________________
प्रक्रियावृत्तिरूपे श्रीहेमप्रकाशे स्त्रीप्रत्ययाः। डीः
१९१ कथं भौरिक्या भौलिक्या ? कौड्यादिपाठात्ष्योऽपि । आपश्चिको राष्ट्रसरूपः क्षत्रियस्तस्यापत्यं स्त्री आपश्चिकीत्यत्र शकादित्वाद् व्यलोपेऽपि जातिवाचित्वात् डीभवति । एवं 'दोटी वरट नोट मूलाट पाट मुंपाट पेट पट पटल पुट कुट फाण्टश धातक केतक तर्कर शर्कार बदर कुबल लवण बिल्व आमलक मालत वेतस अतस आढक कैदर कैदल गैडूच बाँकुच नीच माँच कुम्भ कुसुम्भ यूँष मेषे झूष भूष कैरीर सल्लक वल्लक मल्लक मालक मेथे पिपल हरीतक कोशातक शैम तम सैंषव शैङ्ग अङ्ग बर्बर पौण्ड५ लोहाँण्ड शैष्कण्ड पिण्ड मैण्डर मैंण्डल यूँप सूप सूर्प सूर्म मठ पिठेरै कुई गूई सूई खार कोकण द्रोण अरीहण ओर्केण स ऑसन्द अलन्द केन्दल सैलन्द देहे देहल शष्कुल शव सूच मञ्जर अलज गॅण्डूज वैजयन्त शॉलूक उपरतस सेच्छेदः एषां नित्यस्त्रीविषयत्वादप्राप्ते पाठः । क्रोष्टु सरस् अनयोरनकारान्तत्वादप्राप्ते पाठः । अनड्वाही अनडुही । अतएव पाठादनडुङ्शब्दस्य ड्यामुकारस्य पक्षे वाशब्दादेशः सौ नित्यं नागमाभावश्च । प्रत्यवरोहिणी पृथिवी आग्रहायणी । सप्रत्ययपाठः पुंवद्भावनिषे-१० धार्थः । अनड्वाहीभार्यः । अनडुहीवृन्दारकेत्यादि तद्धितलोपेऽपि लुगभावार्थश्च । पञ्चानवाहिः दशानडुहिः आश्मरथ्यः । गोत्रयअन्तत्वात् डायन् मा भूत् उयेव यथा स्यादित्यस्य पाठः । एहि पर्येहि । अनयोरिदन्तत्वात् विकल्पे प्राप्ते नित्यार्थः पाठः । बहुवचनमाकृतिगणार्थ, तेन नद मह भष प्लव चैर गरे तर गोह देव सूंद अराल उंदवड चण्ड उमाभङ्ग हरीकणी बैटर अधिकारी एषण करणे इति केचित् । इष्यते अन्विष्यते अनया दोष इति “इषोऽनिच्छायाम्” (५।३।११२) इत्यने सत्येषणी वैद्यशलाका, करणादन्यत्रैषणा। अन्वेषणा। आबेव, तदन्येन मन्यन्ते । मुख्यादिति किम् ? बहुनदा भूमिः ॥ ८॥ १६
१ दोटीति । दोटस्थापत्यं 'पुरमगध'-इत्यण 'द्ररमणोऽप्राच्य'-इति लुप् ॥ २ नाटी । ओषधिः । ३ मूलाटी ओषधिः ॥ ४ पाटेति गणितम् ॥ ५ सपाटेति छेदपाटी ॥ ६ पेटी समूहः ॥ ७ फाण्टशी ओषधिः ॥ ८ धातकी वृक्षविशेषः ॥ ९ तर्करी ओषधिः। १० शर्कारी वृक्ष वि० । ११ लवणी ओ० । १२ कदरीकदल्यो वृक्षो। १३ गुडूची ओ०। १४ बाकुची कूर्चेति साधुः । बावची। १५ नाचीमाच्यौ ओषध्यौ। १६ कुम्मी आधारः शाकविशेषश्च ॥ १७ कुसुम्भी ओ० । १८ यूषी
ओ० यवागूविशेषो वा । १९ मेषी ओ० । २० सूषी शाकवि०।२१ मूषी करीरी दन्तमूलम् । २२ वल्लकी वीणा । २३ मल्लकी विचिकिलः। २४ मालकी ओषधिः ग्रामान्तराटवी च । २५ मेथी वाली शकटन्यासे । २६ मुरलोरलेति पिष्पलः कोषातक इति केचित् । कोषं कोशं चातति णके। २७ शमी शिवा वृक्षश्च । २८ सुषवी शाकभेदः कृष्णजीरक कारवेल्लः कपिकच्छूश्च । सुसवीति पाठ इति केचित् । शोभनः सवोऽस्याः । २९ शृङ्गी विषं कारवेल्लश्च । ३० भृङ्गी ओ०।३१ बर्बरी ओ० कुश्चितकेशा च । ३२ पाण्डी ओ० । ३३ लोहाण्डेति लोहमिवाण्डं यस्या लोहाण्डी नाम शकुनिः ओषधिश्च । ३४ शकण्डी ओ० । ३५ मण्डरी ओ० । ३६ मण्डली ओ० समुदायश्च । ३७ यूपी सूपी सूपी ओषध्यः। ३८ सूर्मी लोहमयी प्रतिमा । ३९ पिठरी स्थाली । ४० कुर्दा विमानविशेषः । ४१ गूी क्रीडा। ४२ सूही ओ० । ४३ काकणेति काकान् नयतीति क्वचिड्डः । पृषोदरेति णत्वम् । ४४ द्रोणी जलक्षेपणी कुण्डिका । ४५ अरीहणी ओ० । ४६ ओकणी ओ. क्षदजन्तश्च । ४७ वृसी तालव्योपान्त्योऽपि । ४८ आजसम्पूर्वाद्ददातेरुपसर्गेति डे आसन्द । ४९ अलन्दी संनिपातहन्त्री ओषधिः । ५० कन्दली प्ररोहः । ५१ सलन्दी देही ओषध्यो । ५२ मजेः सौत्रात् मजरी । ५३ अलजी ओ०। ५४ गण्डाजायते इति पृषोदरेति गण्डूजी ओ० । ५५ विजयन्तस्येयं वैजयन्ती । ५६ शालूकी ओ०। ५७ उपरि तस्यतीति गणपाठादेरखम उपरतसी ओ०।५८ सच्छेदी ओ० । ५९ प्रत्यवरोहतीत्येवंशीला क्रियाशब्दः प्रत्यवरोहिणी । ६. ननु तथापि पृथिवीशब्दस्याग्रहायणीशब्दस्य च खतः स्त्रीत्वात् 'परतः स्त्री'-इति पुंवद्भावो न भविष्यति किमर्थमनयोस्तथा पाठः? उच्यते। न हि सप्रत्ययपाठस्य पुंवद्भाव एव प्रयोजनं किन्तु तद्धितलोपे लुगभावोऽपि । तत्र क्वचिदेकं यथासंभवमूहनीयम् ॥६१ अनड्वाहीभार्यः इति अनवाहीशब्दो व्यक्ती प्रवर्तितः जातिवाचिखे तु खाशाद् डी० (३।२।५६) इत्यनेन पुंवनिषेधः सिद्धः। ६२ चरी गूढपुरुषी । ६३ गरी भक्षिका । ६४ तरी तरित्री स्त्री । ६५ गाही अवगाहिका। ६६ सूदी सूपकारिणी । ६७ अराल इति पक्षिविशेषार्थोऽत्र द्रष्टव्यः । वक्रार्थस्तु शोणादी द्रष्टव्यः । ६८ उदवड इति । वड आग्रहणे सौत्रो धातुः । उदकं वडति इति उटवडा पानीयहारिणीवाचकः कृमिजातिविशेषो वा। ६९ चण्ड इति गौरीवाचकश्चण्डशब्दोऽत्र द्रष्टव्यः । कोपनावाचकस्तु शोणादौ द्रष्टव्यः । ७० उमाया भर इव भजो यस्याः । ७१ हरी ओषधीस्तस्या इव कणा यस्याः । हरयः सुवर्णवर्णाः कणा यस्या वा । ७२ वटरः क्षुद्रजन्तुः । ७३ अधिकारं कारयति या स्त्री। ७४ करण कारके इत्यर्थः । इषच गतौ ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org