग्रामस्य समीपादागच्छतीत्यकारकस्यापि ग्रामस्यापादानसंज्ञा प्रसज्येत; तथाहि - यो वृक्षशाखायाः पतत्यसौ वृक्षादपि पतत्येवं यो ग्रामसमीपादागच्छति ग्रामादप्यसावागच्छतीत्यपाये ग्रामस्यावधिमत्वेनोपादानादपायो हि संश्लेषपूर्वकः, संश्लेषश्च सन्नसन्वा बुद्ध्या कल्प्यते, संच समीपस्यैव विव१० क्षितो न तु प्रामस्य; यदा च ग्रामोऽपाययुक्तो भवति तदा स्यादेवापादानसंज्ञा यथा ग्रामादागच्छतीति । एवं तर्हि वृक्षस्य पत्र पतत्यत्रापादानसंज्ञा प्राप्नोति, ग्रामस्य समीपा दित्यत्रापाययुक्तार्थान्तरसद्भग्वान्नास्ति ग्रामस्यापाययोग, इह त्वर्थान्तरस्यानिर्देशाद्वृक्षस्यैवापाययुक्तत्वमिति । नैतदप्यस्ति । यतो नात्रापायो विवक्षितः, । कस्तर्हि ? संबन्ध: - पर्णविशेषणत्वेन वृक्षस्य विवक्षितत्वात् । न चैवं पततीति प्रयोगानुपपत्तिः, वृक्षमहत्यपि पर्णे शाखास्थे भूमिं स्पृशति वृक्षस्य पत्रं पततीति प्रयोगस्य दर्शनात्, सति ६५ ह्यवधौ गतिरपायो भवति नान्यथा, गतिविशेषत्वादपायस्य । यदा चापायो विवक्षितो भवति, भवति तदापादानसंज्ञा—यथा वृक्षात्पर्ण पततीति । संबन्धस्तु तदा न विशेषितो भवति न ज्ञायते । कङ्कस्य वा कुररस्य वा संबन्ध विशेषस्य शब्देनासमर्पणात् प्रत्यासत्या तु वृक्ष एवं संबन्धित्वेन प्रतीयते इति तस्मादवध्यादय एव संज्ञिनो लप्स्यन्ते । सत्यम्, तथापि विशिष्टः संज्ञी निर्देष्टव्यः । यत् क्रियाया निर्वर्त्तकं साधकं तत्कारकसंज्ञं भवतीति । ननु तथाप्यत्र विशेषानिर्देशात् क्रियानिमित्तमात्रस्यापि २० हेत्वादेः प्रसङ्ग इत्यत्रोच्यते-करोतीति चकारोऽवधारणे, अयमर्थः - कारक इति महती संज्ञाऽन्वर्था विज्ञायते - करोतीति कारकमिति साध्यत्वेन च क्रियैव शब्दात्प्रतीयते, क्रियानिर्वर्त्तकस्यैव कारकसंज्ञा, कर्त्रादिसंज्ञा च प्रवर्त्तते; न हेत्वादेर्निमित्तमात्रस्यानाश्रितव्यापारत्वेनानिर्वर्त्तकस्य । ननु यदि करोतीति कारकमित्याश्रीयते तदा स्वतत्रस्यैव कर्तृसंज्ञावत् कारकसंज्ञापि प्राप्नोति न तु करणादीनां परतत्रत्वेनाकर्त्तृकत्वात्ततश्च करणं कारकमधिकरणं कारकमिति न स्यात् ? नैष दोषः - प्रतिकारकं पचादीनां क्रिया२५ भेदात्करणाधिकरणयोः कर्तृभावस्तथाह्यधिश्रयणोदकसेचनतण्डुलावपनैधोपकर्षणक्रियाः कुर्वन् देवदत्तः पचतीत्युच्यते - अत्र तदा पचिर्वर्त्तते एतत्प्रधानस्य कर्तुः कर्तृत्वम् । द्रोणं पचति आढकं पचतीति ग्रहणक्रियायां स्थिरत्वादाक्रियासमाप्तेस्तण्डुलानां धारणक्रियां च कुर्वती स्थाली पचतीत्युच्यते-अत्र तदा पचिर्वर्त्तते एतदधिकरणस्य कर्तृत्वम् । एधाः पचन्ति आविकिन्तेर्ज्वलन क्रियां कुर्वन्ति काष्ठानि पचन्तीत्युच्यते - अत्र तदा पचिर्वर्त्तते एतत्करणस्य कर्तृत्वम् । अनेकार्थत्वाश्च धातूनां तादर्थ्याच्च तद्रू३० पासङ्गात् करणादिव्यापारे पचेर्वृत्तिर्द्रष्टव्या । एवमन्यत्रापि सर्वेषां स्वव्यापारे स्वातन्त्र्यात्तदनुष्ठानद्वारेण प्रधानक्रियायामुपयोगात् कर्तृसन्निधावपि स्वव्यापारस्यानिवर्त्तनात् पारतन्त्र्यावस्थायामप्यनिवृत्तं कारकत्वमित्यर्थः । ननु च यथा करणाधिकरणयोः कर्तृत्वं निदर्शितम्, न तथाऽपादानादीनां निदर्श्यते; ३३ नापादाने ग्रामे विवक्षिते माम आगच्छतीति प्रयोगोऽस्ति । उच्यते - सर्वत्रैवात्र स्वातत्र्यं पारतन्त्र्यं
१ किंवाऽस्थानेऽयं यत्नः क्रियते-नहीदं लोकाद्भियते यथा गोशापकः कश्चित् सक्ति कर्णे वा गृहीत्वोपदिशति - अयं गौरिति नायमाचष्टे इयमस्य संज्ञेति । भवति चास्य संप्रत्ययस्तस्मादन्तरेणापि संज्ञाशब्दप्रयोगम् लोकव्यवहारवदत्र संज्ञा संज्ञिसंबंधः सिद्ध्यतीति ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org