________________
प्रक्रियावृत्तिरूपे श्रीमप्रकाशे अव्ययानि । च्विनिमित्त कार्याणि
ईश्वाववर्णस्यानव्ययस्य ॥ ५७ ॥ [ सि० ४|३|१११ ]
अनव्ययस्यावर्णाऽन्तस्य च्वावीः स्यात् । अशुक्लं शुक्लं करोति शुक्लीकरोति पटम् । मालीकरोति पुष्पाणि । अशुक्लः शुक्लो भवति । शुक्कीभवति । शुक्लीस्यात् ॥ ५७ ॥
ईवा ० । शुकीकरोति पटमिति - द्रव्यस्य गुणयोगे प्रागतत्तत्त्वम् । कारकीकरोति चैत्रमिति क्रियायोगे, दण्डीकरोति राजपुरुषीकरोति इत्यादि द्रव्ययोगे, सन्धीकरोति गाः मालीकरोति पुष्पाणि इति समूहयोगे, ५ घटीकरोति मृदमिति विकारयोगे । एवं शुक्लीक्रियते पटः प्रागशुक्लः शुलः क्रियते इत्यर्थः । स्वस्थीभूयते चैत्रेण अस्वस्थेन स्वस्थेन भूयते इत्यर्थः । क्लीस्यादिति - एवं भ्वस्तियोगे उदाहरणानि ज्ञेयानीत्यर्थः । सर्वत्र "अप्रयोगीत्” इति व्यञ्जनविकाररूपस्य च्चिप्रत्ययस्य लोपः । अनव्ययस्य इति किम् ? दिवाभूता रात्रिः, दोषाभूतमहः - अत्रावर्णान्तस्य ईर्न स्यात् ॥ ५७ ॥ अत्रैव इवर्णाद्यन्तानां विशेषमाह - दीर्घविक्क्येषु च ॥ ५८ ॥ [ सि० ४ | ३ | १०८ ]
१७७
एषु चतुर्षु यादावाशिषि च स्वरस्य दीर्घः स्यात् । शुचीकरोति ।
दीर्घ० । विश्च यङ् च यक् च क्यश्च च्वियङ्यक्क्यास्तेषु । चकारो यादावाशिषि चेत्यस्यानुवृत्त्यर्थः । शुचीकरोतीति प्रस्तुतोदाहरणम् । शेषाण्युदाहरणान्येवम् - यङ् तोष्ट्र्यते । यक् मन्तूयति । क्य इति क्यन्- क्य-क्य - क्यानां ग्रहणम्, दधीयति "अमाव्ययात् क्यन् च" ( ३।४।२३ ) इति क्यन् । हंसायते " क्यङ् ” ( ३ | ४ | ३६) इति सूत्रेण क्यङ् । लोहितायते "डाच् लोहितादिभ्यः षित् ” १५ (३।४।३०) इति क्यङ्घ् । स्तूयते - क्यः । यादावाशिषि - ईयात् । अत्रैव विशेषमाह -
अरुर्मनश्चक्षुश्वेतोरहोरजसां लुक् च्वौ ( ७।२।१२७) अरूकरोति । उन्मनीस्यात् ।
अरु० बहुवचनं तदन्तानामपि परिग्रहार्थम्, अन्यथा ग्रहणवता नाम्ना न तदन्तविधिरित्युपतिष्ठेत । अरुर्व्रणम् । अनरुः अरुः करोति “षष्ठ्यान्त्यस्य " इत्यनेन स्लोपे पूर्वेण दीर्घे अरूकरोति । महारू - करोति । मनीकरोति उन्मनीकरोति । चक्षूकरोति उच्चक्षूकरोति । चेतीकरोति विचेतीकरोति । रह एका - २० न्तम्, रहीकरोति । विरहीकरोति । रजीकरोति विरजीकरोति । एवं भ्वस्तिभ्यां योगेऽप्युदाहार्यम् । इसुसोर्बहुलम् (७|२।१२८ ) । स्तुप् । सर्पीकरोति नवनीतम् । धनूस्याद्वंशः ।
लुप्
इसु० । इस्प्रत्ययान्ताः सर्पिस्प्रभृतयः उस्प्रत्ययान्ता धनुस्प्रभृतयस्तेषां च्वौ परेऽन्तस्य बहुलं भवति । एतत्सर्वं लेशेन आह स्लुपीति- सप्पकरोतीत्यादि । बाहुलकान्न भवति - सर्पिर्भवति धनुर्भवति । बहुलग्रहणं प्रयोगानुसरणार्थम् ॥ अत्रादिशब्दानुवृत्तेः, "च्वौ कचित् ” ( ३।२।६० ) परत: २५ रूयनूङ् च्वौ पुंवद्भवति, कचिल्लक्ष्यानुरोधात् । अमहती महतीभूता महद्भूता कन्या । एवं बृहत्कृता । क्वचिद्रहणादगोमती गोमतीभूता गोमतीभूतेत्यादौ न स्यात् । एवं पट्टीभूता पद्बभूता मृद्वीकृता मृदूकृतेत्यादौ विकल्पः । महतीभूतेत्यपि केचित् || किन " आपत्यस्य क्यच्व्योः” ( २।४।९१ ) आपत्यस्य क्ये च्वौ च परे लुक् स्यात् । अगार्यो गार्ग्यो भूतो गार्गीभूतः । आपत्यस्येति किम् ? । संकाशेन निर्वृत्तं सांकाश्यम् । असांकाश्यं सांकाश्यं भूतः सांकाश्यीभूतो देशः ।
Jain Education International
१०
For Personal & Private Use Only
व्यञ्जनान्तस्यान्त ईः (७|२|१२९ ) । बहुलम् । दृषदीभवति दृषद्भवति शिला ॥ ५८ ॥ व्यञ्ज० । बहुलग्रहणात् समिधीभवति समिद्भवति काष्ठमित्यादि प्रयोगानुसरणार्थम् ॥ ५८ ॥ क्रमप्राप्तं डाच्प्रत्ययं सङ्क्षेपतो गद्येनाह -
३३
है० प्रका० पूर्वा० २३
३०
www.jainelibrary.org