________________
१९२ महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघुअनोपयोगिसूत्रमाह
अस्य ड्यो लुक् ॥९॥ [सि० २।४।८६] स्पष्टम् । गौरी नदी । कचिद्यकारस्थापि मत्सी ॥९॥
अस्य० । सूत्रं स्पष्टम् । कचिदिति अत्र च "मत्स्यस्य यः” (२।४।८७) मत्स्यशब्दसंब५न्धिनो यकारस्य ड्यां लुग् भवति । मत्सी । कथं मत्स्यो नाम कश्चित् तस्यापत्यं स्त्रीति इ डी मात्सी। डीनिमित्तादेशस्यापि डीग्रहणेन ग्रहणात् । “व्यञ्जनात्तद्धितस्य" (२।४।८८) व्यञ्जनात्परस्य तद्धितस्य यकारस्य यां लुग् भवति । मनोरपत्यं स्त्री मनुषी गर्गस्यापत्यं पौत्रादि स्त्री गार्गी । सोमो देवताऽस्याः सौमी दिक् । उचितस्य भाव औचिती । चातुरी । “वृकात् टेण्यणि” (७३।६४ ) वार्केणी।
"समिध आधाने टेन्यणि" ( ६।३।१६२ ) सामिधेनी । व्यञ्जनादिति किम् ? कारिकाया अपत्यं कारि१० केयी, हारिकेयी । तद्धित्तस्येति किम् ? वैश्यस्य भार्या वैश्यी । ड्यामित्येव-आवट्या । “सूर्यागस्त्य
योरीये च” (२।४।८९) अनयोर्यकारस्य ङीप्रत्यये ईय प्रत्यये च लुम् भवति । सूर्यस्य भार्या मानुषी सूरी । सूर्यस्येयमित्यणि सौरी प्रभा । अगस्त्यस्येयमागस्ती सौर्यस्यायं । सौरीयः । एवमागस्तीयः । ईये चेति किम् ? सूर्यो देवताऽस्य सौर्यः । अगस्त्यस्यायमागस्त्यः । एतत्सर्वं लेशेनाह कचिदित्यादि-कचिदुक्तसूत्रानुसारेण ज्यां यकारस्यापि लुग् भवतीति भावः ॥ ९ ॥
वयस्यनन्त्ये ॥ १०॥ [सि० २।४।२१] अचरमे वयस्यदन्तात्त्रियां डीः स्यात् । कुमारी किशोरी वधूटी । अनन्त्य इति किम् ? वृद्धा । *कचिनानि डी। केवली । मामकी ॥१०॥
वय० । प्राणिनां कालकृता शरीरावस्था बाल्ययौवनादि वयः । अन्ते भवमन्त्यं न अन्त्यमनन्त्यं तस्मिन् । कुमारीत्यादि । एवं वर्करी कलभी तरुणी तलुनी वधूटी चिरण्टी । धवयोगाभावविशिष्टं वयः २० कुमारीशब्दप्रवृत्तिनिमित्तं न तु धवयोगाभावमात्रम् । वृद्धकुमारीति तु उपमानात् । अनन्त्य इति किम् ?
वृद्धा स्थविरा । आदित्येय-शिशुः । कथं द्विवर्षा त्रिवर्षा उत्तानशया लोहितपादकेति ? नैता वयः श्रुतयोऽर्थाऽत्तु वयो गम्यते । बालावत्सेत्यादयस्त्वजादौ । *कचिदित्यादि । "केवलमामकभागधेयपापापरसमानार्यकृतसुमङ्गलभेषजात्" (२।४।२९) । एभ्यः स्त्रियां ङीर्भवति, नाम्नि । केवली नाम ज्योतिः । मामकी । भागधेयी । पापी । अंपरी । समानी । आर्यकृती । सुमङ्गली । २५ भेषजी । नाम्नीति किम् ? केवला । मामकशब्दादबन्तत्वेनैव ङीः सिद्धो नाग्नि नियम्यते । तेन मामिका
बुद्धिरित्यसंज्ञायामञ्लक्षणोऽपि डीन भवति । वा युष्मदस्मदोरित्यत्र ममकादेशश्च । “भाजगोणनागस्थलकुण्डकालकुशकामुककटकयरात् पकावपनस्थूलाऽकृत्रिमामत्र कृष्णायसीरिरंसुश्रोणिकेशपाशे” (२।४।३० ) भाजादिभ्यो दशभ्यो यथासंख्यं पक्कादिष्वर्थेषु स्त्रियां डीभवति, नाम्नि । भोज्यत इति भाजी पका चेत्, भाजा अन्या । गोणी आवपनं चेत् गोणाऽन्या । ३० नागी स्थूला चेन्नागाऽन्या । जातौ तु नाग्येव । तस्याः स्थौल्याभावात् ॥ स्थली अकृत्रिमा चेत् स्थलाऽन्या।
कुण्डी अमत्रं चेत्, कुण्डाऽन्या । काली कृष्णा चेत्कालाऽन्या । कुशी आयसी चेत् कुशाऽन्या । कामुकी रिरंसुश्चेत्कामुकाऽन्या । कटी श्रोणी चेत्कटाऽन्या । कबरी केशपाशश्चेत् कबराऽन्या । जानपदशब्दादपि ३३ वृत्ताविच्छत्यन्यः, जानपदी वृत्तिः अन्यत्र जानपदा मदिरा । एतत्सर्वं कचिदित्यादिना लेशेनाह ३ ॥१०॥
१ तरुणादयस्तु तावन्त एव कौमारादुत्क्रम्य नवयौवनवचना इति । २ मातुली । ३ बलिः । ४ औषध्यौ । ५ छन्दः । ६ क्रियाविशेषः। ७ छन्द औषधिर्वा । ८ औषधी। ९भजणू विश्राणने भाज्यते विश्राण्यते दीयते। १० काष्ठमयी तदाकृतिर्वल्गावा।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org