SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे अव्ययानि । उपसर्गविवरणम् १८३ उप वर्जनप्रतियत्नवैकृतवाक्याध्याहारलवनपरीक्षासंपत्सर्पणगुह्यागःक्षयसामर्थ्याचार्यकरणसाहश्यस्वीकरणपीडामत्रक्रियाव्याप्तिदोषाख्यानयुक्तिसंज्ञापूर्वकर्मपूजादानसामीप्याधिकहीनलिप्सासु २८ । वर्जने उपवासः, उपवसति अशनवर्जनं करोति १ प्रतियत्ने एधोदकस्योपस्कुरुते २ वैकृते उपस्कृतं भुङ्क्ते, उपस्कृतं सहते ३ वाक्याध्याहारे सोपस्कारं वाक्यमाह ४ लवने उपस्कीर्य मद्रका लुनन्ति ५ परीक्षायां उपेक्षितव्यम् ६ संपदि उपपन्नमस्य, उपपन्ना शरत् , उपपन्नवाक्यः साधुः ७ सर्पणे उपसर्पति, उपतिष्ठते ५ कर्मकरः ८ गुये उपह्वरः, उपांशु, उपगूर्णम् ९ आगसि उपालम्भः, उपघातः १० क्षये उपक्षीणः, उपयुक्तं द्रव्यम् ११ सामर्थ्य उपचितः १२ आचार्यकरणे उपदिशति उपाध्यायः १३ सादृश्ये उपमानम् १४ स्वीकरणे उपगृह्णाति १५ पीडायां ; स्तनोपपीडं शेते उपपीडितः १६ मत्रक्रियायां उपनयते उपनयनम् १७ व्याप्ती उपकीर्णं सर्वतः १८ दोषाख्याने उपघातः १९ युक्तौ लवणोपसृष्टं देवोपसृष्टम् २० संज्ञायां उपधा, उपसर्गः २१ पूर्वकर्मणि उपक्रमः, उपकारः २२ पूजायां उपतिष्ठते देवं उपस्थानम् , १० उपचारः २३ दाने उपहरत्यर्थ बलिमुपहरेत् २४ सामीप्ये उपकुम्भम् , उपमणिकम् २५ अधिके उपखााँ द्रोणः २६ हीने उपार्जुनं योद्धारः २७ लिप्सायां उपयाचते, उपसादितोऽर्थः २८ ॥ १४ ॥ अधि अधिकाराधिष्ठानपाठोपर्यर्थेश्वर्यबाधनाधिक्यस्मरणसहयोगस्ववशतासु १० । अधिकारे अधिकारो राज्ञः, अधिकृतो ग्रामे १ अधिष्ठाने मय्यधिष्ठितं अध्यात्मकथा वर्तते २ पाठेऽधीतं व्याकरणम् ३ उपर्यर्थे अधिरोहति, अधिक्रान्तम् ४ ऐश्वर्ये अधिपतिर्देशस्य, अधिश्रेणिके मगधाः ५ बाधने १९ अधिकुरुते शत्रून् ६ अधिक्ये अधिखार्या द्रोणः ७ स्मरणे मातुरध्येति, पितुरध्येति ८ सहयोगे अधिवसति ९ स्ववशतायां आत्माधीनः १० ॥ १५ ॥ अपि पदार्थानुवृत्त्यपेक्षासमुच्चयान्ववसर्गगर्दाशीःसम्भावनभूषणसंवरणप्रश्नावमर्शेषु १२ । पदार्थे सर्पिषोऽपि स्यात् , सर्पिषो मात्रापि स्यादित्यर्थः १ अनुवृत्तौ अपि मा योजय २ अपेक्षायां अयमपि विद्वान् ३ समुच्चये अपि सिञ्च अपि स्तुहि ४ अन्ववसर्गे भवानपि च्छत्रं गृह्णातु ५ गत्यां अपि तत्र-२० भवान सावद्यं सेवते ६ आशिषि अपि मे स्वस्ति पुत्राय, अपि शिवं गोभ्यः ७ सम्भावने अपि पर्वतं शिरसा भिन्द्यात् ८ भूषणे अपि नह्यति हारम् ९ संवरणे अपिहितं द्वारम् १० प्रश्ने अपि कुशलम् , अपि गच्छामि ११ अवमर्श अपि भज्येय न नमेयम् , अपि काकः श्येनायते १२ ॥ १६ ॥ सु। पूजाभृशानुमतिसमृद्धिदृढाख्याकृच्छेषु ६ । पूजायां पूजितो राजा सुराजा, सुगौः १ भृशार्थे सुपुप्तम् , सुषिक्तम् २ अनुमतौ सुकृतम्, सूक्तम् , सुदत्तम् ३ समृद्धौ-समृद्धो देशः, सुदेशः, सुमगधः२५ सुमद्रं वर्त्तते ४ दृढाख्यायां सुबद्धम् , सुकृतम् ५ अकृच्छ्रे सुकरः कटो भवता ६ ॥ १७ ॥ उद' प्राबल्यसम्भवलाभोर्ध्वकर्मप्रकाशास्वस्थमोक्षदृश्यसमृद्धात्ययान्यायप्राधान्यशक्त्यवरपरदिगयोगनिर्देशेषु १६ । प्राबल्ये उद्धला मूषिका, उद्बलं याति १ सम्भवे उद्गतो दो नीचस्य २ लाभे उत्पन्नं द्रव्यम् , उदपादि भैक्षम् ३ ऊर्ध्वकर्मणि आसनादुत्तिष्ठति ४ प्रकाशे प्रकाशं चरति उच्चरति, उद्भवति ५ अस्वस्थे उत्सुकः, उच्चितः, उन्मत्तः ६ मोक्षे उत्सृष्टः ७ दृश्ये उत्सवः, उद्यानम् ८ समृद्धौ उच्छ्रितं ३० कुटुम्बम् ९ अत्यये अतीतमेघ नभः उन्मेघम् १० अन्याये उत्कुरुते कन्याम् , उत्कुरुते परदारान् ११ प्राधान्ये उत्कृष्टोऽश्वः, उत्तम कुलम् १२ शक्ती उत्सहते गन्तुम् १३ अवरपरे उत्तरः १४ दिग्योगे उदीची दिग् १५ निर्देशे उद्दिशति, उद्देशः १६ ॥ १८ ॥ अति पूजाभृशार्थानुमत्यतिक्रमणसमृद्धिभूताभावावज्ञानहीनार्थेषु ८ । पूजायां पूजितो राजा अतिराजा, अतिगौः १ भृशार्थे अतिकृतम् , अतिसारः, अतिवृष्टिः २ अनुमतौ अतिचिन्तितम् ३ अतिक्रमणे ३५ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004040
Book TitleHaim Prakash Maha Vyakaranam Purvarddham
Original Sutra AuthorN/A
AuthorKshamavijay
PublisherHiralal Somchand Kot Mumbai
Publication Year1937
Total Pages560
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy