________________
१९० महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलधुनान्तायाः संख्याया युष्मदस्मदोरिवालिङ्गत्वात् , अत एव नलोपेऽपि "आत्” (२।४।१) इत्याबपि न भवति । अखस्रादेरिति किम् ? स्वसा अतिवसा परमस्खसा दुहिता ननान्दा याता माता । तिस्रः चतस्रः-तिसृचतस्रादेशस्य विभक्त्यनन्तरनिमित्तत्वात् सन्निपातलक्षणत्वेन तद्विघातकत्वाभावादेव डीनिवृत्तौ सिद्धायां स्वस्रादिषु तयोः पाठः "सन्निपातलक्षणन्यायस्यानित्यत्वज्ञापनार्थस्तेनातिदध्या कन्ययेत्यादौ ५विभक्तिनिमित्तेऽनादेशे सति ङीः सिद्धो भवति । एवं यासेत्यादिष्वकारादेशे आबपि भवति ॥ ५ ॥
अधातूदृदितः॥६॥ [सि० २।४।२] अधातोरुदित ऋदितश्च स्त्रियां डीः स्यात् । भवन्ती । पचन्ती ॥ ६॥
अधातू० । उच्च ऋच्च उदृत् , उदृत् इत् यस्य स उदृदित् , न धातुः अधातुः, अधातुश्चासौ उहदिच्च अधातूदृदित, तस्मात् । अधातोरुदित इत्यादि-धातुवर्जितो य उदित् ऋदिच्च प्रत्ययोऽप्रत्ययो वा १० तदन्तानाम्नः स्त्रियां वर्तमानात् ङीप्रत्ययो भवति । उदित्-भातीति भवती भातेर्डवतुरिति । एवं गोमती यवमती प्रेयसी विदुषी । ऋदित्-पचन्ती दीव्यन्ती-अत्र शतृप्रत्ययः महती-मह्यते "द्रुहिवहिमहिपृषिभ्यः कतः" ( उ० ८८४) इति कतृप्रत्ययः; एषु प्रत्यय उदित्तदन्तं नाम ॥ अतिभवती अतिमहतीअत्र नामाव्युत्पत्तिपक्षे भवत् महत् उदृदित् तदन्तं समासनाम । भवती महतीति तु व्यपदेशिवद्भावेन तदन्तम् । निर्गोमती अतिपुंसीत्यत्र प्रत्ययस्योदित्त्वाद्गोमदादिशब्दोऽप्युदित् तेन तदन्तं समासनाम । १५ अधात्विति किम् ? सुकन् सुकंसौ, सुहिन सुहिंसौ स्त्रियौ, 'कसुकि गतिशातनयोः' 'हिसु तृहप् हिंसायाम्' सुष्टु कंस्ते सुष्टु हिनस्तीति किपि रूपम् ।। ६ ॥
अञ्चः॥७॥[सि० २।४।३] अश्चन्तात् स्त्रियां डी स्यात् । प्राची उदीची ॥७॥ ___ अश्वः । प्राची उदीचीति-प्राश्चति उदश्चतीति विप् "अञ्चोऽनोंयाम्” (४।२।४६) "अञ्च प्राग २० दीर्घश्च” (२।१।१०४ ) "उदच उदीच्” (२।१।१०३) इत्यादिसूत्रैः सिद्ध्यति । एवं प्रतीची अपाची ।
"अञ्चः" इति निर्देशात् अर्चायो नलोपाभावेऽपि डीसिद्धौ प्राची प्रत्यश्चीत्यादि सिद्ध्यति । अच इति निर्देशे तु "अच्च प्रागि"तिवल्लुप्तनकारस्यैव ङीः स्यादिति ॥ ७ ॥
गौरादिभ्यो मुख्यान् ङीः॥८॥[सि० २।४।१९ ] मुख्यागौरादिगणात् स्त्रियां डीः स्यात् ॥८॥ २५ गौरा० । मुख्यादित्यधिकारोऽयम् । गौरादयश्चैवम्-गौर: शबल कल्माष सारङ्ग पिशङ्ग हरिण पाण्डुर
अमर सुन्दर विकल विष्कल पुष्कल निष्कल । गौरादीनां गुणवचनत्वेनाजातिवचनादप्राप्ते पाठः । यस्त विकलेति कालविशेषवाची आबन्तः स विगता कलेति भविष्यति । दास चेट विट भिक्षुक बन्धक पुत्र गायत्र आनन्द टेट कटेट नट एषामजातिवचनत्वादप्राप्ते पाठः । काव्य शैव्य मत्स्य मनुष्य कय हय गवय ऋश्य ह्रण ओकण । एषां जातिवाचित्वेऽप्यष्टानां यान्तत्वात् द्रुणौकणयोर्नित्य
स्त्रीविषयत्वादप्राप्ते पाठः । भौरिकि भौलिकि भौलिङ्गि औद्राहमाति आलच्चि कालच्चि सौधर्म आयस्थूण ३१ आरद; भौरिकि भौलिक्योः क्रौड्यादित्वात् शेषाणां त्वणिजन्तानां गुरूपान्त्यत्वात् ध्ये प्राप्ते पाठः ।
ते त्रयोऽपि नर्तकाः । २ वेसरः । ३ कच्छपी। ४ श्रीकरणादिव्यापारानन्तरं गुह्यादौ पर्यन्तबन्धनस्य किलाख्या। ५ऋषिः।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org