________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे स्त्रीप्रत्ययाः । ज्यादयः
२०१ वडवा । नीली ओषधीः । प्राण्यौषध्योरिति किम् ? नीला शाटी । "क्ताच नानि वा” (२।४।२८) नीलशब्दात् क्तान्ताच्च शब्दरूपात् स्त्रियां कीर्वा भवति, नाम्नि संज्ञायाम् । नीली नीला । प्रवृद्धा चासौ विलूना चेति प्रवृद्धविलूनी प्रवृद्धविलूना । एतत्सर्वं एवमित्यादिना संक्षेपेणाह इति ङीप्रकरणम् ॥२३॥
उतोऽप्राणिनश्चायुरज्वादिभ्य अङ् ॥ २४॥ [सि० २।४।७३ ] नृजातिवाचिनोऽप्राणिजातिवाचिनचोदन्तात् स्त्रियामूङ् स्यात्, न तु वन्ताद्रज्वादिभ्यश्च ।५ कुरूः । अलाबूः । प्राणिजातिवर्जनादाखुः । युरज्वादिवर्जनादध्वर्युः स्त्री । रज्जुरित्यादौ नोड । "बाह्वन्तकद्रुकमण्डलो नि" (२।४७४) । सुवाहूः। कद्रूः । कमण्डलूः । नाम्नीत्येववृत्तवाहुः ॥ २४ ॥ ___ उतो० । कुरूरिति-एवं इक्ष्वाकूः ब्रह्मबन्धूः इति नृजात्युदाहरणम् । अलावूरिति-एवं कर्कन्धः इत्यप्राणिजात्युदाहरणम् । ब्रह्मा बन्धुरस्या इत्यत्रोङः पूर्व "शेषाद्वा” (७।३।१७५) इति कच्प्रत्ययः परोऽपि १० न भवति, तत्र बहुलाधिकारात् । उत इति किम् ? विट् । वधूः । ऊङि हि सति वधूमतिक्रान्ताऽतिवधुरित्यत्र ह्रस्वत्वं स्यात् । यथातिब्रह्मबन्धुरित्यत्र ॥ आखुरिति-एवं कृकवाकुः । नृजातिवाचिन इत्यत्र जातिग्रहणात्-पटुः चिकीर्षुः स्त्रीत्यत्र नोङ् । अप्राणिनो जातिवाचिन इति ग्रहणात् काकुः स्वरभेदः, शङ्कः संख्याभेदः इत्यादौ नोङ् । अध्वर्युः स्त्रीति चरणत्वाजातिः । रज्जुरिति-एवं हनुः । बहुवचनमाकृतिगणार्थम् । कथं तर्हि भीरु गतं निवर्त्तते इति । भीरुशब्दस्य हि जातिवाचित्वाजातिलक्षणस्योङोऽभावे सम्बो-१५ धने ओत्वं प्राप्नोति । नैवम् । ताच्छीलिकानां संज्ञाप्रकारत्वात् मनुष्यजातिवाचित्वादूङि ह्रस्वत्वं सिद्धम् । अन्ये त्वसूर्यपश्यरूपा त्वं किमु भीरुररार्यसे इतिप्रयोगदर्शनाजातिवचनत्वमनिच्छन्त ऊऊँ न मन्यन्ते । "बाह्वन्त०" बाहुशब्दान्तानाम्नः कद्रुकमण्डलुभ्यां च नाम्नि विषये स्त्रियामूङ्प्रत्ययो भवति। सुबाहूरिति एवं मद्रबाहूः भद्रबाहूः कद्रूः कमण्डलूः संज्ञा एताः । वृत्तबाहुरिति-वृत्तौ बाहू अस्या वृत्तबाहुः ॥२४॥ उपमानसहितसंहितसहशफवामलक्ष्मणायूरोः॥ २५॥[सि० २।४।७५] २० . उपमानवाचिभ्यः सहितादिभ्यश्च षड्भ्यः परस्य ऊरोः स्त्रियामूङ् स्यात् । रम्भोरूः। सहितोरूः । नारीसखीपङ्गश्वश्रूः (२।४७६) एते साधवः ॥ २५ ॥ ___ उप० । अरोरिति-उपमानादिपूर्वपदेभ्यः परस्य ऊरोरित्यर्थः । रम्भोरूरिति-रम्भेवोरू यस्याः । एवं करभोरूः । नागनासोरूः । कदलीस्तम्भोरूः । सहितोरूरिति, एवं संहितोरूः शफोरूः वामोरूः लक्ष्मणोरूः । उपमानाद्यादेरिति किम् ? वृत्तोरुः पीनोरुः । "नारी." एते साधव इति एते शब्दाः स्त्रियां २५ ड्यन्ता ऊङन्ताश्च निपात्यन्ते । नृनरयोज्यां नारादेशः, नारी । सखिशब्दात् सखशब्दाच्च बहुव्रीहेमः, सखी । सह खेन वर्तते या सापि सखी । निपातनसामर्थ्यात् धवयोगेऽपि भवति-सख्युः स्त्री सखी । पॉशब्दादजातावूङ् पतः । श्वशुरशब्दाजातिलक्षणे धवयोगलक्षणे च ङीप्रत्यये प्राप्ते ऊङ् उकाराकारयार्लोपश्च श्वश्रूः । श्वशुरशब्दस्य संज्ञात्वे तु श्वशुरा ॥ २५ ॥
यूनस्तिः ॥ २६ ॥ [२४७७] स्त्रियाम् । युवतिः। “अनार्षे वृद्धेऽणिौ बहुखरगुरूपान्त्यस्यान्तस्य व्यः (२।४।७८) कारीषगन्ध्या । दैवदत्त्या इत्यादि ॥ २६ ॥ इति श्रीमहोपाध्यायश्रीकीर्ति विजयगणिशिष्योपाध्यायधीविनयविजयगणिविरचितायां हैमलघुप्रक्रियायां
स्त्रीप्रत्ययाधिकारः समाप्तः ॥ १ अर्थकथमिदं प्रवृद्धश्चासौ विलूनश्च । स्त्री चेदितिन कार्यम्, अन्यथा गौणत्वाभावात् 'गोश्चान्त.' इत्यत्राप्रवृत्तावदन्तत्वाभावात् डीने स्यात् । ओषधिविशेषः अखण्डः संज्ञाशब्दः व्युत्पत्तिमात्रमिदम् ।
है. प्रका० पूर्वा० २६
३०
For Personal & Private Use Only
Jain Education International
www.jainelibrary.org