________________
१८४ महामहोपाध्यायत्रीविनयविजयगणिविरचिते खोपज्ञहेमलधुअतिक्रान्तोऽन्यान रथान अतिरथः, अतिरि कुलम् ४ समृद्धौ समृद्धो देशोऽतिदेशः५ भूताभावे अतीतमेचं नभः ६ अवशाने अतिच्छिनत्ति, अतिहीनम् ७ हीनार्थे हीनम् वाहयति अतिवाहयति ८ ॥ १९ ॥
अभि आभिमुख्यसन्निकृष्टवशीकरणोर्ध्वकर्मपूजाकुलसान्त्वव्याप्तीच्छादोषोल्बणरूपवचनलक्ष्यवीप्सानवप्रणयेषु १६ । आभिमुख्ये अभितः १ सन्निकृष्टे अभ्यासम् २ वशीकरणे अभिचरति मन्त्रैर्माणवकः ५कन्याम् ३ ऊर्ध्वकर्मणि अभिरोहति वृक्षम् ४ पूजायाम् अभिवादयते ५ कुले अभिजातो माणवकः ६ सान्त्वे अभिमन्यते कन्याम् ७ व्याप्तौ अभिकीर्ण पांशुभिः ८ इच्छायामभिलषति मैथुनम् ९ दोषोल्बणे अभिष्यन्दः १० रूपे अभिरूपो माणवकः ११ वचने अभिधेयः साधुः १२ लक्ष्ये अभिविध्यति १३ वीप्सायाम् वृक्षं वृक्षमभिसिञ्चति १४ नवे अभिनवं माल्यम् १५ प्रणये अभिमश्रितोऽग्निः १६॥२०॥
॥ इति बृहन्यासगतमुपसर्गविवरणं समाप्तम् ॥
एते त्वेकत्र धातावापञ्चभ्यः प्रयोज्याः । प्रसमभिव्याहरतीति । एते चैकत्रधातावित्यादि-"धात्वर्थ बाधते कश्चित् कश्चित्तमनुवर्त्तते । तमेव विशिनष्ट्यन्योऽनर्थकोऽन्यः प्रयुज्यते ॥ १॥ बाधते यथा प्रतिष्ठते प्रस्मरति प्रवसति प्रलीयते प्रतीक्षते प्रतिपालयति । तमनुवर्तते यथा अधीते अध्येति आचामति आचष्टे अनुरुध्यते प्रलोकयति । तमेव विशिनष्टि यथा प्रपचति प्रकरोति प्राणिति प्राभाति निरीक्षते निष्टपति । अनर्थको यथा प्रलम्बते प्रार्थयते विजयते १५विजानाति । आपञ्चभ्य इति प्रायेणैतावतामेव प्रयोग इध्यते यथा आहरति व्याहरति अभिव्याहरति समभिव्याहरति प्रसमभिव्याहरतीति । स्तोत्रकारोऽप्याह-"एकत्र धातावुपसर्गपञ्चकप्रयोग इष्टः कविभिनिरन्तरम् । तद्ध्यानधातावुपसर्गविंशतिं सुरः प्रयोक्ता न कथं कुलक्षणः" ॥१॥ अथ किं धातुः पूर्वं क्रियाविशेषकेणोपसर्गेण युज्यते उत साधनाभिधायिना प्रत्ययेनेति ? साधनेनेति केचित् ।
साधनं हि क्रियां निर्वर्त्तयति तामुपसर्गो विशिनष्टि । अभिनिवृत्तस्य चोपसर्गेण विशेषः शक्यो वक्तुं २० नानभिनिवृत्तस्य । तदयुक्तम्-यो हि धातूपसर्गयोरभिसंबन्धस्तमभ्यन्तरीकृत्य धातुः साधनेन प्रयुज्यते। यस्माद्विशिष्टैव क्रिया साधनेन साध्यते न तु साधनालन्धरूपान्यतो विशेष लभते, तस्मात्पूर्वमुपसर्गेणेति युक्तम् । तथा च समस्करोत् संचस्कारेत्यत्रान्तरणत्वात् स्सटि कृते प्रत्ययनिमित्त अडागमद्विर्वचने भवतः। अतश्चैवम्-पूर्व हि धातोः साधनेन संबन्धे, आस्यते गुरुणेत्यकर्मकः, उपास्यते गुरुरिति सकर्मको धातुः केन स्यात् । न चैतद्वाच्यम्-प्रत्ययसंबन्धमन्तरेण क्रियाविशेष स्यानभिव्यक्तेन धातोः पूर्वमुपसर्गेण संबन्धो २५ युज्यते । यतः "बीजकालेषु संबद्धा यथा लाक्षारसादयः । वर्णादिपरिणामेन फलानामुपकुर्वते" ॥१॥
"बुद्धिस्थादभिसंबन्धात्तथा धातूपसर्गयोः । स्वभ्यन्तरीकृतो भेदः पदकाले प्रकाश्यते॥२॥ यद्येवमुपेत्याधीत्येत्यादावन्तरङ्गत्वादेत्वदीर्घत्वयोः कृतयोह्रखाभावात्तोन्तान प्राप्नोति । सत्यम् । असिद्धं बहिरङ्गमन्तरङ्गे इति भविष्यति। प्रेजुः प्रोपुरित्यत्र तु यज्वपोर्तुति द्वित्वे च सति अन्तरङ्गत्वात् समानदीर्घत्वे पश्चादे
दोतौ। यद्वा पूर्वमेदोतो ततोऽयवादेशे "व्यञ्जनस्यानादेर्लुक्” (४।१।४४) इति लुकि पुनरेदोतौ । ननु ३० कर्तुं प्रकर्षणेच्छति प्रचिकीर्षतीत्यादौ धात्वन्तरसंबद्धस्योपसर्गस्य तदर्थप्रतिपादकप्रत्ययादेव प्राक् प्रयोगः प्राप्नोति ? नैवम्-तस्याधातुत्वात् समुदायस्यैव धातुत्वादिति । कारिकास्थित्यादौ [सि० ३।१।३] कारिकाशब्दः स्थित्यादावर्थे धातोः सम्बन्धी गतिसंज्ञो भवति । स्थितिमर्यादा वृत्तिर्वा । आदिशब्दाद्यन्नधात्वर्थनिर्देशौ गृह्यते । कारिकाकृत्य स्थितिं यत्नं क्रियां वा कृत्वेत्यर्थः । स्थित्यादाविति किम् ? कारिकां
कृत्वा कत्री कृत्वेत्यर्थः । अग्रहानुपदेशेऽन्तरदः (३।११५) अन्तर् अदस् इत्येतौ शब्दौ यथा३५ संख्यमनहेऽनुपदेशे चार्थे गम्यमाने धातोः संबन्धिनौ गतिसंज्ञौ भवतः । अग्रहोऽस्वीकार:-अन्तर्हत्य
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org