________________
२०२ महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहेमलघु
यूनः । युवनशब्दात् स्त्रियां तिः प्रत्ययो भवति, नकारान्तत्वाद् ङीप्रत्यये प्राप्ते तदपवादो योगः। युवतिः । यूनीत्यपि कश्चित् , न तच्छिष्टसंमतम् । कथं युवती ? यौतेरौणादिककिदतिप्रत्ययान्तात् “इतोऽक्त्यर्थात्” (२।४।३२) इति डीभविष्यति । मुख्यादित्येव-अतियूनी नियूँनी । “अना.” अनार्षे वृद्धे विहितौ यावणिनौ प्रत्ययौ तदन्तस्य सतो बहुखरस्य गुरूपान्त्यस्य नाम्नोऽन्त्यस्य ष्य इत्यादेशो ५ भवति, स्त्रियाम् ; गुरुग्रहणादनेकव्यञ्जनव्यवधानेऽपि भवति । गुरुग्रहणं हि दीर्घपरिग्रहार्थं संयोगपरिग्रहार्थं च, अन्यथा दीर्घोपान्त्यस्येत्युच्येत । कारीषगन्ध्येति-करीषस्येव गन्धोऽस्य करीषगन्धिस्तस्यापत्यं पौत्रादि स्त्री "उसोऽपत्ये” ( ६।१।२८) इति अण् , तस्य ध्यादेशः । एवं कौमुदगन्ध्या । देवदत्त्येतिदेवदत्तस्यापत्यं पौत्रादिः स्त्री "अत इञ्" इतीम् , तस्य ध्यादेशः । एवं वाराह्या बालाक्या । अनार्षे
इति किम् ? वासिष्ठी । विश्वामित्री । वृद्ध इति किम् ? वराहस्य प्रथमापत्यं स्त्री वाराही । अहिच्छत्रे जाता १० आहिच्छत्री । एवं कान्यकुब्जी । अणिम इति किम् ? ऋतभागस्यापत्यं बिदादित्वादञ् आर्त्तभागी । एव
मार्टिपेषणी । बहुस्खर इति किम् ? दाक्षी प्लाक्षी। गुरूपान्त्यस्येति किम् ? औपगवी कापटवी । अणिवन्तस्य सतो बहुस्वरादिति विशेषणं किम् ? द्वारस्यापत्यं पौत्रादि स्त्री इतीनि दौवार्या । तथा उडुलोनोऽपत्यमिति इमि "नोऽपदस्य तद्धिते" (७।४।६१) इत्यन्त्यखरादिलोपे औडुलोम्या। सारलोम्या-अत्रेयः पूर्वम
बहुखरत्वेऽगुरूपान्त्यत्वे च सत्यपीबि सति बहुस्वरत्वाद्गुरूपान्त्यत्वाच्च यथा स्यात् । स्त्रियामित्येव-कारी१५ षगन्धो वाराहिः पुमान् । मुख्यस्येत्येव-बहवः कारीषगन्धा यस्यां सा बहुकारीषगन्धा । निर्वाराहिः । कथं सौधर्मी आयस्तूनी भौलिङ्गी आलम्बी आलच्ची कालच्ची औद्राहमाती ? गौरादिपाठात् । इत्यादिकरणाच्च कुलाख्यानाम् (२।४७९) पौणिक्या भौणिक्या मौखर्या गौत्या । पुणिकभुणिकादयः कुलाख्याः। क्रौड्यादीनाम् (२।४८० ) अबहुस्वरागुरूपान्त्यार्थोऽनन्तरापत्यार्थश्चारम्भः । क्रोडस्यापत्यं क्रौडिः स्त्री कौड्या । लाड्या । कौडि लाडि व्याडि इत्यादि क्रौड्यादयः । “भोजसूतयोः क्षत्रिया२० युवत्योः” (२।४।८१) भोजसूतशब्दयोरन्त्यस्य क्षत्रियायुवत्योरभिधेययोः स्त्रियां ध्यादेशो भवति । भोज्या, भोजवंशजा क्षत्रिया । सूत्या प्राप्तयौवना मानुषीत्यर्थः । अन्ये तु सूतसंबन्धिनी युवतिः सूत्या न सत्याहुः । क्षत्रियायुवत्योरिति किम् ? भोजा सूता ॥ “देवयज्ञिशौचिवृक्षिसात्यमुनिकाण्ठेविद्धा" (२।४।८२) एषामिवन्तानामन्तस्य स्त्रियां ध्यादेशो वा भवति । इअन्तमात्रनिर्दे
शात पौत्रादौ प्राप्ते, प्रथमापसे त्वप्राप्ते विभाषा । दैवयझ्या दैवयज्ञी, शौचिवृक्ष्या शौचिवृक्षी, सात्यमुग्र्या २५सात्यमुग्री, काण्ठेविद्धथा काण्ठेविद्धी । इत्यादि सर्वं इत्यादिकरणेन संगृहीतमिति ॥ २६ ॥
यां शिष्योऽद्भुतकीर्तिकीर्तिविजयश्रीवाचकाहर्मणे
राजश्रीतनयो व्यधत्त विनयः श्रीतेजपालामजः। तस्यां शासितसाधुशब्दसरणौ स्वोपज्ञसत्प्रक्रिया
वृत्तावव्ययनिर्णयोऽथ विरतिं स्त्रीप्रत्ययश्चाभजत् ॥ १ ॥
आदिशब्दात आपक्षिति आपिशिलि सौधातकि भौरिकि भौलिकि शाल्मलि शालास्थलि कापिष्ठलि रौढि देवदत्ति याज्ञ. दत्ति इत्यादय इजन्ताः, चौपयत चैकयत चैटयत बेल्वयत सैकयत एतेऽणन्ताः । ष्यस्यादेशत्वात् कौडेयः चौपतेय इत्यादिष आपत्यस्य यस्य लोपः सिद्धः । अन्ये लत्र व्यस्य प्रत्ययत्वमिच्छन्तो यलोपं नेच्छन्ति-कौड्येयः चौपयत्सेयः । बहवचनमा. तिगणार्थम् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org