________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे स्त्रीप्रत्ययाः । आप्परे कार्याणि १८९ यावयवे ककारे आप्परे परे परत इकारादेशो वा भवति । द्विके द्वके, एषिका एषका । केवलयोरेवानयोविकल्पेनेकारः । यदा तु न द्वे न एषा न द्वके न एषका इत्यादि विग्रहे कृते विभक्तेलृपि सत्यां पुनः समासाद्विभक्तौ तामाश्रित्य त्यदाद्यत्वं तत आप् स च स्थानिवद्भावेन विग्रहकालभाविन्या विभक्तेः परो न तु कात् , तदा अनेषका अद्वके इत्यत्रेकारो न भवति । अस्विकेत्यादौ तु न विभक्तेः पर आप् , किन्तु कादेव-सूतिका सूतका, पुत्रिका २ । वृन्दारिका २ । द्विशब्दसाहचर्यादेषेति सर्वादेः कृतविका-५ रस्यैतदो निर्देशस्तेनेषेर्णकादिप्रत्ययान्तस्याविकृतस्यैतच्छब्दस्य च न भवति । इच्छतीति एषिका । एता एव एतिकाः । तथा “वो वर्तिका" (२।४।११०) वौ शकुनावभिधेये वर्तिकेतीत्वं वा निपात्यते । वर्त्तत इति णके वर्तिका वर्तका शकुनिः । प्राविति किम् ? वर्तिका भौगुरिः । लोकायतस्य व्याख्यात्रीत्यर्थः । तथा "नवापः" (२।४।१०६) आपः कचि परे ह्रखो वा भवति । प्रियखटकः प्रियखट्वाकः, बहुमालकः बहुमालाकः । “न कचि" (२।४।१०५) ज्यादीदूतः कचि प्रत्यये परे ह्रस्वो न १० भवति । बहुकुमारीकः वहुकीलालपाकः बहुलक्ष्मीकः बहुब्रह्मबन्धूकः । खार्या क्रीतं खारीकम् , एवं काकणीकम् “खारीकाकणीभ्यः कच्” (६।४।१४) इति कच् । पूर्वसूत्रे क इति निरनुबन्धे कचि प्राप्तिरेव नास्तीत्याह न कचीति-न कचीति प्रतिषेधः पूर्वसूत्रे 'निरनुबन्धग्रहणे न सानुबन्धस्य' इति न्यायस्याभावज्ञापनार्थः । तेन निषादका जातो नैषादकर्षुकः, एवं शाबरजम्बुक इत्यादाविकणि ह्रस्वः सिद्धः । अनेन निषेधे प्राप्ते "नवापः” इति विकल्पसूत्रम् । एतत्सर्व "कचिदि"त्यादिना संक्षेपेण १५ सङ्गृहीतं शेयम् । किञ्च नरिका मामिका (२।४।११२) नरकशब्दस्य मामकशब्दस्य चाप्रत्ययावयवे ककारे आप्परे परतोऽकारस्य इत्वं निपात्यते । नरान् कायतीति नरिका "आतो डोऽहावामः" (५।११७६) इति डः । ममेयं मामिका अनि ममकादेशः "केवलमामक०” (२।४।२९) इत्यादिना संज्ञायां डीप्रत्ययस्य नियमादाप् । ककारस्याप्रत्ययसंबन्धित्वात् पूर्वेणाप्राप्ते वचनम् ॥ ३ ॥
कचिन्नेत्वम् ॥ ४॥ तारका ज्योतिः ॥४॥
तारकेति । तत्र सूत्रम् “तारकावर्णकाष्टका ज्योतिस्तान्तवपितृदेवत्ये" (२।४।११३) तारकादयः शब्दा यथासंख्यं ज्योतिरादिष्वर्थेविकारादेशरहिता निपात्यन्ते ॥ तरतर्णके तारकाज्योतिस्तच्च नक्षत्रं कनीनिका च । नक्षत्रमेवेत्यन्ये । अन्यत्र तारिका ॥ वर्णयतीति णके वर्णका । तान्तवः प्रावरणविशेषः, अन्यत्र वर्णिका, भागुरी लोकायतस्य व्याख्यात्री ।। अश्नोतेरौणादिके तककि अष्टका पितृदेवत्यं २५ कर्म, अन्यत्राष्टौ द्रोणाः परिमाणमस्या इति के अष्टिका खारी । पितृदेवतार्थ कर्मेति "देवतान्तात्तदर्थे" (७।१।२२) इति ये पितृदेवत्यमिति सिद्धम् । एतदपि सर्व संक्षेपेणाह कचिन्नेत्वमित्यादि ॥ ४ ॥
स्त्रियां नृतोऽस्वस्रादेडीः ॥ ५॥ [ सि० २।४।१] स्वस्रादिवर्जानान्तादृदन्ताच स्त्रियां की: स्यात् । राज्ञी । कीं ॥५॥
स्त्री ङि-७-१ । न च ऋच्च नृत् , तस्मात् नृतः ५-१ । स्वसा आदिर्यस्य स स्वस्रादिः, न स्वस्रादिः३० अस्वस्रादिः, तस्मात् अस्वस्रादि ५-१ । ङी १-१ राज्ञीति-स्त्रीप्रत्ययप्रकरणे तदन्तविधेापितत्वात् अतिराज्ञी-पूजितो राजा अतिराजा, स्त्री चेत् अतिराज्ञी, "पूजास्वतः०” (७।३।७२) इति समासान्तनिषेधः । एवमतितक्ष्णी अतिदण्डिनी अतिच्छत्रिणी अतिकी - स्त्रियामिति किम् ? पञ्च सप्त नद्यः, ३३
१ वर्त्तयतीतिणके 'अस्यायत्तत्' इति इकारः। भागुरिर आचार्यः बाहुलकात्स्त्रीलिङ्गः । २ लोके आयतं लोकायतं नास्तिकशास्त्रम् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org