________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे अव्ययानि । वतस्याम् त्यातुमम् । गतिः १७५ वत्त । एतदन्तमिति वत्प्रत्ययान्तं तसिप्रत्ययान्तमाम्प्रत्ययान्तं चाव्ययसंझं स्यात् ॥४७॥ एषां प्रत्ययानां विधायकसूत्राण्याह
स्यादेरिवे ॥५१॥ [सि०७।१।५२] खाद्यन्तादिवार्थे क्रियासादृश्ये वत् स्यात् । अश्व इव अश्ववत् । मैत्रवद्याति चैत्रः। देवमिव देववत्पश्यन्ति मुनिम् ॥५१॥
स्यादेरि० । स्यायन्तादिति-इवशब्दः सादृश्यं द्योतयति तचेत्सादृश्यं क्रियाविषयं भवति । अश्ववदिति प्रथमान्तस्योदाहरणम् , देववदिति द्वितीयान्तस्य । एवं साधुनेव साधुवदाचरितं मैत्रेण, ब्राह्मणायेव ब्राह्मणवद्दत्तं क्षत्रियाय, पर्वतादिव पर्वतवदवरोहत्यासनात् । स्यादेरिति किम् ? गच्छन्नास्ते इव मन्दत्वादीप्सितदेशस्यासम्प्राप्तः । अधीयानो नृत्यतीव अङ्गविकारप्रायत्वात् ॥ क्रियायामित्येव-गौरिव गवयः । देवदत्त इव गोमान् । हस्तीव स्थूलः । अत्र द्रव्यगुणविषये सादृश्ये न भवति ॥ कथं देवदत्तवत् १० स्थूलो यज्ञदत्तवत् गोमान् ? अत्र तुल्यायामस्तौ भवतौ च क्रियायामध्याह्रियमाणायां प्रत्ययो भविष्यति । अत्र सूत्रेत्यवक्तस्य ? । अत्र च "मनुनभोगिरो वति” (१।१।२४) मनुस्-नभस्-अङ्गिरस् इत्येतानि वतिप्रत्यये परे पदसंज्ञानि न स्युः । मनुरिव मनुष्वत्। एवं नभवत् अङ्गिरस्वत् । अपदत्वात् रुन भवति षत्वं तु भवति ।
षष्ठीसप्तम्यन्तयोः सादृश्ये वत् । चैत्रस्येव चैत्रवन्मैत्रस्य मुखम् । मुक्ताविव मुक्तिवच्छान्तौ १५ सुखम् ।
तत्र [सि० ७।१।५३] तत्रेति सप्तम्यन्त्यादिवार्थे वत्प्रत्ययो भवति । स्रुघ्नवत् साकेते परिखा । तस्य (७।१।५४ ) तस्येति षष्ठ्यन्तादिवार्थे वत् स्यात् । चैत्रस्येव चैत्रवन्मैत्रस्य गावः । एतत्सद्देपेणाह-षष्ठीसप्तम्यन्तयोरित्यादि । क्रियासादृश्ये पूर्वेणैव सिद्धम् , क्रियार्थमिदं वचनम् । चैत्रस्येवेत्यादौ चैत्रमैत्रयोर्मुखविषयं सादृश्यं, मुक्ताविवेत्यादौ मुक्तिशान्त्योः सुखविषयं सादृश्यमिति । एवं "तस्याहे २० क्रियायां वत्” (७।१।५१) अर्हतीत्यहम् “अच्” (५।१।४९) इति अच् ? षष्ठ्यन्तादर्हेऽर्थे वत् स्यात्, यदहं तच्चेत् क्रिया भवति । राज्ञोऽहं राजवत् वृत्तमस्य राज्ञः । राजत्वस्य युक्तमस्य राज्ञो वृत्तमित्यर्थः ॥ ५१॥
तसिः ॥ ५२॥ [सि०६॥३३२११] टान्तात्तुल्यदिश्यर्थे तसिः स्यात् । सुदाम्नैकदिक् सुदामतो मेघः । आम् वक्ष्यते ॥५२॥ २५
तसि० । टान्तादिति-तृतीयान्तात् तुल्यादिक्त्वे-उभयोरेकदिगधिकरणत्वे । सुदाम्नैकदिगिति सुदामा नाम पर्वतो यस्यां दिशि तस्यां दिशि मेघ इति तेन सह एकदिगुच्यते । तसिरित्यत्रेकारो "वत्तस्याम्" इत्यत्र विशेषार्थः । तथा यश्चोरसः (६।३।२१२) अतष्टान्तात्तुल्यदिक्त्वे यतसी स्याताम् । उरस्यः । उरस्तः ।। ५२ ॥
त्वातुमम् ॥ ५३॥ [सि० १११॥३५] एतदन्तमव्ययम् । कृत्वा । कर्तुं । यावजीवम् । प्रत्ययाश्चैते वक्ष्यन्ते ॥ ५३॥
__ गतिः॥ ५४॥ [सि० १॥१॥३६ ] गतिसंज्ञमव्ययं स्यात् ॥ ५४॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org