________________
१९४
महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघुमृद्वी २ । लघ्वी २ । बही २ । साध्वी २ । तन्वी २ । खरुरिति-क्रूरा मूर्खा दर्पिष्ठा श्वेता वा स्त्री खरुरिति लघुन्यासे । गुणपरिभाषामाह-सत्वे० इत्यादि अनुष्टुप् । सत्त्वं द्रव्यं तत्रैव निविशते तदेवाश्रयति यः स गुण इति संबन्धः । द्रव्यादपेत्यपगच्छति यथाम्रान्नीलता पीततायामुपजातायाम् । पृथग्जातिषु भिन्नजातीयेषु दृश्यते यथा नीलताने दृष्टा तरुणतृणेषु दृश्यते । एतेन सर्वेण जातिर्गुणो न भवतीत्युक्तं ५भवति । आधेय उत्पाद्यो यथा कुसुमयोगाद्गन्धो वस्ने, यथा वाऽमिसंयोगाद् घटे रक्तता । अक्रियाजो नित्यस्तद्यथाकाशादिषु महत्त्वादिः । तदेवं गुणस्योत्पाद्यत्वानुत्पाद्यत्वप्रकारद्वयप्रदर्शनेनोत्पाद्यत्वैकप्रकारस्य कर्मणो व्यवच्छेदः । असत्त्वप्रकृतिः द्रव्यखभावरहितः । अनेन द्रव्यस्य व्यवच्छेदः ॥ १३ ॥
श्येतादिभ्यो वा डीस्तद्योगे तो नश्च ॥ १४॥ श्येनी श्येता । "नः पलितासितात" (२।४।३७) पलिनी । असिनी॥१४॥ १० श्येतादिभ्य इति-अत्र च श्येतैतहरितभरतरोहिताद्वर्णात्तो नश्च (२।४।३६) एभ्यः
पञ्चभ्यो वर्णवाचिभ्यः स्त्रियां जीर्वा स्यात्तत्संनियोगे तकारस्य नो भवति । श्येनी श्येता श्वेतवर्णा । एनी एता कर्बुरा शुभ्रा वा । हरिणी हरिता नीला । भरणी भरता पाटला धूसरा घृतवर्णा वा । रोहिणी रोहिता, लत्वे लोहिनी लोहिता रक्तवर्णा । चकारो नकारस्य जीसन्नियोगशिष्टतार्थः । “न." त इति
च इति चानुवर्त्तते । पलितासिताभ्यां स्त्रियां ङीर्वा भवति, तत्सन्नियोगे तकारस्य कादेशश्च । पलि१५ तानि सन्त्यस्याः अभ्रादित्वादः ज्या पलिक्नी, बालगर्भिणी गौः । न सिनोतिस्म “गत्याकर्मकपिबभुजेः" (५।१।११) असिनयन्तःपुरप्रेष्या ।। १४ ॥
असहनविद्यमानपूर्वपदावाङ्गादकोडादिभ्यः॥१५॥[२४३८] सदादिवर्ज पूर्वपदं यस्य ततः क्रोडादिवर्जाददन्तात्स्वाङ्गात् स्त्रियां ङीर्वा स्यात् । पीनस्तनी पीनस्तना । अतिकेशी अतिकेशा माला । सहादिवर्जनात् सहकेशा अकेशा विद्यमानकेशा । २० अक्रोडादिभ्यः इति किम् ? सुक्रोडा सुवाला । स्वाङ्गादिति किम् ? बहुशोफा, सुज्ञाना ।
___"अविकारोऽद्रवं मूर्त प्राणिस्थं खाङ्गमुच्यते।।
च्युतं च प्राणिनस्तत्तन्निभं च प्रतिमादिषु" ॥२॥१५॥ असह० । सहश्च न च विद्यमानश्च सहनविद्यमानाः, न सहनविद्यमाना असहनविद्यमानाः, ते पूर्वपदं यस्य तत्तथा तस्मात् । न क्रोडादयः अक्रोडादयस्तेभ्यः । पीनस्तनीत्यादि-पीनौ स्तनौ २५ यस्याः । केशानतिक्रान्ता अतिकेशी २ यूका । एवं खडी खडा वृश्चिकी, अडो नाम वृश्चिकाद्यवयवः ।
सुक्रोडेति-एवं कल्याणी क्रोडाऽस्याः कल्याणकोडा क्रोडशब्दः "क्रोडोऽङ्के तिन्दुकं फले” इति लिङ्गानुशासनवचनात् स्त्रीलीबलिङ्गम् । तथा कल्याणखुरा पीनगुदा एकशफा दीर्घवाला भव्यभाला सुगला सुभगा; कल्याणी उखा स्फिग् यस्याः सा कल्याणोखा, कल्याणगोखा । बहुवचनमाकृतिगणार्थं तेन किशलयकरा मृणालभुजेत्यादि । आदित्येव-परमशिखा । स्वाङ्गपरिभाषामाह-अविकार इत्यादि श्लोकः । अविकार इति ३० किम् ? बहुशोफा । अद्रवमिति किम् ? बहुकफा । मूर्त्तमिति किम् ? बहुज्ञाना । प्राणिस्थमिति किम् ? दीर्घमुखा शाला । च्युतं च प्राणिनस्तदिति किमर्थम् ? अप्राणिस्थादपि पूर्वोक्ताद्यथा स्यात्-बहुकेशी २ रथ्या । तन्निभं च प्रतिमादिष्वपि किमर्थम् ? प्राणिस्थसदृशादपि पूर्वोक्ताद्यथा स्यात्-पृथुमुखी पृथुमुखा
प्रतिमा । कथं कल्याणं पाणिपादमस्याः कल्याणपाणिपादेत्यत्र न भवति ? स्वाङ्गसमुदायो हि न स्वाङ्गम् । ३. बहुस्वरत्वेन वक्ष्यमाणनियमबलाद्वा न भवति इति । द्विपादी त्रिपादीत्यत्र तु"द्विगो समाहारात्"
१ उखाशब्दसान्निध्यात्त्रीवं ज्ञायते, गोरिव खमिन्द्रियं यस्याः सा गोखा । कल्याणा गोखा यस्या इति । अवयवविशेषो
जघनरूपः।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org