________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे स्त्रीप्रत्ययाः । ङीः
नवा शोणादेः ॥ ११ ॥ [ सि० २२४१३१ ]
शोणी शोणा ॥ ११ ॥
I
शोणादेर्गणात् स्त्रियां वा ङीर्भवति । शोणी शोणा, चण्डी चण्डा। शोण चण्ड अराल केमल कृपण विकट विशाल विशंकट भैरुज ध्वज कल्याण उदार पुराण बहु बहुः बह्वी, एवंनामा काचित् । गुणवचनात्तूत्तरेण भविष्यति । वृत्रहन् वृत्रघ्नी वृत्रहा । चन्द्रभागान्नद्याम् - चन्द्रभागी चन्द्रभागा नाम ५ नदी । अन्यत्र चन्द्रभागा नाम देवता । अनद्यामिति केचित् चन्द्रभागी चन्द्रभागा काचित् । नद्यां तु चन्द्रभागा । अण्णन्तान्नद्यामित्येके चान्द्रभागी चान्द्रभागा नाम नदी । अण्णन्तान्नित्यं प्राप्ते विकल्पः । अनद्यां तु नित्यं ङीः- चान्द्रभागी छाया । अन्ये तु अण्णन्तादेवार्थभेदेन विकल्पमिच्छन्ति । नद्यामाप्प्रत्ययोऽन्यत्र ङीप्रत्ययः । चान्द्रभागा नदी । चान्द्रभागी वनराजिः ॥ ११ ॥
इतोऽत्यर्थात् ॥ १२ ॥ [ सि० २४ ३२ ]
क्त्यर्थप्रत्ययान्तवर्जादिदन्तात्त्रियां ङीर्वा स्यात् । भूमी भूमिः । धूली धूलिः । राजी राजि: " पद्धतेर्वा" (२|४|३३) पद्धती पद्धतिः । " शक्तेः शस्त्रे " ( २|४|३४ ) शक्ती शक्तिः ॥ १२ ॥
१९३
इतो ० । रिवार्थो यस्य स तत्यर्थः, न त्यर्थः अक्तत्यर्थस्तस्मात् । भूमी इत्यादि - भवति सर्व
1
इति भूमिः 'भूभ्यां कित् मि:' ( उ०६९०) । 'धूग्ट् धुवने ' धूयते वातेन लिक्प्रत्यये धूलिः । एवं अङ्गुली २ | आली २ । धमनी २ । दर्बी २ । श्रोणी २ । राजी २ । आवली २ । यष्टी २ । शारी १५ २ । सरणी २ । अशनी २ । अरणी २ । शकृत्करी २ । आत्मंभरी २ । कपी २ । अही २ । तारी २ । मुनी २ । अती २ । अङ्कती २ । अंहती २ । शकटी २ । शस्त्री २ । रजनी २ । धरणी २ । रात्री २ । अक्यर्थादिति किम् ? कृतिः हतिः अजनंनिः अकरणिः ज्यानिः ग्लानिः हानिः । कथं साती २ ? तिगन्ताद्भविष्यति । अन्ये त्वञ्चति अङ्कति अंहति शकटि शस्त्रि शारि तारि अहि कपि मुनि रात्रि यष्टिभ्यः कटिश्रोणिप्रभृतिप्राण्यङ्गवाचिभ्यः क्तिवर्जितकृदन्तेभ्यश्चेकारान्तेभ्य इच्छन्ति, नान्येभ्यस्तन्मते सुगन्धिः, २० निःकोशाम्बिः, अणिः, शाणिरित्यादौ न भवति । क्तिंमात्रवर्जनाच अजननिरित्यादौ न प्रतिषेधः । पद्ध० शक्ते० सूत्रद्वयं स्पष्टम् । पादाभ्यां हन्यते हननं वा । "वादिभ्यः क्तिः” ( ५। ३ ।९२ ) " यमिरमि० " ( ४।२।५५ ) " नलोपः " " हिमहतिकाषि ये पद्” ( ३।२।९६ ) पदादेशः ॥ शक्ते० शक्यते हिंस्यते परोऽनयेति “श्रवादिभ्यः क्तिः” । क्त्यन्तानां निषेधे प्राप्ते विकल्पार्थं वचनम् ॥ १२ ॥
२५
स्वरादुतो गुणादखरोः ॥ १३ ॥ [ सि० २|४|३५ ]
स्वरात्परो य उत्तदन्ताद्गुणवचनात्खरुवर्जनात्स्त्रियां ङीर्वा स्यात् । पट्टी पटुः । विभ्वी विभुः । स्वरादिति किम् ? । पाण्डुर्भूः । गुणादिति किम् : आखुः स्त्री । उत इति किम् ? श्वेता पटी । अखरोरिति किम् ? । खरुरियम् ॥
"सवे निविशतेऽपैति पृथक् जातिषु दृश्यते ।
आधेयश्चाक्रियाजश्च सोऽसत्त्वप्रकृतिर्गुणः " ॥ १ ॥ १३ ॥
Jain Education International
१०
१ वक्रार्थोऽत्र । २ स्त्रियां लक्ष्मी । ३ ऋषिः; भरूजेति पाठान्तरे स्नेहभृष्टाः तन्दुलाः । ४ स्त्रियां कल्पपालभार्या दशचक्रा च । ५ अदूरभवेऽर्थे । ६ प्रभवेऽर्थे । ७ अग्निभार्या । ८ वायुब्रह्मामीनां भार्या । ९ न तु त्यर्थं वर्जनादित्यर्थः । है० प्रका० पूर्वा० २५
स्वरा० । स्वरादित्यादि-स्वरात्परो य उकारः सामर्थ्यादेकवर्णव्यवहितस्तदन्तादित्यर्थः । गुणवचनादिति-सामान्योक्तावपि केवलगुणवृत्तेः स्त्रीत्वायोगात्ततो द्रव्यवृत्तेः प्रत्ययः । पट्टी २ इत्यादि । एवं ३२
For Personal & Private Use Only
३०
www.jainelibrary.org