________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे अव्ययानि । च्विनिमित्त कार्याणि । उपसर्गविवरणम्
१७९
द्विश्वास्य प्रकृतिरुच्यते, प्रत्ययस्य द्विर्वचनानर्थक्यात् । पटत्करोति पटपटाकरोति, पटपटाभवति पटपटास्यात् । अव्यक्तवर्णस्यापि कथंचिद्धूनिमात्रसादृश्यात् व्यक्तवर्णमनुकरणं भवति । अव्यक्तानुकरणादिति किम् ? दृषत्करोति - - अत्र व्यक्तवर्णमनुकार्यम् । अनेकस्वरादिति किम् ? श्रत्करोति खादकरोति । अनिताविति किम् ? पटिति करोति । "इतावतो लुक्” (७/२/१४६) अव्यक्तानुकरणस्यानेकस्वरस्य यो अत् इत्ययं शब्दः तस्य इतिशब्दे परे लुग् भवति । पटत् इति पटिति एवं छमत् ५ इति छमिति । “असिद्धं बहिरङ्गमन्तरङ्गे” लुकि सति तृतीयत्वं न भवति । अव्यक्तानुकरणस्येत्येव-जगदिति । अनेकस्वरस्येत्येव-छत् इति छदिति । अत् इति किम् ? मरुत् इति मरुदिति । शरद् इति शरदिति । कथं “घटदिति गम्भीरमम्बुदैर्नदितं चकदिति तडितापि कृतमिति” ? दकारान्तावेतौ द्रष्टव्यौ । “न द्वित्वे " ( ७।२।१४७ ) अव्यक्तानुकरणस्यानेकस्वरस्य द्वित्वे द्विर्वचने कृते इतिशब्दपरे योऽत्शब्दस्तस्य लुग् न भवति । पटत्पटदिति । वीप्सायां द्विर्वचनम् । द्वित्व इति किम् ? पटिति । कथं चटञ्चदिति धगद्धगिति १० पटत्पटिति ? नात्र द्वित्वमपि तु समुदायानुकरणमिति भवति । " तो वा" ( ७२ । १४८ ) द्वित्वे सत्यव्यक्तानुकरणस्यानेकस्वरस्य योऽत्शब्दस्तत्संबन्धिनस्तकारस्येतौ परे वा लुग् भवति । पटत्पटेति करोति । पटत्पटदिति करोति । "डाच्यादौ” ( ७|२| १४९ ) अव्यक्तानुकरणस्यानेकस्वरस्याच्छब्दान्तस्य द्वित्वे सत्यादौ पूर्वपदे योऽतस्तकारस्तस्य डाचि परे लुक् भवति । पटपटाकरोति । आदाविति किम् ? पतपताकरोति । डाच्यन्त्यस्वरादिलोपे मूलप्रकृतेस्तकारस्य लुग्न भवति । एतत्सर्वमित्यादिशब्देन १५ सूचितमिति ॥ ५९ ॥ क्रमप्राप्तानुपसर्गान् लक्षयति ।
प्रपरापसमन्ववनिर्दुरभि व्यधिदतिनिप्रतिपर्यपयः ।
उप आङिति विंशतिरेष सखे उपसर्गगणः कथितः कविभिः ॥ १ ॥
"धातोः पूजार्थखतिगतार्थाधिपर्यतिक्रमातिवर्ज्जः प्रादिरुपसर्गः प्राक् च” (३।१।१) धातोः संबन्धी तदर्थद्योती चाद्यन्तर्गतः प्रादिशब्दगण उपसर्गसंज्ञो भवति । तस्माच्च धातोः प्राकू २० प्रयुज्यते न परो न व्यवहितः । पूजार्थौ स्वती, गतार्थावधिपरी, अतिक्रमार्थमतिं च वर्जयित्वा । ततश्च सुसिक्तं अतिसिक्तं भवतेत्यत्र धात्वर्थः प्रशस्यते इति पूजार्थत्वात् स्वत्योरुपसर्गसंज्ञाया अभावात् षत्वं न भवति । पूजार्थग्रहणं किम् ? सुषिक्तं किं नाम तवात्र - धात्वर्थोऽत्र कुत्स्यते । गतार्थावधिपरी अध्यागच्छति, आगच्छति अधि । पर्यागच्छति आगच्छति परि । उपरिभावः सर्वतो भावश्चान्यतः प्रकरणादेः प्रतीयत इति गतार्थत्वम्, ततश्चाधिपर्योरुपसर्गसंज्ञाया अभावात् प्राक्त्वनियमाभावः । यत्र तु प्रक- २५ रणादिना न गतार्थत्वं तत्रोपसर्गसंज्ञायाः सत्त्वात् प्राक्त्वनियमो भवत्येव । अतिक्रमार्थमतिमिति यदर्थं क्रिया तस्मिन्निष्पन्ने क्रियाप्रवृत्तिरतिक्रमस्तत्रातेर्नोपसर्गत्वम् यथातिसिक्तं भवतेत्यत्र षत्वं न भवति । ते चामी प्रपरेति । तोटकछंदसि श्लोकः । प्र परा अप सम् अनु अव निर् दुर् बि आङ् नि प्रति परि उप अधि अपि सु उद् अति अभि । निर् दुर् एतौ रान्तौ । अत्र निस् दुस् इति सान्तौ निसस्तपताविति निर्देशादिति मनोरमायाम् । निसस्तपेनासेवायामिति हैमसूत्रेऽपि । श्लोके उक्तक्रमविपर्ययो ३० बन्धानुलोम्यात् ।
प्र आदिकर्मोदीरणभृशार्थैश्वर्यसम्भवनि योगशुद्धीच्छाप्रीतिशान्तिपूजादर्शनतत्परप्रशंसासङ्गदिग्योगावयववियोगान्तर्भावहिंसाबहुत्य महत्वस्थितिदाननानार्थदक्षिणानुवृत्त्यादिषु २६ । आदिकर्मणि [ कर्त्तुमारब्धः ] प्रकृतः कटो देवदत्तेन १ उदीर्णे उदीर्णा मूषिकाः प्रबला मूषिकाः २ भृशार्थे भृशं वृद्धाः प्रवृद्धा नद्यः ३ ऐश्वर्ये ईश्वरो गृहस्य प्रभवति गृहस्य, प्रभुर्देशस्य ४ सम्भवे हिमबतो गङ्गा प्रभवति ५३५
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org