________________
२००
महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघुइतीबि आसूरिः । "इन इतः” (२।४।७१) इप्रत्ययान्तानान्न इकारान्तात् त्रियां डीभवति सुतंगमेन निवृत्तेतीनि सौतङ्गमी । एवं मौनवित्ती । “सुतङ्गमादेरिल्" ( ६।२।८५) इति चातुरर्थिक इम् । इत इति किम् ? इबादेशात्म्यान्माभूत् । वराहस्यापत्यं वाराह्या, एवं बालाक्या कारीषगन्ध्या कौमुदगन्ध्या । "नुर्जातेः” (२।४७२) नुर्मनुष्यस्य या जातिस्तद्वाचिन इकारान्तानाम्नः स्त्रियां ङी५र्भवति । अवन्तेः कुन्तेश्चापत्यमिति "दुनादि०" (६।१।११८) इति व्ये "कुन्त्यवन्तेः स्रियाम्" (६।१।१२१) इति तस्य लोपे अवन्ती कुन्ती। दाक्षी। प्लाक्षी । तैकायनी 'तिकादेरायनिन्' (६।१।१०७)। ग्लुचुकायनी 'अदोरायनिः प्रायः' (६।१।११३ )। इत इत्येव-विशोऽपत्यमित्यन् , दरदोऽपत्यं “पुरुमगध०” (६।१।११६) इत्यण "द्रेररणो०” (६।१।१२३) इत्युभयत्र प्रत्ययलोपे विट दरद् ।
अवन्तीयतेः किप् तस्य लोपे अवन्ती स्त्री । नुरिति किम् ? तित्तिरिः । जातेरिति किम् ? निष्कौ१० शाम्बिः कन्या। "वा पादः” (२।४।६) बहुव्रीहेस्तन्निमित्तकपाद्शब्दान्तात् स्त्रियां ङीर्वा भवति । द्विपदी “यस्वरे पादः पदणिक्यघुटि" (२।१।१०२) इति पाच्छब्दस्य पदादेशः। द्विपात् । “अशिशोः" (२।४।८) अस्माद्बहुव्रीहेः स्त्रियां ङीर्भवति । अविद्यमानः शिशुरस्याः अशिश्वी । बहुव्रीहेरियेव-न शिशुः अशिशुः । “सङ्ख्यादेहायनाद्वयसि" (२।४।९) सङ्ख्यादेहर्हायनशब्दान्तानाम्नो बहुव्रीहेः
स्त्रियां वयसि गम्यमाने कीर्भवति । द्विहायनी त्रिहायणी चतुर्हायणी वडवा "चतुरेहायनस्य वयसि" १५ ( २।३।७४) इति णत्वम् । सङ्ख्यादेरिति किम् ? अतीतहायना । हायनादिति किम् ? द्विवर्षा कन्या । वयसीति किम् ? द्विहायना त्रिहायना चतुर्हायना शाला। कालकृता प्राणिनां शरीरावस्था वय इति णत्वमपि न भवति । “दान:” (२।४।१०) एतदन्ताबहुव्रीहेः स्त्रियां ङीर्भवति । द्विदानी त्रिदानी । "परिमाणात्तद्धिनलुक्यविस्ताचितकम्बल्यात्” (२।४।२३) परितः सर्वतो मानं परिमाणम् , तञ्च रूढिवशात् प्रस्थादि । यदाहुः "ऊर्द्धमानं किलोन्मानम् , परिमाणं तु सर्वतः । आयामस्तु प्रमाणं २० स्यात् , सङ्ख्या बाह्या तु सर्वतः”॥ १॥ बिस्तादिभ्यो यदन्यत्परिमाणं तदन्ताहिगोरकारान्तात्तद्धितलुकि स्त्रियां ङीर्भवति । द्वाभ्यां कुडवाभ्यां क्रीता “मूल्यैः क्रीते" (६।४।१५०) इति इकणि, "अनाम्यद्विः प्लुप्' (६।४।१४१) इति तल्लुपि द्विकुडवी त्रिकुडवी, व्याढकी त्र्याढकी । परिमाणादिति किम् ? पञ्चभिरश्वैः क्रीता पञ्चाश्वा । तद्धितलुकीति किम् ? द्विपण्या "पणपादमाषाद्यः" (६।४।१४८) इति ।
अबिस्तादेरिति किम् ? द्विबिस्ता व्याचिता द्विकम्बल्या । "काण्डात्प्रमाणादक्षेत्रे” (२।४।२४ ) २५ प्रमाणवाचिकाण्डशब्दादक्षेत्रविषयाहिगोस्तद्धितलुकि सति त्रियां ङीर्भवति । आयामः प्रमाणं । द्वे काण्डे प्रमाणमस्या द्विकाण्डी रज्जुः । प्रमाणादिति किम् ? द्वाभ्यां काण्डाभ्यां क्रीता द्विकाण्डा शाटी । अक्षेत्र इति किम् ? द्वे काण्डे प्रमाणमस्या द्विकाण्डा क्षेत्रभक्तिः। भक्तिग्रहणं तद्धितार्थस्य स्त्रीत्वार्थम् । “पुरुषाद्वा" (२।४।२५ ) प्रमाणवाचिपुरुषशब्दान्तादिगोस्तद्धितलुकि स्त्रियां ङीर्वा भवति । द्वौ पुरुषौ प्रमाणमस्याः द्विपुरुषी द्विपुरुषा परिखा । "हस्तिपुरुषाद्वाऽण्” (७।१।१४१), "द्विगोः संशये च” (७।१।१४४) ३० इत्यणो लुक् । प्रमाणादित्येव-द्वाभ्यां पुरुषाभ्यां क्रीता द्विपुरुषा वडवा।"रेवतरोहिणाझे” (२।४।२६)
रेवती रोहिणीभ्यां नक्षत्रशब्दाभ्यां स्त्रियां डीभवति । रेवती रोहिणी । यदापि “चित्रारेवतीरोहिण्याः स्त्रियाम्” (६।३।१०८) इति जाता यस्याणो लुकि ङीप्रत्ययस्यापि लुग् भवति तदापि नक्षत्रशब्दत्वात्पुनरनेन ङीर्भवति । रेवत्यां जाता रेवती, रोहिण्यां जाता रोहिणी । भ इति किम् ? रेवता रोहिणा। कथं "रेवतीरमणो बलः" "रेवती शुष्करेवती" ? रेवत्शब्दो मत्वर्थीयान्तोऽस्ति तत उदिल्लक्षणो
ङीः । कथं "रोहिणी कटुरोहिणी" ? रोहिणशब्दः प्रकृत्यन्तरमस्ति ततो जातिलक्षणो ङीः । “नीला३६त्प्राण्यौषध्योः ” (२।४।२७) नीलशब्दात्प्राणिनि औषधौ च स्त्रियां कीर्भवति । नीलो गौः, नीली
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org