________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशै अव्ययानि । अधण्तस्थाद्याशसः १७३
व्याप्तौ स्सात् ॥४१॥ [सि० ७।२।१३०] कृभ्वस्तिभ्यां कर्मकर्तृभ्यां योगे प्रागतत्तत्वे स्स सादिः सात् स्यात् , व्याप्तौ गम्यायाम् । द्विः सकारपाठानास्य षत्वम् । अग्निसात्करोति काष्ठम् , भवति स्यात् वा ॥४१॥
व्याप्तौ० । कृभ्वस्तिभ्यामित्यादि-करोति कर्मणो भ्वस्ति कर्तुश्च प्राक् पूर्वमतत्त्वस्य तत्त्वे गम्यमाने कृभ्वस्तिभ्यां च योगे स्सात्प्रत्ययो भवति । व्याप्तावित्यादि-प्रागतत्तत्त्वस्य चेव्याप्तिः सर्वात्मना५ द्रव्येणाभिसंबन्धो गम्यते । द्विः सकारेत्यादि-अयं सकारः सकार एवास्तु, अस्य षत्वं माभूदित्येवमर्थ द्वितीयस्य सकारस्य ग्रहणात् । अग्निसात् करोति काष्ठमिति-सर्व काष्ठं प्राग नाग्निमग्निं करोति अग्निसात्करोति । एवं सर्व काष्ठं प्राग नाग्निरग्निर्भवति अग्निसाद्भवति अग्निसात्स्यादिति ॥ ४१ ॥
जातेः सम्पदा च ॥४२॥ [सि०७।२।१३१] कृभ्वस्तिभिः सम्पदा च योगे कुकर्मणो भ्वस्तिसम्पत्कर्तुश्च प्रागतत्त्वेन जाते. सामान्यस्य १० व्याप्तौ स्सात् स्यात् । अस्यां सेनायां सर्व शस्त्रमग्निसात्करोति दैवम् । एवमग्निसाद्भवति । अग्निसात्स्यात् । अग्निसात्सम्पद्यते । चकार उत्तरत्रोभयोः समुच्चयार्थः ॥ ४२ ॥
तत्राधीने ॥४३॥ [ सि०७२।१३२] सप्तम्यन्तादधीनेऽर्थे कृम्वस्तिसंपयोगे स्सात्स्यात् । राशि अधीनं राजसात्करोति । भवति स्यात् सम्पद्यते वा ॥४३॥
तत्रा० । कृभ्वस्ति संपदा चेत्यनुवर्तते । कर्मकर्तृभ्यां प्रागतत्तत्वे इति च निवृत्तम् । अत आह सप्तम्यन्तादित्यादि सप्तम्यन्ताद्देयोपाधिकेऽधीने आयत्तेऽर्थे कृभ्वस्तिसंपद्योगे त्रा स्यात् । क्रमेणोदाहरति-- राज्ञि अधीनमिति केवलमधीनत्वे उदाहरणं राजसात्करोति राजस्वामिकं करोतीत्यर्थः ॥ ४३ ॥
देयेऽधीने च त्रा ॥४४॥ [सि० ७२॥१३३ ] देवत्राकरोति द्रव्यम् ॥४४॥ देयोऽपाधिकेऽधीनेऽर्थे उदाहरणम्-देवत्रा करोतीति देवेऽधीनं देयं करोति देवत्रा करोति द्रव्यम् देवाय दातव्यमिति यत्स्थापितं तदिदानी देवाय ददातीत्यर्थः । देवेऽधीनं देयं द्रव्यं भवति देवत्रा भवति एवं स्यात्संपद्यते इति ॥ ४४ ॥
____ सप्तमीद्वितीयादेवादिभ्यः ॥ ४५ ॥ [ सि०७२।१३४] सप्तमन्तेभ्यो द्वितीयान्तेभ्यश्च देवादिश्यः खार्थे वा स्यात् । देवेषु वसति देवत्रा वसति । २५ देवेषु भवति देवत्रा भवति । देवेषु स्याद्देवत्रा स्यात् । देवान् करोति देवत्रा करोति । देवान् गच्छति देवत्रा गच्छति । एवं मनुष्यत्रा वसति, गच्छति । मर्त्यत्रा पुरुषत्रा, गच्छति । देवादयः शिष्टप्रयोगगम्याः ॥ ४५ ॥
बह्वल्पार्थात् कारकादिष्टानिष्टे शस् ॥ ४६॥ [सि० ७।२१५०] बह्वर्थात् अल्पार्थाच्च कारकवाचिनो नाम्नः प्शस्प्रत्ययो वा स्यात् । यथासङ्ख्यमिष्टेऽनिष्टे च ३० विषये । इष्टं प्राशिवादि, अनिष्टं श्राद्धादि । बह्वर्थ. ग्रामे बहवो ददति बहुशो ददति । बहु धनं ददाति बहुशो धनं ददाति । विवाहे बहुभिर्भुक्तं बहुशो भुक्तमतिथिमिरित्यादि । एवं भूरिशः३२
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org