________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे कारकप्रक्रिया । कर्मसंज्ञाविधानम् २१७ मपि माषाणामधिकरणसंज्ञा बाधित्वा कर्मसंज्ञा स्यात्कर्तृप्रहणात्तु न भवतीत्यर्थः । नन्वेवमपि कर्तुर्गुणत्वाद्गणे च सङ्ख्याया विवक्षणाहाभ्यां कर्तृभ्यां बहुभिर्वा यद्विशेषेणाप्नुमिष्यते तस्य कर्मसंज्ञा न स्यात् । नैष दोषः । कारकान्तरव्याप्यस्य कर्मसंज्ञाप्रसङ्गनिवारणपरत्वात् , शास्त्रस्य च लक्ष्यसंस्कारत्वात् , कर्तुर्गुणस्यापि सङ्ख्या न विवक्ष्यते । सङ्ख्याया अविवक्षणाच प्रधानस्यानियमेन विस्फारः । यथेह कटं करोति, कटौ करोति, कटान् करोतीति कर्मसंज्ञा भवति, तथेहापि भवति-कटं कुरुतः, कटं कुर्वन्तीति । व्याप्यं ५ च कर्मसंज्ञया संश्रियमाणत्वात् प्रधानमिति तस्य सङ्ख्या न विवक्ष्यते इत्येतस्य चार्थस्य ज्ञापकमेकशेषसूत्रे एकग्रहणमिति । किश्च वीति किमिति-पयसा ओदनं मुझे-अत्र करणस्य मा भूत् । अयं भावःकर्तुः साध्यत्वात् क्रिया पूर्वमाप्नुमिष्टा, कर्म तु तत्फलत्वेन, ततश्च क्रियाया आप्नुमिष्ठाया विशेषणं फलम् । पयसा ओदनं मुझे इत्यत्र तु पयसः संस्कारकत्वादोदनस्य संस्कार्यस्यैव विशेषणातुमिष्टत्वमिति तस्यैव कर्मत्वं न पयसः करणस्य । नन्वेवं तर्हि यदा कश्चित्कञ्चिदामबयते-सिद्धं भुज्यतामिति, स आह-१० प्रभूतं भुक्तवानस्मि, आमत्रयमाण आह-दधि खलु भविष्यति, पयः खलु भविष्यति । आमश्यमाण आह-दना खलु भुञ्जीय, पयसा खलु भुञ्जीय । अत्र चान्वयव्यतिरेकाभ्यां दधिपयसोरेव विशेषेणाप्यत्वात्कर्मसंज्ञा प्राप्नोति, नत्वोदनस्येति ? उच्यते । तस्याप्योदन एवाप्तुमिष्टः, दधिपयसोस्तु संस्कारकस्वात्करणभावः । गुणेषु धुपकारकेषु केवलेषु नादरः, किं तर्हि ? तत्संस्कृते ओदनादौ, तद्यथा-भलीयाहमोदनम् , यदि मृदुविशदः स्यादिति । यद्यत्र मार्दवमाने आदरः स्यात् , पङ्कमपि भक्षयेत् , वैश-१५ द्यमात्रादरे तु सिकता अपि । एवमिहापि दध्यादिगुणमोदनं भुजीयेत्यदोषः । कर्मव्याप्यप्रदेशाः "कर्मणोऽण्” (५।१।७२ ) “व्याप्याञ्चेवात्” (५।४७१) इत्यादयः ।
· एवं च कर्मकारके युक्तेर्दिग्मात्रमत्र निर्णीतम् । श्रीसिद्धहेमतत्त्वप्रकाशिकान्यासमनुसृत्य ॥१॥ __ अथ विनेयजनानुग्रहाय अकर्मकाणां सकर्मकतायां गत्यर्थादीनामेककर्मकाणां च द्विकर्मकतायां सूत्रपद्धतिर्लिख्यते
"वा कर्मकाणामणिकर्ता णौ' (२।२।४ ) अकर्मकाणां धातूनामणिगवस्थायां यः कर्ता स णिगि सति कर्म वा स्यात् । ननु द्विधाऽकर्माणः-सकर्मकाणोऽप्यविवक्षितकर्माणः, सर्वथाऽविद्यमानकर्माणश्चेति । तत्केषामिह प्रहणमित्यत्रोच्यते-उत्तरसूत्रे नित्यग्रहणादत्राविवक्षितकर्माण एव ग्राह्याः। यथा पचति चैत्रः, पाचयति चैत्रं चैत्रेण वा । नन्वोदनं पचतीत्यादिप्रयोगदर्शनात् कथं पचादीनामविवक्षितकर्मत्वमित्यत्रोच्यते-शब्दप्रयोगस्य परार्थत्वात्परेण च किं करोतीति व्यापारमात्रस्य जिज्ञासितत्वादन्य-२५ थोन्मत्तत्वप्रसङ्गात्प्रतिपादयितुस्तावन्मात्रस्यैव विवक्षितत्वादौदासीन्यमात्रनिवृत्तिपरतया प्रयोगाच्छब्देन कर्मणोऽसमर्पणादविवक्षितकर्मत्वम् । यदाह
"धातोरर्थान्तरे वृत्तेर्धात्वर्थेनोपसङ्ग्रहात् । प्रसिद्धरविवक्षातः कर्मणोऽकर्मिका क्रिया ॥ १॥" धातोरर्थान्तरे वृत्तिर्द्विधा । एका स्वाभाविकी, धातूनामनेकार्थत्वात् यथा-भारं वहतीत्यत्र सकर्मकोऽपि वहतिर्नदी वहतीत्यत्राकर्मकः । द्वितीया चोपसर्गसन्निधिकृता-यथोद्गच्छति सूर्य इत्यत्र गमिरक-३० मकः, 'जीव प्राणधारणे' इति धात्वर्थेन कर्मण उपसङ्ग्रहात् चैत्रो जीवतीत्यत्र जीवतिरकर्मकः, प्रसिद्धेर्यथा-गर्जति शरदिन वर्षतीत्यत्र जलस्य कर्मणः प्रसिद्धत्वादकर्मकत्वमिति ।“गतिबोधाहारार्थशब्दकर्मनित्याकर्मणामनीखाद्यदिहाशब्दायक्रन्दाम्" (२।२।५) गतिर्देशान्तरप्राप्तिरों येषां ते गत्यर्थाः; बोधो ज्ञानमात्रं तद्विशेषश्च, सोऽथों येषां ते बोधार्थाः; आहारो भोजनम् , सोऽर्थो येषां ते आहारार्थाः; शब्दः कर्म क्रियाव्याप्यं च येषां ते शब्दकर्माणः; नास्ति कर्म येषां तेऽकर्माणः; नित्य-३५
है• प्रका० पूर्वा० २८
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org