________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे स्त्रीप्रत्ययाः । डीः मातुलाचार्योपाध्यायाद्वा ॥ २२ ॥ [ सि० २।४।६३ ] एभ्यस्त्रिभ्यो डीस्तद्योगे चानन्तो वा । मातुलानी मातुली । क्षुम्नादि (२।३।९६) पाठान्न णत्वमिति आचार्यानी आचार्यां । उपाध्यायानी उपाध्यायी । “सूर्यादेवतायां वा" (२।४।६४) डीस्तद्योगे चानन्तः । सूर्याणी सूर्या । "आर्यक्षत्रियाद्वा” (२।४।६६) आर्याणी आर्या । क्षत्रियाणी क्षत्रिया ॥ २२ ॥
मातुः । आचार्योति नेच्छन्यन्ये । अन्ये तु मातुला-आचार्या-उपाध्यायेत्यपीच्छन्ति । तदर्थं ङीरिति विकल्पनीयः । “सूर्या.” देवतायामिति किम् ? सूर्यस्यादित्यस्य मनुष्यस्य वा भार्या मानुषी सूरी । "सूर्यागस्त्ययोरीये च” (२।४।८९) इति य लोपः । सूर्याणीति नेच्छन्त्यन्ये । “आर्य” अत्र धवयोगो नानुवर्तते पश्चसूत्र्याः समाप्तत्वात् । आर्यः, क्षत्रियः, पुमान् । स्त्री चेत्-आर्याणी आर्या, क्षत्रियाणी २ । धवयोगे तु विशेषविधानात्पूर्वेण नित्यं डीरेव-आर्यस्य भार्या आर्या, एवं क्षत्रियी । १० धवयोगे एवायं विधिरिति कश्चित् तन्मते आर्यस्य, क्षत्रियस्य, भार्या आर्याणी २, क्षत्रियाणी २ । धवयोगादन्यत्र तु आर्या क्षत्रियेत्येव भवति ॥ २२ ॥
यवयवनारण्यहिमाद्दोषलिप्युरुमहत्त्वे ॥ २३॥ [सि० २।४६५] __एभ्यश्चतुर्यो यथासङ्ख्यं दोषादौ गम्ये डीः स्यात् , ङीयोगे चानन्तः। यवानां दोषो यवानी। यवनानां लिपिर्यवनानी । उरु अरण्यं अरण्यानी। महद्धिमं हिमानी । “यत्रो डायन् च वा" १५ (२।४।६७) गाायणी गार्गी । *एवमन्यत्रापि यथायोगम् ॥ २३ ॥
यव० । दुष्टो यव इति-यवानां दोषकारि सहचरितं द्रव्यान्तरम् , रालक इत्यर्थः । अप्रसवधर्माणो यवा एवेत्यन्ये । यवनानीति-उक्तार्थत्वात् "तस्येदम्" (६।३।१६०) इत्यण न भवति तद्विपये डीविधानात् । उर्विति-उरुमहत्त्वयोरेकार्थत्वेऽपि पृथग् ग्रहणं यथासंख्यार्थम् । लिपीति किम् ? यावनी वृत्तिः, यवनस्य भार्या यवनी । यवयवनारण्यहिमानां तु दोषाद्यभावे स्त्रीत्वमेव नास्तीति न प्रत्युदाह्रियते।२० संज्ञायां तु भवत्येव-यवा यवना अरण्या हिमा नाम काचित् । “यत्रो०” यञ्प्रत्ययान्तात् स्त्रियां ङीर्भवति, डायन् चान्तो वा भवति । "श्रुतानुमितयोः श्रौतो विधिर्बलीयानि”ति न्यायात् वाशब्दोऽत्र श्रुते । गाायणी पक्षे यलोपे गार्गी, एवं वात्सी वात्स्यायनी । अथोक्तशेषं ङीप्रकरणं सङ्केपेण सङ्घहाति । *एवमित्यादि-यथायोगमिति सूत्रानुसारेण अन्यत्राप्युक्तशेषे कचित् डायन्संनियुक्तो डीः कचित् केवलं डीरेवमुक्तरीत्यानुसन्धेयः । तथाहि-"लोहितादिशकलान्तात्" (२।४।६८) लोहिता-२५ दिभ्यः शकलान्तेभ्यो.यजन्तेभ्यः स्त्रियां डीर्भवति, तत्सन्नियोगे डायन्चान्तः । लौहित्यायनी । सांशित्यायनी कात्यायनी शाकल्यायनी । लोहितादिः शकलान्तो गर्गाद्यन्तर्गणः एकोनत्रिंशत्परिमितः । "षावटाद्वा" (२।४।६९) षकारान्तानानोऽवटशब्दाच्च यजन्तात्स्त्रियां ङीर्वा भवति, तत्सन्नियोगे डायन्चान्तः । पौतिमाष्यायणी पौतिमाष्या, शार्कराक्ष्यायणी शार्कराक्ष्या । गौकक्ष्यायणी गौकक्ष्या । आवट्यायनी आवट्या । एषु पूतिमाषशर्कराक्षगोकक्षावटशब्देभ्यो "गर्गादेर्यञ्” (६।१।४२) इति ३० यञ् । “कौरव्यमाण्डूकासूरैः” (२।४।७०) एभ्यः स्त्रियां ङीर्भवति, तत्सन्नियोगे डायन्चान्तः। कौरव्यायणी माण्डूकायनी आसुरायणी । एषु “दुनादिकुर्वित्कोशलाजादाभ्यः” (६।१।११८ ) इति ने कौरव्यः, "पीलासाल्वामण्डूकाद्वा” ( ६।१।६८) इत्यणि माण्डूकः “बाह्वादिभ्यो गोत्रे” (६।१।३२) ३३
१ पूर्वे, सूर्याणि तु शकट एव। २ डिस्करणमासुरायणीत्यत्र प्रयोजनार्थम् । ३ साक्षानिर्दिष्टस्य डायन एव वाशब्देन संबन्धो नानुमितेन छीप्रत्ययेन प्रत्यासत्तः, पावटादेति सूत्रकरणाद्वा।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org