________________
१८६
महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहै मलघु
I
चोच्यते । तथा "खाम्येऽधिः " ( ३|१|१३ ) अधीत्येतदव्ययं स्वामित्वे गम्यमाने कृगो धातोः संबन्धि गतिसंज्ञं वा स्यात् । चैत्रं ग्रामेऽधिकृत्य अधिकृत्वा वा गतः, स्वामिनं कृत्वेत्यर्थः । स्वाम्य इति किम् ? प्राममधिकृत्य उद्दिश्येत्यर्थः । साक्षात्कृत्येति - “साक्षादादिच्यर्थे” (३|१|१४ ) साक्षादादयः शब्दाश्रव्यर्थे वर्त्तमानाः कृगो धातोः संबन्धिनो गतिसंज्ञा वा स्युः । साक्षात्कृत्य साक्षा५ त्कृत्वा, असाक्षाद्भूतं साक्षाद्भूतं कृत्वेत्यर्थः । एवं मिथ्याकृत्य २ । यदा साक्षाद्भूतमेव किञ्चित्करोति तदा साक्षात्कृत्वेत्येव भवति । व्यर्थे इति वचनात् च्व्यन्तानां ऊर्यादिसूत्रेण नित्यमेव गतिसंज्ञा - लवणीकृत्य उष्णीकृत्य । साक्षात् मिथ्या चिन्ता भद्रा रोचना लोचना अमा आस्था अग्धा प्राजर्यां प्राजुरा प्राजरुहा बीज बीजरुहा संसर्पा अर्थे अग्नौ वशे वत्से विकपने प्रकपने विसहने प्रतपने । अर्थे प्रभृतयोऽष्ट सप्तम्येकवचनप्रतिरूपकाः स्वभावान्निपातनाद्वा । अत्र साक्षात् सादृश्यप्रत्यक्षयोः । मिथ्या अलीके । चिन्ता १० मनोव्यापारे । भद्राद्रयस्त्रयः प्रशंसायाम् । अमा सहार्थे । आस्था प्रतिज्ञादरयोः । अग्धादयः षट् शोभार्थे । बीज बीजरुति बीजप्रसवनेऽपि । संसर्पा प्रयोजनसंवरणयोः । अग्नौ तैक्ष्णये । वशे वत्से अस्वाये | विकपने प्रकपने, उभौ वैरूप्ये, विकपने हिंसायाम्, प्रकपने इत्यन्ये । विसहने प्रसहने, उत्साहे सामर्थ्ये च । निपाताद्वेति-आकारान्तां ध्वनीनां नितिपातनादाकारान्तत्वं न तु आवन्तत्वम् । लवणम् उष्णम् शीतम् उदकम् आर्द्रम् । लवणादयः पञ्च क्रमेण रुच्यर्थे १ अभिभवे २ अनादरे ३ क्केद द्रवयोः ४ सोदका१५ भिनवयोः ५ । एषां चैतत्सूत्रविहितगतिसंज्ञासन्नियोगे एव मान्तत्वं निपात्यते । प्रादुस् आविस् नमस् इत्यादि इति साक्षादादिरेकत्रिंशकः । नित्यं हस्ते इत्यादि - हस्ते पाणावित्येतौ सप्तम्येकवचनान्तप्रतिरूपकाव्ययौ । सप्तम्यन्तावनव्ययावित्येके । तावुद्वादे दारकर्मण्यर्थे गम्यमाने कृगो धातोः संबन्धिनौ नित्यं गतिसंज्ञौ भवतः । हस्तेकृत्य पाणौकृत्येति - भार्यां कृत्वेत्यर्थः । उद्वाह इति किम् ? हस्ते कृत्वा कार्षापणं गतः । इत्यादय इति आदिशब्दात् "प्राध्वं बन्धे" ( ३।१।२६ ) बन्धहेतुके आनुकूल्ये २० वर्त्तमानं प्राध्वमित्येतन्मान्तमव्ययं कृगो धातोः संबंधि गतिसंज्ञं स्यात् । प्राध्वंकृत्य, बन्धनेनानुकूल्यं कृत्वेत्यर्थः । बन्धे इति किम् ? प्राध्वं कृत्वा शकटं गतः । " जीविकोपनिषदौपम्ये" ( ३।१।१७ ) जीविकोपनिषच्छब्दावौपम्ये गम्यमाने कृगो धातोः संबन्धिनौ गतिसंज्ञौ भवतः । जीविकाकृत्य उपनिषत्कृत्य - जीविकामिव उपनिषदमिव कृत्वेत्यर्थः । औपम्य इति किम् ? जीविकां कृत्वा उपनिषदं कृत्वा गतः । यथायोगमिति—योगाः सूत्राणि यथोक्तसूत्रानुसारेणेत्यर्थः । अथाव्ययाधिकारमुपसंहरतिइत्यपरिमिता अव्ययाः
इत्यपरिमिता अव्यया इति इत्युक्तप्रकारेण अपरिमिता इति । " इयन्त इति संख्यानं निपातानां न विद्यते ।
प्रयोजनवशादेते निपात्यन्ते पदे पदे ।। १ ।।
२५
अव्यया इति अव्ययशब्दस्य नपुंसकलिङ्गत्वं “शलयंकुलयाव्यय कंवियवदि” पुं० न० २४ । ३० इति लिङ्गानुशासनवचनात् ।
अव्ययस्य ॥ ६० ॥ [ सि० ३।२७ ]
अव्ययानां स्यादेर्लुप् स्यात् । स्वः प्रातरस्ति पश्य कृतमिति ॥ ६० ॥
इति श्रीमहोपाध्यायश्रीकीर्ति विजयगणिशिष्योपाध्याय श्रीविनयविजयग णिविरचितायां हैमलघु प्रक्रियायां अव्ययानि समाप्तानि । स्वः अस्तीति स्वर्गोऽस्ति, स्वः पश्येति स्वर्गं पश्य, स्वः कृतमिति स्वर्गेण कृतमित्यर्थः । एवं सर्वेषा३५ मव्ययानां सर्वविभक्तिलोपात्तुल्यरूपता ज्ञेयेति ॥ ६० ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org