________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे स्त्रीप्रत्ययाः । आप्परे कार्याणि
थ स्त्री प्र त्य याः
अ
अथ लिङ्गविशेषज्ञानाय स्त्रीप्रत्ययाः प्रस्तूयन्ते ।
अथेति । अलिङ्गानामसङ्ख्यानां चाव्ययानां निरूपणादनु लिङ्गविशेषज्ञापनमुचितमिति तदर्थं यत्येते इति भावः ।
1
अजादेः ॥ १ ॥ [ सि० २|४|१६ ]
एभ्यः स्त्रियामाप् स्यात् । अजा एडको कोकिला बाला शूद्रा ज्येष्ठा ॥ १ ॥
१८७
अजा० । एभ्य इति अजादिभ्य, आवृत्त्या अजादीनामेव स्त्रियां वर्त्तमानेभ्य आप् प्रत्ययो भवति । बाधकबाधनार्थमनकारार्थं च वचनम् । अजा एडका अश्वा चटका मूषिका कोकिला; एभ्यो जाति - क्षणस्य ङीप्रत्ययस्यापवाद आप् । बाला होडा पाका वत्सा मैन्दा विलाता कन्या मध्या मुग्धा । विलातेत्यन्ये न पठन्ति तेन विलातीत्यपि, एभ्यो वयोलक्षणस्य । कनिष्ठा ज्येष्टा मध्यमा; एभ्यो धवयोगल - १० क्षणस्य च । पूर्वापहाणा अपरापहाणा, निपाताण्णत्वम्, संप्रहाणा, परप्रहाणेत्यप्यन्ये; एषु टिल्लक्षणस्य । aण फलानि समाहृतानि त्रिफला - अत्र द्विगुलक्षणस्य । कुचा उष्णिहा देवविशा; एषु व्यञ्जनान्तत्वात् "आत्" (२|४|१८ ) इत्यनेनाप्राप्तेरजादिपाठः, कश्चिदेतेभ्यो विकल्पेनेच्छति, तन्मते क्रुङ् देवविद् उष्णिक् । अन्ये तु क्रुञ्चानालभेत, उष्णिहककुभौ देवविशश्च इति प्रयोगदर्शनात् अकारान्ता एवैत इति मन्यन्ते । “अजादेः” इत्यावृत्त्या षष्ठीसंबन्धः किम् ? अजादिसंबन्धिन्यामेव स्त्रियामभिधेयायां १५ यथास्यात्तेनेह न भवति - 'पञ्चानामजानां समाहारः पञ्चाजी, दशाजी; अत्र हि समाहारः समासार्थः स्त्री । नासावजसंबन्धिनी । अत एव ज्ञापकादत्र स्त्रीप्रकरणे तदन्तादपि विधिर्भवति । तेन महाँश्चासावजश्वेति सामान्येन विग्रहे स्त्रीविवक्षायां महाजा परमाजेति सिद्धम् । एवमतिभवती अतिमहती अतिधीवरीं अतिपीवरी परमशुद्रेत्यादि ॥ १ ॥ अथाबन्तस्य रूपविशेषमाह
I
Jain Education International
अस्यायत्तत्क्षिपकादीनाम् ॥ २ ॥ सि० २|४|१११ ]
२०
आबेव परो यस्मात्तस्मिन्ननित्क्याप्परे यदादिवर्जस्यात इत्स्यात् । पाचिका कारिका मद्रिका | यदादिवर्जनाद्यकासकाक्षिपकेत्यादौ नेत्वम् ॥ २ ॥
अस्या० । अनित्क्याप्पर इति अनित्प्रत्ययावयवे ककारे आपपरे इत्यर्थः । अस्येति किम् ? गोका नौका । अनित्कीत्येव - जीवका नन्दका । "आशिष्यकन्” ( ५।१।७० ) आशिषि गम्यायां धातोरकन् स्यात् । जीवतान्नन्दतादित्याशास्यमानाज्जीवका नन्दका अत्र नित्यान्नेत्वम् । अनित इति २५ पर्युदासेन प्रत्ययग्रहणादिह न भवति - शक्नोतीति शका । तका । आप्पर इत्येव - कारकः हारकः । आ यस्मादिति नियमः किम् ? बहुपरिव्राजका मथुरा, बहुमद्रका सेना; विभक्त्यन्तादयमाविति प्रतिषेधः । यदादिवर्जनादित्यादि - अत्र क्षिपकादयः । एवं क्षिपका ध्रुवका ध्रुवका लहका चरका चटका इष्टका ऍडका ऐरका का अवका अलका दैण्डका पिष्पका कन्यका मेनका द्वारका रेवका सेवका २९
93
१ मन्दाविलाते मध्यमवयसौ स्त्रियौ । २ नामग्रहणेन तदन्तस्येति न्यायादजायन्तादापः प्राप्तिरेव नास्ति किमावृत्तिव्याख्यानेनेत्याह- अत एवेत्यादि । ३ अथवा प्रत्ययपरिग्रहे नरिका मामिकेति ज्ञापकौ । ४ आयुधविशेषः । ५ आवपनविशेषौ । ६ सविलासा स्त्री । ७ ऋषिः । ८ अजाविशेषः । ९ तृणम् । १० घनोपलः त्रिलिङ्गः | ११ शेवालः । १२ नगर्यौ । १३ अश्वत्थस्य फलम् । १४ गौरीमाता अप्सराश्च । १५ नगरी ।
For Personal & Private Use Only
www.jainelibrary.org