________________
महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघुस्वा० । गतिः। सूत्रद्वयं स्पष्टम् ॥५४॥ गतिसंज्ञानामव्ययत्वमुक्तमिति गतिसंज्ञकान् लक्षयति।
ऊर्यायनुकरणविडाचश्च गतिः॥ ५५॥[सि० ३३१२] एते उपसर्गाश्च गतयः स्युस्ते च प्राग धातो प्रयोज्या। ऊरीकृत्य उररीकृत्य खाटकृत्य ॥५५॥
ऊर्या० । अरी आदिर्येषां ते अर्यादयः । ऊर्यादयश्च अनुकरणानि च विश्व डा च ऊर्याद्यनुकरण५च्विडाचः । चकार उपसर्गानुवृत्त्यर्थस्तेनोपसर्गाणामपि गतिसंज्ञा सिद्धा । तत्रापि विडाचौ प्रत्ययौ । प्रत्ययश्च प्रकृत्यादेर्विशेषणमिति च्च्यन्तानां डाजन्तानां च गतिसंज्ञा भवति । गतिसंज्ञाश्च सर्वधातोः प्राक् प्रयोज्याः । ऊरीकृत्येति ऊर्यादीनां गतिसंज्ञत्वात् "गतिकन्यस्तत्पुरुषः" इति समासे सति "अनवः त्वो यप्" इति तवो यबादेशो भवति । ऊरी उररी अंगीकरणे 'विस्तारे च । उरुरी अंगीकारे । एते त्रयो भृशार्थप्रशंसयोरपि । श्रौषट् वौषट् वषट् स्वाहा स्वधा देवतासंप्रदानमात्रयोः । वषट् पूजायामपि । १० स्वधा तैप्तिप्रीतिप्रत्यभिवादनेष्वपि । श्रत् श्रद्धाने शैध्ये च । प्रादुस् आविस् प्राकाश्ये । पशू केवाली हिंसायाम् । वेताली विस्तारे । एवमन्येपि पांपीपार्दालीमस्मसामसमसाधूलीप्रभृतय ऊर्यादिषु ज्ञेयाः । एषां चिडान्साहचर्यात् कृभ्वस्तिभिरेव योगे गतिसंज्ञा । अतश्च दधाति करोतिभ्यां । प्रादुराविःशब्दौ कृग्योगे विकल्पार्थ साक्षादादावपि पठ्येते । गतिप्रदेशा "गतिः” इत्यादयः ॥ ५५ ॥ अनुकरणानामा
नन्त्यान्निर्देशोऽशक्य इति विप्रत्ययं निर्दिशति१५ कृभ्वस्तिभ्यां कर्मकर्तृभ्यां प्रागतत्तत्वे च्विः॥५६॥[सि०७२।१२६]
कर्मार्थात् कृगा योगे कर्थाच स्वस्तियोगे प्रागभूततद्भावे चिः स्यात् ॥५६ ॥
कृभ्व० । भूश्च अस्तिश्च भ्वस्ति का च भ्वस्ति । च कृभ्वस्तिनी, ताभ्याम् । कर्म च कर्ता च कर्म. कर्तारौ, ताभ्याम् । उभयत्र द्विवचनं कृम्वस्तिभ्यां यथासङ्ख्यार्थम् । न सः असः, प्राग् असः प्रागसः ।
तस्य भावस्तत्त्वम्, प्रागतस्य तत्त्वं प्रागतत्त्वम् , तस्मिन् । करोति कर्मणो भ्वस्ति कर्तुश्च पूर्वमतस्य २० तद्भावे गम्यमाने कृभ्वस्तिभ्यां च योगे च्विः प्रत्ययो भवति । एतत्सर्व सङ्केपत आह-कर्मार्थात् कृगा
योगे इत्यादि ॥ ५६ ॥ अत्र द्रव्यस्य गुणक्रियाद्रव्यसंबन्धसमूहविकारयोगे प्रागतत्तत्वमुदाहार्यम् । २२ अनोपयोगिसूत्रमाह
१ एकत्रावस्थितस्य स्वावयवैरनियतदिग्देशव्याप्तिर्विस्तारः । २ देवतासम्प्रदानं देवताभ्यः सम्प्रदीयमानं हविर्द्रव्यं दानमात्रं दानसामान्यं खधा पितृभ्यः इति श्रुतेः, कथं स्वधा देवतासम्प्रदाने वर्तते ? उच्यते-पितृणामपि देवतारूपत्वाददोषः। ३ तृप्तिः श्रद्धोच्छेदः, प्रीतिरानन्दः, प्रत्यभिवादनं प्रतिनमस्किया। ४ धर्मकर्म विषयोऽभिलाषः श्रद्धानम् । ५ अत्रोर्यादिष्वपरिगणिता अप्युपयोगितया बृहद्वृत्त्यनुसारेण प्रदर्यन्ते-पाम्पी विध्वंसमाधुर्यकरुणविलापेषु (रसेन्द्रियग्राह्यो मनः प्रीतिजनको गुणविशेपो माधुर्यम् , इष्टवियोगजनितं शब्दं रोदनं करुणविलापः) । ताली आताली वर्णोत्तमार्थयोः । धूशी कान्तिकाङ्क्षयोः ( कान्तिस्तेजस उत्कर्षतः, काला अभिलाषः)। पाम्प्यादयो विस्तारेऽपि । शकला संशकला वंशकला भ्रंशकला (शशाः खला अस्याः शकला हिंसा। संगता, ध्वस्ता, भृशं, शकला संशकलेल्यादि-पृषोदरादिवादिष्टरूपनिष्पत्तिः) आलम्बी केवाशी शेवाली पार्दाली मस्मसा मसमसा एते हिंसायाम् , आद्याश्चत्वारः परिभवेऽपि, ततः परे चत्वारश्चाविष्कारेऽपि, अन्यौ च द्वौ चूर्णसंवरणयोरपि (अवयविनः सूक्ष्मावयव विभागचूर्णम् ) । पार्दाली शब्दार्थेऽपि । मस्मसा मसमसा अनुकरणेऽपि (सर्वत्रापिशब्दो हिंसासम्बन्धद्योतनार्थः) । केचित्तु मस्मसेत्यत्र ऋकारी निपात्य मृस्मृसेति पठन्ति । केचिदालम्बीस्थाने आलोष्ठीति पठन्ति ॥ गुलुगुधा क्रीडापीडयोः । गुलगुधेत्यन्ये मन्यन्ते । सजूः सहार्थे । फलू फली विक्ली आक्ली एते विकारे, आद्यौ क्रियासम्पत्तिकर्म सिद्ध्यकण्टकेष्वपि, अन्त्यौ तु विभागविचारयोरपि (विभागो विभक्तप्रत्ययनिमित्तं गुणविशेषः) । केचित्तु धूली वर्षाली पाम्पाली विचाली शब्दानप्यधीयन्ते। ६ विडाचोः कृभ्वस्तिभिरेव योगे भावात् तदेकवाक्यतया चैषां निर्देशात्तद्योग एव गतित्वमित्यर्थः। ७ 'मृगयेच्छा. (५।३।१.१) इत्यत्र श्रद्धति निर्देशात् तथैव प्रयोगदर्शनाच्छास्त्रस्यानुवादकलादिति शेषः।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org