________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे स्त्रीप्रत्ययाः । ङीः
१९५ ( २।४।२२ ) इति विशेषविधानान्नित्यमेव ङीर्भवति । अस्वाङ्गपूर्वपदादेवेच्छन्त्यन्ये पाणी एव पादौ यस्याः सा पाणिपादा, मुखमेव नासिका यस्याः सा मुखनासिका ॥ १५ ॥
नासिको दरौष्ठजङ्घादन्तकर्णशृङ्गाङ्गगात्रकण्ठात् ॥ १६ ॥ [ सि० २४३९]
सहादिवर्जपूर्वपदेभ्यः एभ्यः स्वाङ्गेभ्यः स्त्रियां ङीर्वा स्यात् । सुनासिकी सुनासिका । नियमसूत्रमिदम् तेनान्येभ्यो बहुखरेभ्यः संयोगोपान्त्येभ्यश्च ङीर्न स्यात् । सुललाटा । सुपार्श्वा । "नख ५ मुखादनानि वा " ( २/४/४० ) सुनखी सुनखा । सुमुखी सुमुखा । नाम्नि तु शूर्पणखा । “पुच्छात्” (२|४|४१ ) तथा । दीर्घपुच्छी दीर्घपुच्छा । कबरादिपूर्वान्नित्यम् - कबरपुच्छी । " क्रीतात्करणादेः " ( २|४|४४ ) अश्वकीती । "तादल्पे" ( २४ |४५) अभ्र विलिप्ती द्यौरित्यादि । "सपत्त्यादौ” (२|४|५० ) ङीनन्तादेशश्च । सपत्नी । एकपत्नी । " ऊढायाम्" ( २|४|५१ ) पत्नी । " पाणिगृहीतीति” (२|४|५२ ) । पतिवत्नी । अन्तर्वती । एवं १० पी । ढपतिः । ग्रामपत्नी ॥ १६ ॥
नासि० । सुनासिकीति शोभना नासिका यस्याः सा । एवं कृशोदरी २ । बिम्बोष्ठी २ । दीर्घजङ्घी २ । समदन्ती २ । चारुकर्णी २ । तीक्ष्णशृङ्गी २ । मृद्वङ्गी २ । सुगात्री २ । स्निग्धकण्ठी २ । सहादिवर्जनात्-सहनासिका अनासिका विद्यमाननासिका । तेनान्येभ्य इति - अस्य नियमार्थत्वात् नासिको दराभ्यामेव 'बहुस्वराभ्याम्, ओष्ठादिभ्य एव संयोगोपान्त्येभ्यो भवति; नान्येभ्यः, तेन पृथुजघना १५ सुललाटा दृढहृदया इत्यादौ बहुखरान्न भवति, सुगुल्फा सुनेत्रा सुपार्श्वत्यादौ संयोगोपान्त्यान्न भवति । अङ्गगात्रकण्ठेभ्यो ङीप्रत्ययं नेच्छन्त्यन्ये । केचित्तु दीर्घजिह्नशब्दादपीच्छन्ति दीर्घजिह्वी २ । “नख०” वेति-सहादिवर्ज पूर्वपदाभ्यामाभ्यां स्त्रियां ङीर्वा भवति, अनाम्नि । सुनखीति - एवं सूर्पनखी २ । अतिनखी २ । चन्द्रमुखी २ । अतिमुखी २ । शूर्पणखेति एवं व्याघ्रणखा वज्रणखा गौरमुखा लक्ष्णमुखा कालमुखा; संज्ञाशब्दा एते न तु यौगिकाः । " पुच्छा० " तथेति - सहादिवर्जपूर्वपदात्स्वाङ्गात्पुच्छात् स्त्रियां २० ङीर्वा स्यादित्यर्थः । दीर्घपुच्छीति दीर्घं पुच्छं यस्याः सा तथा । नासिकेत्यादिनियमादप्राप्तौ वचनम् । कबरादीति ० "कबरमणिविषशरादेः” (२|४|४२ ) कबरादित्पूर्वात्पुच्छात्स्त्रियां नित्यं ङीर्भवति। कबरं कर्बुरं कुटिलं वा पुच्छमस्याः कबरपुच्छी । मणिः पुच्छेऽस्याः मणिपुच्छीत्यादि । एवं कबरादित्यत्रादिशब्दात् “पक्षाच्चोपमादेः” ( २।४।४३ ) उपमानपूर्वात्पक्षशब्दात्पुच्छशब्दाच्च स्त्रियां ङीर्भबति । उलूकस्येव पक्षावस्याः उल्लूकपक्षी शाला । उलूकस्येव पुच्छमस्याः उलूकपुच्छी सेना । " क्रीता०” २५ करणमादिरवयवो यस्य तस्मात् क्रीतान्तान्नान्नोऽकारान्तात् स्त्रियां ङीर्भवति । अश्वक्रीतीति- अश्वेन क्रीयते स्म अश्वक्रीत । एवं धनक्रीती वस्त्रक्रीती । विभक्त्युत्पत्तेः पूर्वमेव कृदन्तेन समासः । मनसा क्रीती । अलुप् । करणग्रहणं किम् ? सुक्रीता दुष्क्रीता । आदिग्रहणं किम् ? अश्वेन क्रीता । न ह्यत्र करणं क्रीतान्तस्य नाम्न आदिरवयवो भवति, ऐकपद्याभावात् । कथं 'सा हि तस्य धनक्रीता प्राणेभ्योऽपि गरीयसी'ति । धनं च सा क्रीता चेति कर्मधारयः । करणविवक्षायामपप्रयोग एव । केचित्तु ३० धनेन क्रीतेत्यत्राबन्तेनापि समासमिच्छन्ति, बहुलाधिकारात्; तदाकारान्तत्वाभावात् ङीर्न भवति । "क्ता०" क्तप्रत्ययान्तान्नाम्नः करणादेरल्पेऽर्थे स्त्रियां ङीर्भवति । अभ्रेत्यादि - अभ्रैर्विलिप्यतेस्म अभ्रविलिप्ती यौः । एवं सूपविलिप्ती स्थाली । अल्पाचा अल्पसूपेत्यर्थः । अल्प इति किम् ? चन्दनानुलिप्ता स्त्री । अनल्पेन चन्दनेन लिप्तेत्यर्थः । इत्यादिकरणाच "खाङ्गादेरकृतमितजातप्रतिपन्नाद्बहुव्रीहेः” ( २।४।४६ ) स्वाङ्गादेः कृतादिवर्जितात् क्तान्ताद् बहुव्रीहेः स्त्रियां ङीर्भवति । शङ्खौ भिन्ना- ३५
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org