________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे कारकप्रक्रिया । कारकलक्षणम्
ववववववववव
प्र
शब्दप्रक्रिया निरूपणानन्तरं कारकप्रक्रियां निरूपयितुमाह
प्रा
भ्य ते
क्रियाहेतुः तुः कारकम् ॥ १ ॥ [ सि० २२१]
क्रियाया हेतुः कारणं कर्त्रादि कारकसंज्ञं भवति । तच्च द्रव्याणां स्वपराश्रयसमवेतक्रिया निर्वर्तकं सामर्थ्यं शक्तिरित्याचक्षते । शक्तिश्च सहभूर्यावद्रव्यभाविनी च क्रियाकाल एवाभिव्यज्यते ॥ ५ करोतीति कारकमिति अन्वर्थसंज्ञासमाश्रयणाच्चानाश्रितव्यापारस्य निमित्तत्वमात्रेण हेत्वादेः कारकसंज्ञा न भवति ॥ 11
Jain Education International
२०३
अथेति० । तत्र कारकस्य लक्षणमाह-क्रियाया हेतुः कारणम् । क्रियास्वरूपं वक्ष्यते । कारकशब्दः कर्तृमात्रपर्यायः । कर्त्रादीत्यत्र कर्तृशब्दस्तु कर्तृविशेषवचनस्तेन कर्त्रादि कारकसंज्ञमिति विशेषण विशेष्यभाव उपपन्न इति । अन्यथा वृक्षो वृक्षसंज्ञ इतिवत् सोऽनुपपन्नः स्यादर्थस्याभेदादिति । कारक - १० शब्दाभिधेयं च द्रव्याणां स्वपराश्रयसमवेतक्रियानिर्वर्त्तकं सामर्थ्यं शक्तिरित्याचक्षते । क्रिया हि द्विविधा - कर्तृस्था कर्तृसमवायिनी आसनगमनादिका; यथा चैत्र आस्ते । कर्मस्था च कर्मसमवायिनी पाकादिका; यथा ओदनं पचतीत्यादि । अस्योपलक्षणत्वात् अन्योन्यमाश्लिष्यत इत्युभयाश्रितापि । कारकेषु 'च कर्तृकर्मणी क्वचित् स्वाश्रयसमवेतक्रियाया निर्वर्त्तके कचित्पराश्रयसमवेतक्रियायाः, शेषाणि पराश्रयसमवेत क्रियानिर्वर्त्तकान्येव । द्रव्याणां च सामर्थ्यमेव कारकमिति ज्ञेयम्, द्रव्यस्य तु कारकत्वे प्रतिबन्ध - १५ कमन्त्रादिसन्निधानासन्निधानाभ्यां दहनादेर्दाहादिक्रियोत्पत्त्यनुत्पत्ती न स्याताम् । द्रव्यस्वरूपस्य सर्वदा विद्यमानत्वादुत्पत्तिरेव स्यात्, तस्माच्छक्तिरेव कारकमित्यास्थेयम् । शक्तिर्हि द्रव्यस्य धर्मस्तस्य चतुष्टयी गतिः - कश्चित्सहभूर्यावद्द्रव्यभावी च यथा स्फटिकस्य शौक्ल्यम् । कश्चित्सहभूरयावद्द्रव्यभावी, यथाऽपक्कघटस्य श्यामिका । कश्चिदसहभूर्यावद्रव्यभावी च यथा तस्यैव घटस्य पाकजा रूपादयः । कश्चिदसहभूरयावद्रव्यभावी च यथा मेषयोः संयोगः । तत्र शक्तिलक्षणस्तु द्रव्यधर्म: २० सहभूर्यावद्द्रव्यभावी च । न चैवं सदा क्रियोत्पत्तिप्रसङ्ग इति वाच्यमभिव्यक्ताया एव तस्याः शक्तेः क्रियाहेतुत्वात् । यथा केतक्यादिजलादीनां वर्षाद्यभिभूतस्य गन्धस्य तरणिकिरणसंपर्काभिव्यक्तस्य गन्धोपलब्धिः क्रियाहेतुत्वम्, न चैतावता तस्यासत्त्वमुत्तरकालमभिव्यज्यमानत्वात् । न च तदैव तस्योत्पत्तिरित्यपि वाच्यम् - रविकरस्पर्शस्य गन्धोत्पत्तौ सामर्थ्यानवधारणात्, सामर्थ्ये वा जलान्तरेऽपि ततो गन्धोत्पत्तिः स्यात्तस्मात् क्रियाकालाभिव्यक्तशक्तिः कारकमिति स्थितम् । ननु कथमत्र कारकशब्दः संज्ञा २५ क्रियाहेतुः संज्ञीति न पुनर्व्यत्यय ? इत्यत्रोच्यते । आचार्यव्यवहारात्संज्ञासिद्धि:, तद्यथा-लोके मातापितरौ पुत्रस्य नाम कुरुतो देवदत्त इति, तयोराचारादन्येऽपि जानन्ति इयमस्य संज्ञेति, एवमिहापि केचि - व्याचक्षाणा आहुः कारकशब्दः संज्ञा, क्रियाहेतुः संज्ञी इति । अपरे कारकमित्युक्त्वाकर्त्रादीन्युदाहरन्ति, तेन मन्यामहे - यया प्रत्याय्यते सा संज्ञा, ये प्रतीयन्ते ते संज्ञिन इति । यदपि संज्ञासंज्ञिनोरसन्देहो वक्तव्य इत्युक्तं तदपि न - आचार्यव्यवहारे देवदत्तस्य सिद्धत्वात् । कारकशब्दस्य हि प्रत्यायनशक्तिर्व्या- ३०
For Personal & Private Use Only
१ निर्वर्तकम् | २ क्रियार्थो धातुः इत्यत्र । ३ कारकमिति संज्ञाया भाव्यमानेन त्वादुद्भूतविभक्त्यनुपपत्त्या भाव्यमान विभत्त्या प्रथमया निर्देशः । ४ अथ संज्ञेति प्रकृत्य कारकादयः शब्दाः पठितव्याः, अन्यथा कारकादयः संज्ञा इत्येष सम्यग्प्रत्ययो न स्यात्, अतः संज्ञाधिकार इति वक्तव्यम्, तथा क्रियमाणोऽपि संज्ञासंज्ञिनोरसन्देहो वक्तव्यः कथमन्यथा कारकशब्देत्यादि बृहन्यासेऽधिकः पाठः ।
www.jainelibrary.org