________________
१८८
महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघुधारका उपत्यका अधित्यकेत्यादि । बहुवचनमाकृतिगणार्थम् । अत्र च "इच्चापुंसोऽनित्क्याप्परे" (२।४।१०७) आबेव परो यस्मान्न विभक्तिः स आप्परः । अपुंल्लिङ्गार्थाच्छब्दाद्विहितस्यापः स्थाने इकारो ह्रस्वश्च वा भवतः । अनितो अनकारानुबन्धस्य प्रत्ययस्यावयवभूते कि ककारे आप्परे परतः । अल्पा खट्वा खट्विका, खट्सका खट्वाका । एवं परमखट्विका ३, प्रियखट्विका ३ । चकारो ह्रस्वानुकर्षणार्थः, ५तेनोभयविकल्पे त्रैरूप्यं सिद्धम् । अपुंस इति किम् ? सर्विका । न विद्यते खट्वा अस्या इति "गोश्चान्ते." (२।४।९५) इत्यादिना ह्रस्वत्वे स्त्रीपुंससाधारणात्पुनरापि अखट्वा, सैवाल्पा अखट्विका । तथा खट्वामतिक्रान्ता अतिखट्वा, सैवाल्पा अतिखट्विका । अत्रापुंस्काद्विहित आप न भवतीति न त्रैरूप्यम् । यादीदूतः के (२।४।१०४) इत्यनेन तु ह्रखे कृते अस्य यत्तदेत्यादिनेत्वमेव भवति । कश्चिचित्त्वपुंस्काद्विहित आबस्तीति भवत्येव त्रैरूप्यमित्याह-न विद्यते खट्वा यस्याः सा अखविका अखट्वका अखट्वाका । १० अनिदिति किम् ? अनुकम्पिता दुर्गादेवीति कग्नि दुर्गका "डयादीदूतः के" इत्यनेन ह्रस्व एव भवति । कीति किम् ? खट्वाता मालाता । आप्पर इति किम् ? प्रियखट्वाकः पुरुषः । आबेव परो यस्मादिति बहुव्रीहिः किम् ? प्रियखट्वाकमतिक्रान्ता अतिप्रियखट्वाका-अत्र हि प्रथम द्वितीया परा पश्चादाबिति । आप इत्येव, मातृका ॥ २ ॥ एतत्सर्वं सोपेणाह
क्वचिद्वा ॥३॥ १५ अनिकि परे क्वचिदापः स्थाने इहवौ वा । खट्विका, खट्वाका खट्नका ॥३॥
कचिदापः स्थाने इ ह्रखौ वेति । एवं कचिदापः स्थाने केवलं इकारो भवति, कचित्केवलं हस्खो वेत्यपि सङ्केपार्थः । यथा "खज्ञाजभस्त्राधातुत्ययकात्” (२।४।१०८) स्वज्ञाजभस्त्रेभ्योऽधातोरत्यप्रत्ययस्य च यावयवौ यकारककारौ ताभ्यां च परस्यापः स्थाने अनित्प्रत्ययावयवे ककारे आप्परे परतः इकारो वा भवति । कुत्सिता स्वा ज्ञातिः स्विका स्वका । अस्विका अस्वका । निःस्विका निःस्वका । २० बहुस्विका बहुस्खका । ज्ञातिधनाख्यायामसर्वादित्वादकभावे कप्रत्ययान्तः स्वशब्दः । ज्ञिका ज्ञका,
अज्ञिका अज्ञका, निर्शिका निर्धाका, बहुज्ञिका बहुज्ञका, अजिका अजका, अनजिका अनजका, निरजिका निरजका, बहजिका बह्वजका । भखग्रहणं स्त्रीपुंससाधारणवृत्तेहणार्थम् । अविद्यमाना भस्त्रा यस्याः सा अभत्रा, सैवाल्पा अभस्त्रिका अभत्रका । एवं निर्भस्त्रिका २, बहुभस्त्रिका २, अतिभस्त्रिका
२। अत्र हि गौणस्य ह्रस्वत्वे समासात् स्त्रीपुंससाधारणादाबिति पूर्वेण न सिद्ध्यति । यदा त्वपुंस्का२५ दाबू विधीयते तदा पूर्वेण त्रैरूप्यमेव-भस्त्रिका भत्रका भस्त्राका । न भस्त्रा अभस्रा साल्पा चेत् अभत्रिका ३ । एवं परमभस्त्रिका ३ । यकार. इभ्यिका इभ्यका, क्षत्रियिका क्षत्रियका, आर्यिका आर्यका । ककार-चटकिका चटकका, मूषकिका मूषकका, एलकिका एलकका । धातुत्यवर्जनं किम् ? सुनयिका सुशयिका अशोकिका सुपाकिका दाक्षिणायिका पाश्वात्यिका इहत्यिका अमात्यिका । आप इत्येव-कुत्सिता
स्वा आत्मा आत्मीया वा सर्वादित्वादकि स्वका; अत एव "हंसं तनौ सन्निहितं चरन्तं मुनेर्मनोवृत्तिरि ३० व स्विकायाम्” इति नैषधीये प्रयोगः प्रामादिकः । सांकाश्ये भवा योपान्त्यलक्षणेऽकबि सांकाश्यिका ।
एवं काम्पील्यिका । हृदिकं भजति हार्दिकिका । अत्र "गोत्रक्षत्रियेभ्योऽकम् प्रायः" (६।३।२०६) इत्यकञ् । एवं श्वाफल्किका । सर्वत्रोत्तरेण नित्यमिकारः। कथं बह्नपत्यिका बलपत्यका ? नात्र त्याप्रत्ययः ।
"प्रत्ययाप्रत्ययोश्च प्रत्ययस्यैव ग्रहणम्"। अथ शुष्किकेत्यत्र कथं न विकल्पः ? क्तादेशस्य कस्यासिद्धत्वात् । एवं ३४"येषसूतपुत्रवृन्दारकस्य” (२।४।१०९) आप इति निवृत्तं पृथग्योगात् । एषामन्तस्यानित्प्रत्य
१ एतन्नामा काचित् । २ श्वानं फालयति वफल्कः अन्धकविशेषः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org