________________
महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघुवस्याः शङ्खभिन्नी, ऊरुभिन्नी, केशविलूनी, गलककृत्ती । कृतादिवर्जनं किम् ? दन्तकृता दन्तमिता दन्तजाता दन्तप्रतिपन्ना । बहुव्रीहेरिति किम् ? हस्ताभ्यां पतिता हस्तपतिता । "अनाच्छादजात्यादेनवा" (२१४४७) आच्छादवर्जिता या जातिस्तदादेः कृतादिवर्जितक्तान्ताद्वहुव्रीहेः स्त्रियां ङीर्वा भवति । शाङ्गरो जग्धोऽनया शाङ्गरजग्धी शाङ्गरजग्धा, पलाण्डुभक्षिती पलाण्डुभक्षिता । अनाच्छा५देति किम् ? वस्त्रच्छन्ना वसनच्छन्ना । जात्यादेरिति किम् ? मासयाता, संवत्सरयाता; पूर्वेणापि न भवति-अस्वाङ्गादित्वात् । कृतादिवर्जनं किम् ? कुण्डकृता पलाण्डुमिता वृक्षप्रतिपन्ना। क्तादित्येव-शाङ्गरप्रिया । "सप०" ङीरित्यादि । सपल्यादिषु यः पतिशब्दस्तस्मात् स्त्रियां नित्यं ङीर्भवति, नकारश्चान्तादेशः । समानः पतिरस्याः समानस्य पतिरिति वा सपत्नी । एवमेकपत्नी सती । वीरपत्नी पिण्डपत्नी
भ्रातृपत्नी पुत्रपत्नी । षडेते सपन्यादयः। समुदायनिपातनं समानस्य सभावार्थ पुंवद्भावप्रतिषेधार्थं च । १० सपत्नीभार्यः । सपत्या अयं सापत्नः । “ऊढा०" । पत्नीति-पत्युः केवलादूढायां परिणीतायां स्त्रियां
कीर्भवति, नकारश्चान्तादेशः । पत्नी । यजमानस्य पत्नी वृषलस्य पत्नी । ऊढायामिति किम् ? पतिरियं सङ्ग्रहीता अभार्या चेत्यर्थः । "पाणि" इति शब्दः प्रकारार्थः । पाणिगृहीतीति प्रकाराः शब्दाः ऊढायां त्रियां ड्यन्ता निपात्यन्ते । पाणिर्गृहीतोऽस्याः पाणौ वा गृहीता पाणिगृहीती । एवं करगृहीती पाण्यात्ती । करात्ती । ऊढायामिति किम् ? यस्या यथाकथंचित्पाणिर्गृह्यते सा पाणिगृहीता । बहुव्रीहा१५ वेवेच्छन्त्यन्ये ॥ पतिवनी अन्तर्वनीति-"पतिवन्यन्तर्वन्यो भार्यागभिण्योः ” (२।४।५३ )
भार्या अविधवा स्त्री, तस्यामभिधेयायां पतिमच्छब्दाद् ङीरस्य च पतिवनादेशः, तथा गर्भिण्यां स्त्रियामभिधेयायामन्तर्वच्छब्दाद् डीरस्य चान्तर्वनादेशो निपात्यते । निपातनादेव च अधिकरणप्रधानादप्यन्तः शब्दान्मत्वर्थीयो मतुर्भवति । भार्येति किम् ? पतिमती पृथ्वी । गर्भिणीति किम् ? अन्तरस्यां शालाया
मस्ति । एवमित्यादि-'एवमिति संक्षेपद्योतने' । दृढपत्नीति-“पत्युनः" (२।४।४८) पत्यन्ताद्वहुव्रीहेः स्त्रियां २० ङीर्वा भवति । तत्सन्नियोगेऽन्तस्य नकारादेशश्च । दृढः पतिरस्या दृढपत्नी दृढपतिः । एवं स्थिरपत्नी स्थिरपतिः, स्थूलपत्नी स्थूलपतिः, वृद्धपत्नी वृद्धपतिः । मुख्यादित्येव-बहुस्थूलपतिः पुरी । अत्र हि पत्यन्तो बहुव्रीहिर्मुख्यो न भवति । यस्तु मुख्यः स पैंत्यन्तो न भवति । ग्रामपत्नीति-"सादेः" (२।४।४९) सपूर्वपदात्पतिशब्दात् त्रियां कीर्वा भवति, अस्य च नकारोऽन्तादेशः । पूर्वेणैव सिद्धे
पुनर्वचनं बहुव्रीहिनिवृत्त्यर्थम् । ग्रामस्य पतिः स्त्री प्रामपत्नी ग्रामपतिः । आशापत्नी आशापतिः । २५अधिष्ठात्री पतिः अधिपत्नी अधिपतिः । ईषदूना पतिः बहुपत्नी बहुपतिः । सादेरिति किम् ? पतिरि
यम् । ग्रामस्य पतिरियम् । मुख्यादित्येव-अतिक्रान्ता पतिमतिपतिः । गौणादपीच्छन्त्यन्ये-अतिपत्नी २ । यदा तु पत्नीशब्दस्य षष्ठ्यन्तेन समासस्तदा राजपत्नी शूद्रपत्नीत्याद्येव भवति ॥ १६ ॥
जातेरयान्तनित्यस्त्रीशूद्रात् ॥ १७ ॥ [सि० २।४।५४ ] यान्तादिवर्जाजातिवाचिनोऽदन्तात्त्रियां डीः स्यात् । ।
आकृतिग्रहणा जातिर्लिङ्गानां च न सर्वभाक् ।
संकृदाख्यातनिर्लाह्या गोत्रं च चरणैः सह ॥३॥ १ धर्मादिषु पनीशब्दस्यापाठादित्यर्थः । २ परतः स्त्री० (३।२।४९) जातिश्च ( ३।२।५१) इति प्राप्तस्य । ३ अनग्निसाक्षिकं कामार्दितेन वारकर्मत्वे परिगृहीता। ४ भार्याया अन्या अप्रधानभूता भगिन्यादिः । ५ स्थूलाः पतयो यासां ताः स्थूलपतय इति कृते पत्युने इति नविकल्पनात् बहवः स्थूलपतयो यस्याम् । ६ द्वितीयेन बहुव्रीहिना बाधितत्वात् । ७ किं तर्हि ? स्थूलपत्यन्तः । ८ (अनु) गृह्यतेऽनेनेति आकृतिरक्यवरचना ग्रहणं यस्याः । ९ लिङ्गानां सर्व सर्ववं भजति लिङ्गसमुदाय वा सर्वं भजते। १. सकृदाख्याता सती नियमेन प्राद्या ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org