SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ १८० महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघुनियोगे नियुक्तः सैन्ये प्रकृतः सैन्ये ६ शुद्धौ प्रसन्ना आपः प्रसन्ना द्यौः [प्रसन्नेन्द्रियः] ७ इच्छार्थे इच्छति कन्या प्रार्थयते कन्याम् , इच्छति परदारान् प्रकुरुते परदारान् ८ प्रीतौ प्रीणाति राजा प्रसीदति राजा ९ शान्तौ शान्तात्मा प्रश्रितः प्रशान्तः प्रश्रितं वाक्यमाह १० पूजायां प्राञ्जलिः प्रह्वः ११ दर्शने प्रियां हवा कीडति प्रक्रीडति १२ तत्परे पितामहात्परः प्रपितामहः, एवं प्रनप्ता प्रपौत्रः १३ प्रशंसायां ५शोभनं शालं प्रधानं शास्त्रम् १४ सङ्गे प्रसक्तः, प्रमत्तः १५ दिग्योगे पूर्वा दिक् प्राची दिक् १६ अवयवे प्रघणोऽगारस्य प्रघाणोऽगारस्य १७ वियोगे वियुक्तो वसति प्रवसति १८ अन्तर्भावे अन्तर्भूतः प्रविष्टः, अन्तः क्षिप्तः प्रक्षिप्तः १९ हिंसायां प्रहरणं प्रहरति २० बहुत्वे बहुचौरो देशः प्रचौरो देशः २१ महत्वे महानध्वा प्रकृष्टोऽध्वा २२ स्थितौ शास्त्रं प्रमाणं लोकः प्रमाणं २३ दाने देवेभ्यो ददाति प्रयच्छति २४ नानार्थे नाना कीर्णाः प्रकीर्णाः, नाना दक्षिणा प्रदक्षिणम् २५ अनुवृत्तौ अनुवृत्तः शिष्यः प्रशिष्य इति २६ १० परा वधघर्षणस्वर्गतिविक्रमाप्रत्यक्षानाभिमुख्यभृशार्थमोहप्रातिलोम्येषु ९ । वधे पराघातः १ घर्षणे परामर्शनम् २ स्वर्गतौ स्वर्गतः परेतः ३ विक्रमे पराक्रमः ४ अप्रत्यक्षे परोक्षम् ५ अनाभिमुख्ये परावृत्तः पराङ्मुखः ६ भृशार्थे पराजितः ७ मोहे पराभूतः ८ प्रातिलोम्ये परावृत्तो युद्ध इति ९ । इति ॥२॥ अप वर्जनवियोगालेखनचौर्यनिर्देशवैकृतविधिविपर्ययऋणग्रहणावयवपूजानिह्नवसव्यवृत्तिषु १२ । वर्जने अपसाकेताद् वृष्टो देवः १ वियोगे अपयुक्ता गौर्वत्सेन २ आलेखने अपस्किरते वृषभः ३ १५ चौर्ये अपहरति ४ निर्देशे अपदिशति परम् ५ वैकृते अपजल्पति ६ विधिविपर्यये अपशब्दः, अपनयः ७ ऋणग्रहणे अपमित्य याचते ८ अवयवे अपस्करो रथाङ्गम् ९ पूजायां अपचितो गुरुर्देवदत्तेन १० निहवे शतमपजानीते सहस्रमपजानीते ११ सव्यवृत्तौ अपसव्यं गच्छति १२ ॥ ३ ॥ सम् मूर्तिवचनैक्यप्रभवसमन्ताद्भावभूषणसमवायाभिमुख्ययोगपद्यश्लेषणभृशार्थदर्शनीयत्वसाहश्यानास्थितापिधानक्रोधमर्यादेाचीवरग्रहणास्पष्टप्रीतिस्वीकरणाल्पार्थाभ्यासप्राधान्यपुनःक्रियासु २५ । २० मूर्ती संहता मूर्तिर्घटादीनाम् १ वचनैक्ये एकवादः संवादः २ प्रभवे तिलेभ्यस्तैलं सम्भूतम् ३ समन्ता द्भावे समन्तादगच्छति सङ्गच्छते ४ भूषणे भूषिता कन्या संस्कृता कन्या ५ समवाये संकरः ६ आभिमुख्ये समुत्तिष्ठति ७ योगपद्ये युगपत्कृतः केतः संकेतः ८ श्लेषणे सन्धिः ९ भृशार्थे सन्नह्यति १० दर्शनीयत्वे संस्थिता कन्या दर्शनीयेत्यर्थः ११ सादृश्ये गोसंस्थानं गवयस्य १२ अनास्थिते संस्थितः केतुः १३ अपिधाने संवृतं द्वारम् १४ क्रोघे संरम्भः १५ मर्यादायां संस्था १६ ईर्ष्यायां संलापः १७ २५ चीवरग्रहणे संचीवरयते भिक्षुः १८ अस्पष्टे संशयः १९ प्रीतौ संभाषणम् २० स्वीकरणे सङ्गाहाति २१ अल्पार्थे समर्थम् २२ अभ्यासे समीपम् २३ प्राधान्ये समर्थः सम्राट २४ पुनःक्रियायां पुनर्धावति संधावति, पुनस्तपति संतपति २५ ॥४॥ अनु देशाधीष्टसामीप्यस्वाध्यायसाम्यार्थाभावायतिनिसर्गभृशार्थसादृश्यानुवृत्तिहितार्थलक्षणहीनार्थतृतीयार्थस्वाध्यायाधिक्यवीप्सासु १७ । देशे अनूपो देशः १ अधीष्टे इन्द्रानुब्रूहि २ सामीप्ये अनुशोणं ३० पाटलिपुत्रम् ३ स्वाध्याये अनुपदम् , अनुवाक्यम् ४ साम्ये अनुमतम् , अनुवदति ५ अर्थाभावे अनुतपति ६ आयत्यां अनुशयः, अनुबन्धः ७ निसर्गे अनुज्ञातोऽसि ८ भृशार्थे अनुरक्तः, अनुस्मरति ९ सादृश्ये अनुकरोति, अनुरूपम् १० अनुवृत्तौ सुवर्चला आदित्यमनुपर्येति ११ हितार्थे अनुलोममनुक्रोशं करोति, अनुगृहाति १२ लक्षणे वृक्षमनु विद्योतते १३ हीने अनुजिनभद्रगणिं व्याख्यातारः १४ तृतीयार्थे नदीमन्ववसिता सेना नद्या सह संबद्धेत्यर्थः १५ स्वाध्यायाधिक्ये अनूचान उपाध्यायाः १६ वीप्सायां ३५वृक्षमनुसिञ्चति १७ ॥ ५ ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004040
Book TitleHaim Prakash Maha Vyakaranam Purvarddham
Original Sutra AuthorN/A
AuthorKshamavijay
PublisherHiralal Somchand Kot Mumbai
Publication Year1937
Total Pages560
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy