________________
महामहोपाध्याय श्रीविनयविजयगणिविरचिते खोपज्ञहैमलघु
समयादिभ्योऽर्थविशेषे कृग्योगे यथायोगं डाज्वाच्यः ॥ ५९ ॥
कालक्षेपे - समयाकरोति, अद्य श्वो वा पटं दास्यामीति कालक्षेपं करोति कुविन्दः । अतिपीडने - सपत्राकरोति निष्पत्राकरोति मृगम् । निष्कोषणे - निष्कुलाकरोति दाडिमम् । आनुकूल्ये - सुखाकरोति प्रियाकरोति गुरुम् । प्रातिकूल्ये - दुःखाकरोति शत्रुम् । पाके - ५ शूलाकरोति मांसम् । वपने-मद्राकरोति भद्राकरोति बालं नापितः । एवं क्षेत्रकर्षणे - द्वितीयाकरोति क्षेत्रम् । पटापटाकरोतीत्यादि ॥ ५९ ॥
१७८
समयादिभ्य इत्यादि ० [ समयाद्यापनायाम् (७/२/१३७ ) इत्यनेन् ] समयाकरोति कुविन्द इति-तन्तुवायः अद्य श्वस्ते पटं दास्यामीमि कालक्षेपं करोतीत्यर्थः । [ सपत्रनिष्पत्रादतिव्यथने ( ७/२/१३८ ) ] अतिपीडने गम्यमाने सपत्रनिष्पत्र इत्येताभ्यां डाच् भवति । सपत्राकरोति मृगमिति१० पत्रं शरः, सह पत्रमनेनेति सपत्रम्, तं करोति शरमस्य शरीरे प्रवेशयतीत्यर्थः । निष्पत्राकरोतीति निर्गतं पत्रमस्मादिति निष्पत्रम्, तं करोति शरमस्यापरपार्श्वे निष्क्रामयतीत्यर्थः । सपत्राकरोति वृक्षं वायुः निष्पत्रा करोति वृक्षं वायुः-अत्र पत्रशातनमेवातिव्यथनम् । सपत्राकरोतीत्यपि मङ्गलाभिप्रायेण वृक्षस्य निःपत्राकरणमेवोच्यते, यथा दीपो नन्दतीति ध्वंसः । अतिव्यथन इति किम् ? । सपत्रं करोति वृक्षं जलसेकः, निष्पत्रं करोति वृक्षतलं भूमिशोधकः । [ निष्कुलान्निष्कोषणे (७।२।१३९) ] निष्कोषणे इति निष्कृष्टं १५ कुलमवयवसंघातोऽस्मादिति निष्कुलम्, अन्तरवयवानां बहिर्निष्कासनं निष्कोषणम् ; निष्कुलाकरोति दाडिमं निष्कुष्णातीत्यर्थः । एवं निष्कुलाकरोति पशुं चण्डालः । निष्कोषण इति किम् ? । निष्कुलं करोति शत्रुम् | [प्रियसुखादानुकूल्ये (७।२।१४० ) ] आनुकूल्य इति प्रियाकरोति सुखाकरोति गुरुमिति । गुरोरानुकूल्यं करोति - तमाराधयतीत्यर्थः । आनुकूल्य इति किम् ? प्रियं करोति सामवचनम् । सुखं करोत्यौषधपानमिति। [दुःखात्प्रातीकूल्ये (७/२/१४१ ) ] प्रातिकूल्य इति दुःखाकरोति शत्रुमिति शत्रोः २० प्रातिकूल्यं करोति, अनभिमतानुष्ठानेन तं पीडयतीत्यर्थः । प्रातिकूल्य इति किम् ? दुःखं करोति रोगः । [शूलात्पाके (७।२।१४ २ ) ] शूलाकरोति मांसमिति शूले पचतीत्यर्थः । पाके इति किम् ? शूलं करोति कदन्नम् । [ सत्यादशपथे (७।२।१४३ ) ] सत्याकरोति इति कार्षापणादिदानेन मयावश्यमेतत्क्रेतव्यमिति विक्रेतारं प्रज्ञापयति । अशपथ इति किम् ? यदीदमेवं न स्यादिदं मे इष्टं मा भूदनिष्टं वा भवत्विति शपथं करोतीत्यर्थः । [ मद्रभद्राद्रूपने ( ७२ । १४४ ) ] मद्रं भद्रं वपनं करोति मद्राकरोति २५ भद्राकरोति शिशोर्माङ्गल्यं केशच्छेदनं करोतीत्यर्थः ; मद्रभद्रशब्दौ माङ्गल्यवचनौ । वपन इति किम् ? मद्रं करोति भद्रं करोति साधुः । [तीयशम्बबीजात्कृगा कृषौ डाच् (७।२।१३५ ) ] द्वितीयाकरोति क्षेत्रमिति । तीयप्रत्ययान्तात् करोतिना योगे कृषिकार्ये डाच् प्रत्ययो भवति । द्वितीयवारं करोति द्वितीयाकरोति द्वितीयवारं कृषतीत्यर्थः । एवं तृतीयाकरोति । शम्बवीजाभ्यामपि - शम्बाकरोति अनुलोमकृष्टं पुनस्तिर्यक्कृषतीत्यर्थः । बीजाकरोति उते पश्चाद्वजैः सह कृषतीत्यर्थः । कृगेति किम् ? द्वितीयवारं ३० कृषति । कृषाविति किम् ? द्वितीयवारं पटं करोति । एवं “सङ्ख्यादेर्गुणात् " ( ७।२।१३६ ) सङ्ख्यायाः परो गुणशब्दस्तदन्तात्कृग्योगे कृषिविषये डाच् प्रत्ययो भवति । द्विगुणं कर्षणं करोति क्षेत्रस्य द्विगुणाकरोति क्षेत्रम् । पटापटाकरोतीत्यादीति - " अव्यक्तानुकरणादनेकस्वरात् कृभ्वस्तिना अनितौ द्विश्व" ( ७।२।१४५ ) यस्मिन् ध्वनावकारादयो वर्णा विशेषरूपेण नाभि३४ व्यज्यन्ते सोऽव्यक्तस्तस्यानुकरणादने कस्वरादनितिपरात् कृभ्वस्तिभिर्योगे डाच् प्रत्ययो वा भवति । १ आनुकूल्यं हि चेतनधर्मः तदत्र नास्ति । एवमुत्तरेऽपि ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org