________________
१७४
महामहोपाध्याय श्रीविनय विजयगणिविरचिते खोपज्ञहैम लघु
प्रभूतशः गणशः । अन्यार्थ अल्प आयाति ( कर्तृकारकवाक्यम् ) अल्पश आयाति । अल्पं धनं दत्ते अल्पशो दत्ते । श्राद्धे अल्पैर्भुक्तम् अल्पशो भुक्तमित्याद्यपि । एवं स्तोकशः कतिपयशः बह्वल्पार्थादिति किम् ? गां ददाति, अभ्रं ददाति । कारकादिति किम् ? बहूनां खामी । इष्टानिष्ट इति किम् ? बहु ददाति श्राद्धे, अल्पं ददाति प्राशित्रादौ । पकारः पित्कार्यार्थः ॥ ४६ ॥ सङ्ख्यैकार्थाद्वीप्सायां शस् ॥ ४७ ॥ [ सि० ७२ १५१ ]
५
सङ्ख्यार्थैकार्थाभ्यां वीप्सायां द्योत्यायां शस् त्रा स्यात् । एकैकमेकशो वा दत्ते । माषं मा माषशो वा देहि ॥ ४७ ॥
सङ्ख्यै० । एकत्वविशिष्टोऽर्थ एकार्थः सङ्ख्या च एकार्थश्च सङ्ख्यैकार्थः तस्मात् । सङ्ख्यार्थेत्यादिसङ्ख्यावाचिन एकत्वविशिष्टार्थवाचिनश्च कारकाभिधायिनो नाम्नो वीप्सायां द्योत्यायां शसू वा स्यात् । १० वीप्सायां द्विर्वचनस्य प्राप्तौ तदपवादोऽयम् । वाऽधिकारात् पक्षे द्विर्वचनमपि भवति । एकैकं दत्ते एकश दत्ते । द्वौ द्वौ द्विशः । एवं त्रिशः तावच्शः कतिशः गणशः । एकार्थ :- माषं माषं देहि माषशो देहि । एवं कार्षापणशः पणशः पादशः पलशः प्रस्थशः अर्द्धशः पर्वशः तिलशः संघशः पूगशः वृन्दशः पङ्क्तिशः वनशः प्रविशति । कूपीशः खनति । कुम्भीशः कलशीशो ददाति । क्रमश इति क्रमवतां भेदात् क्रमेण क्रमेण इति वीप्सा भवति । सङ्ख्यैकादिति किम् ? माषौ माषौ ददाति । वीप्सायामिति १५ किम् ? द्वौ ददाति, माषं ददाति । तानेकैकशः पृच्छेत् । एकैकशो निघ्नन्ति एकैकशो ददातीति वीप्सायां द्विरुक्तात् “बह्वल्पार्थात् कारकादिष्टानिष्टे शस्" इत्यनेन अल्पार्थात् शस् । वीप्सितवीप्सायां वानेनैव शस् एकैकमैकैकं पृच्छेदित्यर्थः । कारकादित्येव-द्वयोर्द्वयोः स्वामी । माषस्य माषस्येष्टे ॥ ४७ ॥
तद्वति धण् ॥ ४८ ॥ सि० ७२ १०८ ]
द्वित्रिभ्यां प्रकारवति धण् । द्वौ प्रकारावेषां द्वैधाः । धण्वर्जनात्तस्य नाव्ययत्वम् ॥ ४८ ॥ सद्व० । द्वित्रिभ्यां सङ्ख्यावाचिभ्यां तद्वति प्रकारवति विचालवति चाभिधेये धण्प्रत्ययो भवति । द्वौ प्रकारौ विभागौ वा एषां द्वैधानि वैधानि । राजद्वैधानि राजत्रैधानि । द्वैधीभावः । त्रैधीभावः । धणूवर्जनादिति-‘“अधण्तस्वाद्याशस” इत्यव्ययसंज्ञाविधायकसूत्रे हि धण्वर्जितः ॥ ४८ ॥ विभक्तिथमन्ततसाद्याभाः ॥ ४९ ॥ [ सि० १|१|३१]
1
1
विभक्त्यन्ताभास्थमवसानतसादिप्रत्ययान्ताभाश्चाव्ययानि स्युः । चिराय चिरात् । भवतु २५ अस्तु । कुतः । कथम् ॥ ४९ ॥
विभक्ति० । थम् अन्ते येषां ते थमन्ताः, तस् आदिर्येषां ते तसादयः, थमन्ताश्च ते तसादयश्च थमन्ततसादयः । विभक्तयश्च धमन्ततसादयश्च विभक्तिथमन्ततसादयः । ते इवाभान्तीति विभक्तिथमन्ततसाद्याभाः। “विशेषणमन्तः" इत्यन्तशब्दः प्राप्यते इत्यत आह - विभक्त्यन्ताभा इत्यादि । अहं शुभं १ कृतं पर्याप्तं २ येन तेन चिरेण अन्तरेण ३ ते मे अह्नाय चिराय ४ चिरात् अकस्मात् ५ चिरस्य ३० अन्योन्यस्य मम ६ एकपदे अग्रे प्रगे प्राह्वे हेतौ रात्रौ वेलायां मात्रायाम् ७ एते स्यादिविभक्त्यन्तप्रतिरूपका अव्ययाः । अस्ति नास्ति असि अस्मि विद्यते भवति एहि ब्रूहि मन्ये शके अस्तु भवतु पूर्यते स्यात् आस आह वर्त्तते नवर्त्तते याति नयाति पश्यति पश्यत आदह आदक आतङ्क इति त्यादिविभक्त्यन्तप्रतिरूपका अव्ययाः ॥ ४९ ॥
२०
३५
वत्तस्याम् ॥ ५० ॥ [ सि० १ १ ३४]
एतदन्तमव्ययम् ।। ५० ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org