SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ प्रक्रियावृत्तिरूपे श्रीमप्रकाशे अव्ययानि । उपसर्गविवरणम् अव विज्ञानाधोभावस्पर्द्धालम्बनसामीप्यशुद्धिखादुकारेषदर्थव्याप्तिभृशार्थनिश्वयपरिभवप्राप्तिगाम्मीर्यवृत्तान्तवियोगवर्चस्कदेशाख्याऽहितक्रियाश्रयस्पर्शेषु २१ । विज्ञाने अवगच्छति १ अघोभावे अधः क्षेपणं अवक्षेपणम् २ स्पर्द्धायां अवक्षिपति मल्लो मलम् ३ आलम्बने अवष्टभ्य यष्टिं गच्छति ४ सामीप्ये अवष्टब्धा शरत् ५ शुद्धौ अवदातं मुखम् ६ स्वादुकारे अवदंशः पानस्य ७ ईषदर्थे ईषलीढमवलीढम् ८ व्याप्तौ अवकीर्ण पांशुभिः ९ भृशार्थे अवगाढो दोषः १० निश्वये अवधृतं कार्यम् ११ परिभवे अव - ५ मन्यते १२ । प्राप्तौ अवाप्तोऽर्थः अवायाति सुखं १३ गाम्भीर्ये अवस्थितः १४ वृत्तान्ते का अवस्था १५ वियोगे अवमुक्तनूपुरा कन्या १६ वर्चस्के अवस्करः १७ देशाख्यायाम् अवकाशः १८ अहितक्रियायां अवदूष्यते कार्यम् १९ आश्रये अवलीनो वायसः २० स्पर्शे अवगाहसुखं तोयम् २१ ॥ ६ ॥ निर् वियोगभृशार्थाऽभावात्ययप्रादुर्भावहेत्ववधारणादेशातिक्रमणाभिनिस्सरणेषु १० । वियोगे वियुक्तः शल्येन निःशल्यः १ भृशार्थे भृशं दग्धो निर्दग्धः २ अभावे मक्षिकाणामभावो निर्मक्षिकम्, १० निर्मशकम् ३ अत्यये अतीतमेघं नभो निर्मेघम् ४ प्रादुर्भावे निर्मितं निष्पन्नम् ५ हेतौ हेतुना उक्तं निरुक्तम् ६ अवधारणे निश्चयः ७ आदेशे निर्देशः ८ अतिक्रमणे अतिक्रान्तः कौशाम्ब्याः निष्कौशाम्बिः ९ अभिनिस्सरणे अभिनिःसृतजिह्नो निर्जिह्नः १० ॥ ७ ॥ १८१ दुर् ईषदर्थकुत्सावैकृतव्यृद्धिकृच्छ्राऽप्रतिनन्दनाऽनीप्सासु ७ । ईषदर्थे दुर्बलः, दुर्गृहीतः १ कुत्सायां दुर्गन्धः, दुरन्तः २ बैकृते दुर्वर्णः, दुश्चर्मा ३ व्यृद्धौ कम्बोजानां व्यृद्धिर्दुष्कम्बोजम् ४ कृच्छ्रे कृच्छ्रेण १५ क्रियते दुष्करम् ५ अप्रतिनन्दने असम्यगुक्तं दुरुक्तम्, दुरागतम् ६ अनीप्सायां अनीप्सितभगा दुर्भगा ७ ॥ ८ ॥ वि नानार्थापायात्यय दूर भृशार्यकलहैश्वर्यवियोगमोहहर्षकुत्साप्रादुर्भावानाभिमुख्यानवस्थानप्राधान्यभोजनसंज्ञादाक्ष्यव्ययक्कृत्स्नाप्तिषु २१ । नानार्थे नानाचित्रं विचित्रम् १ अपाये विदुःखः विशोकः २ अत्यये व्युक्षं नभः, विहिमः कालः ३ भये विषण्णः, विभीतः ४ दूरे विप्रकृष्टोऽध्वा ५ भृशार्थे २० भृशं वृद्धा विवृद्धा नद्यः, भृशं रौति विरौति ६ कलहे विग्रहः, विवादः ७ ऐश्वर्ये विभुर्देशस्य ८ वियोगे विपुत्रः, विभूषणः, विशिरस्कः ९ मोहे विचित्तः, विमनाः १० हर्षे विस्मितमुखः ११ कुत्सायां कुत्सितमङ्गं यस्य स व्यंगः, विरूपः १२ प्रादुर्भावे प्रादुर्भूतलोहितो विलोहितः १३ अनाभिमुख्ये विमुखः १४ अनवस्थाने विभ्रान्तः १५ प्राधान्ये विशिष्टः १६ भोजने विपकम् १७ संज्ञायां विष्किरः शकुनिः, विकिरो वा १८ दाक्ष्ये दक्षो विक्रान्तः १९ व्यये शतं विनयते सहस्रं ३५ विनयते २० कृत्स्नाप्तौ - व्याप्तौ कृत्स्नमस्याप्तं शरीरं दोषैर्व्याप्तम् २१ ॥ ९ ॥ आङ् मर्यादाप्राप्तिस्पर्शलिप्साभयश्लेषकृच्छ्राऽऽदिकर्मग्रहणनीडसमीपविक्रियार्हणावृन्याशीः स्वीकरणेषदर्थाभिविधिक्रियायोगान्तर्भावस्पर्द्धाभिमुख्योर्द्धकर्मभृशार्थप्रादुर्भाव समवाय स्मरणविस्मयप्रतिष्ठानिर्देशशक्त्यप्रसादविवृतानुबन्धपुनर्वचनेषु ३५ । मर्यादायां आ पाटलिपुत्रादृष्टो मेघः १ प्राप्तौ आसादितः २ स्पर्शे आलिप्तः, आलभते ३ लिप्सायां आकाङ्क्षति ४ भये आविन: ५ श्लेषे आलिङ्गति ६३० कृच्छ्रे आपत् ७ आदिकर्मणि आरब्धः कर्तुम् ८ ग्रहणे आलम्बते यष्टिम् ९ नीडे आवसथः, आलयः, आवासः १० समीपे आसन्नो देवः ११ विक्रियायां आवृत्तं सुवर्णम्, आक्रन्दति बालः १२ अर्हणे आमत्रितः १३ आवृत्तौ आवृत्ती दिवसः १४ आशिषि आयुराशास्ते, पुत्रमाशास्ते १५ स्वीकरणे आदत्ते फलानि, आदते रसान् सूर्यः १६ ईषदर्थे ईषत् कृतिः आकृतिः, आताम्रः, आच्छाया १७ अभिविधौ आकुमारं यशः शाकटायनस्य १८ क्रियायोगे आयोगः ऐष्टिः १९ अन्तर्भावे आपानमुदकम् २०३५ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004040
Book TitleHaim Prakash Maha Vyakaranam Purvarddham
Original Sutra AuthorN/A
AuthorKshamavijay
PublisherHiralal Somchand Kot Mumbai
Publication Year1937
Total Pages560
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy