________________
५
३०
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे अव्ययानि । गतिसंज्ञा मध्ये हिंसित्वा शत्रून् गत इत्यर्थः, अन्तःशब्दो मध्ये अधिकरणभूते वर्त्तते परिग्रहे च, तत्र परिग्रहे प्रतिषेधादितरत्र गतिसंज्ञेति । स्वयं परामर्शोऽनुपदेशो विशेषानाख्यानं वा । अदःकृत्य एतत्करिष्यतीति चिन्तयति, विशेषानाख्याने चिन्तयतीत्यस्य स्थाने कथयतीति प्रयोगः । अग्रहानुपदेश इति किम् ? अन्तर्हत्वा मूषिकां श्येनो गतः, परिगृह्य गत इत्यर्थः । अदः कृत्वा गत इति परस्य कथयति । अद:शब्दस्त्यदादौ । अव्ययमिति केचित् इत्यादि । __ एवं "भूषादरक्षेपेऽलंसदसत्” (३।१।४) गतिसंज्ञम् । अलंकृत्य । सत्कृत्य । असत्कृत्य । "कणे मनस्तृप्तौ" (३।१।६) कणेहत्य । मनोहत्य । “तिरोऽन्तधौ” (३।११९) तिरोभूय । "कृगो नवा" (३।१।१०) तिरस्कृत्यं तिरस्कृत्वा । मध्येकृत्य २ । साक्षात्कृत्य २। "नित्यं हस्ते पाणावुद्वाहे" (३।१।१५) हस्तेकृत्य पाणौ कृत्येत्यादयो यथायोगं गतिसंज्ञा ज्ञेयाः।
एवं भूषादरक्षेपे इत्यादि । एवमिति सङ्केपसूचनम्-भूषा मण्डनम् अलंकृत्य अलंकृतम् । प्रीत्या संभ्रम आदरः-सत्कृत्य सत्कृतम् , क्षेपोऽनादरः-असत्कृत्य असत्कृतम् । भूषादिष्विति किम् ? अलं कृत्वा माकारीत्यर्थः, सत्कृत्वा विद्यमानं कृत्वा, असत्कृत्वा अविद्यमानं कृत्वेत्यर्थः ॥ कणे मन इत्यादि । एते अव्यये धातोः संबन्धनी गतिसंज्ञे भवतः । तृप्ताविति-तृप्तिः श्रद्धोच्छेदः, कणेहत्य मनोहत्य पयः पिबति, तावत् पिबति यावत् तृप्त इत्यर्थः । तृप्ताविति किम् ? कणे तन्दुलावयवे हत्वा गतः । मनो हत्वा१५ गतः, चेतो हत्वेत्यर्थः ॥ एवमिति निर्देशात्-"पुरोऽस्तमव्ययम्" (३।११७) पुरस् अस्तम् इत्येते अव्यये गतिसंज्ञे भवतः । पूर्वपयोयः पुरःशब्दः । अनुपलब्धार्थोऽस्तंशब्दः । पुरस्कृत्य गतः, पुरस्कृतम् । अस्तंगत्य पुनरुदेति सविता । अस्तंगतानि दुःखानि ॥ “गत्यर्थवदोऽच्छः ” (३।११८) अच्छे . त्यव्ययमभिशब्दार्थे दृढार्थे च वर्त्तते । तद् गत्यर्थानां वदश्च धातोः संबन्धि गतिसंज्ञं भवति । अच्छगत्य अच्छव्रज्य अच्छोद्य । गत्यर्थवद इति किम् ? अच्छकृत्वा गतः। अव्ययमित्येव-उदकमच्छं गत्वा २० स्थितः । “तिरो." तिरःशब्दोऽन्तौ व्यवधाने वर्तमानो धातोः संबन्धी गतिसंज्ञो भवति । तिरोभूय तिरोधाय । अन्तर्द्धाविति किम् ? तिरो भूत्वा स्थितस्तिर्यग् भूत्वेत्यर्थः ॥ "कृगो" तिरस् इत्यव्ययमन्तौं वर्तमानं कृगो धातोः संबन्धि गतिसंज्ञं वा भवति । तिरस्कृत्य तिरःकृत्य, तिरस्करोति तिरःकरोति इति, गतिसंज्ञायां "तिरसो वा” (२।३।२) इति वा सत्वम् , पक्षे गतिसंज्ञाभावे तिरःकृत्वा । अन्त वित्येव-तिरःकृत्वा काष्ठं गतः । तिर्यगित्यर्थः ॥ मध्येकृत्येति "मध्येपदेनिवचने-२५ मनस्युरस्यनत्याधाने" (३।१।११) एतानि पञ्च सप्तम्येकवचनान्तप्रतिरूपकाण्यव्ययान्यनत्याधानेऽर्थे वर्तमानानि कृगो धातोः संबन्धीनि वा गतिसंज्ञानि स्युः । अत्याधानमुपश्लेषः आश्चर्य च, ततोऽन्यदनत्याधानम्-मध्येकृत्य धनं धिनोति जलधिः । द्विकेनाङ्केन वैकल्पिकं द्वितीयं रूपं ज्ञेयम्-मध्येकृत्वेति । पदेकृत्य पदेकृत्वा । निवचनेकृत्य निवचनेकृत्वेति-निवचने वचनाभावः, वाचं नित्यम्येत्यर्थः । मनसिकृत्य मनसिकृत्वा, उरसिकृत्य उरसिकृत्वेति-उभयत्र निश्चित्येत्यर्थः । अनत्याधान इति किम् ?३० मध्ये कृत्वा धान्यराशिं स्थिता हस्तिनः । पदेकृत्वा शिरः शेते । मनसि कृत्वा सुखं शेते, उरसि कृत्वा पाणिं शेते । अव्ययमित्येव-मध्ये कृत्वा वाचं तिष्ठति । एवं "उपाजेऽन्वाजे" (३।१।१२) एते अव्यये सप्तम्येकवचनान्तप्रतिरूपके स्वभावदुर्बलस्य भग्नस्य वा वलाधाने वर्तमाने कृगो धातोः संबन्धिनी गतिसंज्ञे वा भवतः । उपाजेकृत्य उपाजेकृत्वा । अन्वाजेकृत्य अन्वाजेकृत्वा । स्वभावदुर्बलस्य भग्नस्य वा बलाधानं कृत्वेत्यर्थः । शकटस्य धुरोऽक्षस्य वा भग्नस्य यत्काष्ठमुपधीयते तदुपाजेऽन्वाजे इति ३५
है. प्रका० पूर्वा० २४
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org