________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे स्त्रीप्रत्ययाः । ङीः
१९७
"
I
कुक्कुटी । तटी । नाडायनी । कठी । यान्तादिवर्जनं किम् ? | क्षत्रिया । खट्टा शूद्रा । कचित् नित्यस्त्रीजातेरपि - ओदनपाकी । शङ्खपुष्पी । पूगफली । दर्भमूली । औषधिविशेषा एते ॥ १७॥ जाते ० । योऽन्ते यस्य स यान्तः, नित्यं स्त्री नित्यस्त्री, यान्तश्च नित्यस्त्री च शूद्रश्च यान्तनित्यस्त्रीशूद्रम्, न यान्तनित्यस्त्रीशूद्रम् अयान्तनित्यस्त्रीशूद्रम्, तस्मात् । जातिवाचिन इति जातिः सामान्यमभिन्नबुद्धिध्वनिप्रसवनिबन्धनमर्थधर्मस्तत्र च कार्यासंभवात्तद्वाचिनो ग्रहणम्, सा च जातिस्त्रिधा तथा च सम्प्र - ५ दायः-आकृतिग्रहणेत्यादि - काचित्संस्थानव्यया, यथा गोत्वादिः । संकृदुपदेशव्यङ्ग्यत्वे सत्यत्रिलिङ्गान्या, यथा ब्राह्मणत्वादिः ; अत्रिलिङ्गत्वं देवदत्तादेरप्यस्तीति सकृदुपदेशव्यमयत्वे सतीत्युक्तम् । गोत्रचरणलक्षणा च तृतीया । क्रमेणोदाहरणानि - कुक्कुटी इति प्रथमभेदोदाहरणम् । तटी इति द्वितीयभेदोदाहरणम् । नाडायनीति-नडस्यापत्यं वृद्धं स्त्री "नडादिभ्यः आयनण्” (६।१।५३ ) इति गोत्रलक्षणा जातिः । कठीतिकठेन प्रोक्तं वेदं वेत्यधीते वा " तेन प्रोक्ते” (६।३।१८१) अण् "कठादिभ्यो वेदे लुप्” (६।३।१८३) १० इति लुपू, चरणलक्षणा जातिः; इति तृतीयभेदोदाहरणम् । क्षत्रियेति । एवं इभ्या वैश्या आर्या गवयी ही मुकयी मनुषी मत्सी; ऋश्यी इति गौरादिपाठात् । अन्तग्रहणं साक्षात्प्रतिपत्त्यर्थम् तेन वतण्डस्यापत्यं पौत्रादि स्त्रीति यन्, तस्य लोपे स्थानिवद्भावेऽपि वतण्डीत्यत्र यान्तलक्षणः प्रतिषेधो न भवति । खद्वेति- एवं मक्षिका यूका । कथं तर्हि द्रोणी कुटी । अत्र हि शब्दयोर्नित्यस्त्रीत्वाभावेऽपि द्रोणीकुटीजातेर्नित्यस्त्रीत्वात्प्रतिषेधः प्राप्नोति । नैवम् । गौरादिपाठाद्भविष्यति । शूद्रेति कथं तर्हि महाशूद्री ओभी- १५ रजातिः । नात्र शूद्रशब्दो जातिवाची किं तर्हि महाशूद्रशब्दः । यत्र तु शूद्रशब्द एव जातिवाची तत्र भवत्येव ङीनिषेधः । महती चासौ शूद्रा च महाशूद्रेति । जातिलक्षणस्यैवायं प्रतिषेधो तेन धवयोगे भवत्येव शूद्रस्य भार्या शूद्री । आदित्येव-आखुः तित्तिरिः । मुख्यादित्येव - बहुशूकरा भूमिः, बहुब्राह्मणा शाला । कथं सुँपर्णी ? सुपर्णशब्दस्यापि जातिवाचित्वात्तस्य च मुख्यत्वात् । क्वचित् इत्यादि ओदनपाकीति " पाककर्णपर्णवालान्तात् ” ( २।४।५५ ) पाकाद्यन्ताज्जातिवाचिनो नाम्नः स्त्रियां ङीर्भवति । ओदनस्येव २० पाकोsस्याः ओदनपाकी । एवं क्षणे क्षणेन वा पाकोऽस्याः क्षणपाकी । मुद्रपर्णी सालपर्णी । आखुकर्णी शङ्कुकर्णी गौरव वाला अस्या गोवाली । अश्ववाली ॥ शङ्खपुष्पीति " असत्काण्डप्रान्तशतैकाञ्चः पुष्पात् " (२।४।५६) सदादिवर्जितशब्दपूर्वो यः पुष्पशब्दस्तदन्ताज्जातिवाचिनो नाम्नः स्त्रियां ङीर्भवति । शङ्खपुष्पी सुवर्णपुष्पी । सदादिप्रतिषेधः किम् ? सत्पुष्पा काण्डपुष्पा प्रान्तपुष्पा शतपुष्पा एकपुष्पा प्राक्पुष्पा प्रत्यक्पुष्पा ॥ पूगफलीति “ असम्भस्त्राजिनैकशणपिण्डात्फलात् ” (२।४।५७) समादि - २५ वर्जितशब्दपूर्वो यः फलशब्दस्तदन्ताज्जातिवाचिनो नाम्नः स्त्रियां ङीर्भवति । दासीफली पूगफली दाडिमफली । समादिप्रतिषेधः किम् ? संफला भस्त्राफला अजिनफला । एकफला एकान्नच्छन्त्यन्ये । शणफला पिण्डफला ॥ दर्भमूलीति “अनत्रो मूलात् ” (२|४|५८) नबूवर्जितशब्दपूर्वो यो मूलशब्दस्तदन्ताजातिवाचिनो नाम्नः स्त्रियां ङीर्भवति । दर्भमूली शीर्षमूली । अनय इति किम् ? अमूला । ओषधिजातिविशेषाणां संज्ञा एताः । आसां जातीनां नित्यस्त्रीरूपत्वाद्वचनम् । एतत्सर्वं कचिदित्यादिना लेशेनाह ॥ १७ ॥ ३० धवाद्योगादपालकान्तात् ॥ १८ ॥ [ सि० २४|५९]
पालकान्तवर्जात्संबन्धतः स्त्रीवृत्तेर्घवनाम्नो ङीः स्यात् । प्रष्ठस्य भार्या प्रष्ठी । गणकी । अपालकान्तादिति किम् ? गोपालिका । *धवयोगोऽनुवर्त्तनीयः पञ्चसूयाम् ॥ १८ ॥
१ उभयोरपि सम्बद्ध्यते । २ वैश्यमेद एवाभीरो गवाद्युपजीवी । ३ पर्णशब्दस्यैव जातित्वं तस्य च कृते समासेऽमुख्यत्वमित्यभिप्रायः ।
Jain Education International
For Personal & Private Use Only
३३
www.jainelibrary.org