________________
१९८ महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलधु
पालकोऽन्ते यस्य स पालकान्तः, न पालकान्तः अपालकान्तस्तस्मात् । धवनाम्न इति धवो भर्ता। प्रष्ठी गणकीति एवं प्रवरी महामात्री; कुमार्यां भवो भर्ता कौमारस्तस्य भार्या कौमारी । प्रष्ठादयो हि शब्दा धववाचिनोऽपि योगात्सोऽयमित्यभेदोपचारेण भार्यायां वर्तते । यदा तु "तस्येदमि”ति व्यतिरेकविवक्षा तदा तद्धितो भवति । प्राष्टी प्रावरी । धवादिति किम् ? परिसृष्टा प्रजाता प्रसूता । सर्वत्र ५विनि ठितगर्भेत्यर्थः । अत्यत्र योगस्तेन विना प्रसवाभावान्न तु धववाचि नाम । योगादिति किम् ? देवदत्तो धवो, देवदत्ता भार्या स्वत एव न तद्योगात् । गोपालिकेति-गोपालकस्य भार्येत्यर्थः। आदित्येव सहिष्णोर्भार्या सहिष्णुः । कथं ज्येष्ठस्य भार्या ज्येष्ठा, एवं कनिष्ठा मध्यमा ? अजादिपाठात् । *धवयोग इत्यादि लाघवार्थमाह ॥ १८ ॥
पूतक्रतुवृषाकप्यग्निकुसितकुसिदादै च ॥ १९॥ [सि० २४।६०] १० एभ्यः पञ्चभ्यो डीस्तद्योगेऽन्तस्यैः । पूतक्रतोः स्त्री पूतक्रतायी ॥ १९॥ __ पूत० । पूताः क्रतवो येन सः पूतक्रतुः । वृषो धर्मः कपिर्वराहस्तादूप्यात्पृषोदरादित्वाद्दीघे वृषाकपिः, वृषं दानवमाकम्पितवान् वा वृषाकपिर्माधवः । कुसितकुसिदौ ऋषी । ततः पञ्चानां द्वन्द्वः । ऐ चेत्यन्तादेशो न तु प्रत्ययः । “एयेऽनायी" (३।२।५२) इति सूत्रनिर्देशात् , नहि ऐकारस्य प्रत्य
यत्वे अनायीति भवति । एभ्यः पञ्चभ्य इति-धवनामभ्य इत्यर्थः । पूतक्रतायीति पूतकतोर्भार्या । १५ एवं वृषाकपायी अनायी कुसितायी कुसिदायी । योगादित्येव-पूता क्रतवो यया सा पूतक्रतुः । एवं वृषाकपि म काचित् ॥ १९ ॥
मनोरौ च वा ॥ २०॥ [सि० २।४।६१] मनोर्जी; तद्योगे औरैश्च स्याताम् । मनायी। मनावी । मनुः॥२०॥
मनो० । मनो वेति । वाशब्दः प्रथमं विधेयतया प्रधानेन ङीशब्देन योज्यते, न तु सन्नियोगशिष्ट२० त्वादप्रधानेनान्तादेशेनेति । औरैश्चेति-चकार ऐकारस्यान्तादेशस्यानुकर्षणार्थस्तेन ङीसन्नियोगे औकार ऐकारश्चान्तादेशौ क्रमेण स्यातामिति भावः ॥ २० ॥
वरुणेन्द्रभवशवरुद्रमृडादान्चान्तः ॥ २१ ॥ [सि० २।४।६२ ] एभ्यः षड्भ्यो ङीस्तद्योगे आन्चान्तः । वरुणानी । इन्द्राणी ॥ २१ ॥
वरु० । आन्चान्त इति । ङीसन्नियोगे च आनन्त आगमो भवति । अन्तग्रहणाभावे आनपि पृथक २५प्रत्ययः स्यात् । आदेशत्वे च "अनेकवर्णः सर्वस्य” (७४।१०७) इति सर्वस्यादेशः स्यात् । इन्द्रा
णीति । एवं रुद्राणी भवानी शर्वाणी मृडानी । कश्चित्त्वाहिताग्नेर्भार्या आहिताम्यानी । एवं प्राजापत्यानी वाणिजानीत्यादावपीच्छति । नत्वनागमेनैवेन्द्राणीत्यादि सिद्ध्यति इति किमानागमकरणेन, मात्रालाघवं हि पुत्रोत्सवाय मन्यन्ते वैयाकरणाः । नैवम् “किबथं प्रकृतिरेवाहे"ति किबन्तानामपीन्द्रादिशब्दानां पराभिप्रायेणानागमे इन्द्राणीत्यादि रूपाणि सिद्ध्यन्ति नत्वनागमे । तथाहुः श्रीसूरयो हैमबृहद्वृत्तौ । ३० “इन्द्रमाचष्टे इन्द् तद्भार्या इन्द्राणी एवं मातुलानीत्यपर इति" ॥ २१ ॥
१ अत्र सोऽयमित्यभिसम्बन्धेन वृत्तिर्वेदितव्या । नह्ययमेवामिसम्बन्धस्तस्यदमिति, किन्तु सोऽयमित्यपि । अभेदाच भेदस्य निवृत्तवात् तद्धितानुपपत्तिः। २ प्रष्ठस्येयमिति भेदविवक्षेत्यर्थः । ३ परिसर्गप्रसवौ सम्बन्धनिमित्तौ न च तो पुमांसमाचक्षाते । अन्ये वाहुः-परिसर्गो दोहद उच्यते, तेन परिसृष्टा सपरिसर्गा जातदोहदेत्यर्थः । प्रजनः प्रथमं गर्भग्रहणम् , प्रसवस्तु गर्भविनिर्लुण्ठनम् । एतैश्च योषित एव सम्बन्धो न पुंसः। पुरुषसंयोगनिमित्ता एतेन तद्वाचिन इत्यर्थः।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org